भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2823-2842

2823

अय्ययि साहसकारिणि किं तव चङ्क्रमणेन ।
टसदिति भङ्गमवाप्स्यसि कुचयुगभारभरेण ॥
अरक्ते न सुखं वेत्ति नारक्तो दुःखमश्नुते ।
दुःखानां च सुखानां च रक्त एवास्पदं सदा ॥

2824

अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥

2825

अरक्षितं भवेत् सत्यं दैवं तमेव रक्षति ।
दैवेन नाशितं यत्तु तस्य रक्षा न दृश्यते ॥

2826

अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥

2827

अरक्षितारं राजानं बलिषड्भागहारिणम् ।
तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥

2828

अरक्ष्यमानाः कुर्वन्ति यत्किंचित् किल्विषं प्रजाः ।
तस्मात्तु नृपतेरर्धं यस्माद् गृह्णात्यसौ करान् ॥

2829

अरण्यं रक्षितं सिंहात् तस्मात् सिंहः सुरक्षितः ।
इत्यन्योन्यस्योपकारे मित्रत्वं तन्निबन्धनम् ॥

2830

अरण्यं सारङ्गैर्गिरिकुहरगर्भाश्च हरिभिर् दिशो दिङ्मातङ्गैः सलिलमुषितं पङ्कजवनैः ।
प्रियाचक्षुर्मध्यस्तनवदनसौन्दर्यविजितैः सतां माने म्लाने मरणमथवा दूरगमनम् ॥

2831

अरण्यबीजाञ्जलिदानलालितास् तथा च तस्यां हरिणा विशश्वसुः ।
यथा तदीयैर्नयनैः कुतूहलात् पुरः सखीनाममिमीत लोचने ॥

2832

अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं स्थलेऽब्जमवरोपितं सुचिरमूषरे वर्षितम् ।
श्वपुच्छमवनामितं बधिरकर्णजापः कृतः कृतान्धमुखमण्डना यदबुधो जनः सेवितः ॥

2833

अरण्यहरिणग्रामम् आचक्राम हुताशनः ।
इन्दोः क्रोडमृगं धर्तुम् इव धूमो नभो ययौ ॥

2834

अरण्यानी क्वेयं धृतकनकसूत्रः क्व च मृगः क्व मुक्ताहारोऽयं क्व च स पतगः क्वेयमबला ।
क्व तत्कन्यारत्नं ललितमहिभर्तुः क्व च वयं स्वमाकूतं धाता किमपि निभृतं पल्लवयति ॥

2835

अरण्ये पुष्पिता वृक्षा दूरस्थाने च बान्धवाः ।
समृद्धेनापि किं तेन यः काले नोपतिष्ठति ॥

2836

अरतिरियमुपैति मां न निद्रा गणयति तस्य गुणान् मनो न दोषान् ।
विगलति रजनी न संगमाशा व्रजति तनुस्तनुतां न चानुरागः ॥

2837

अरत्नालोकसंहार्यम् अवार्यं सूर्यरश्मिभिः ।
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः ॥

2838

अरयोऽपि हि मित्रत्वं यान्ति दण्डवतो ध्रुवम् ।
दण्डप्रायो हि नृपतिर् भुनक्त्याक्रम्य मेदिनीम् ॥

2839

अरयोऽपि हि संधेयाः सति कार्यार्थगौरवे ।
अहिमूषकवद् देवा ह्यर्थस्य पदवीं गतैः ॥

2840

अरलूवृक्षपत्राणां लेपो गोमुखरोगहृत् ।
गोनाससंभवः क्षारो हन्ति पुष्पं चिरोद्भवम् ॥

2841

अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् ।
स्मरामि वदनं तस्याश् चारु चञ्चललोचनम् ॥

2842

अरविन्दवृन्दमकरन्दतुन्दिलो मरुदेति मन्दमिह मन्दराचलात् ।
सुरतान्ततान्तसुदतीमतल्लिका- कबरीपरीमलझरी परीवृतः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc