भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 2863-2882

2863

अरिषङ्वर्ग एवायम् अस्यास्तात पदानि षट् ।
तेषामेकमपि च्छिन्दन् खञ्जय भ्रमरीं श्रियम् ॥

2864

अरिष्टानि महाराज शृणु वक्ष्यामि तानि ते ।
येषामालोकनान् मृत्युः निजं जानाति योगवित् ॥

2865

अरुंतुदं परुषं रूक्षवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् ।
विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धां निरृतिं वहन्तम् ॥

2866

अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः ।
उभेयेन विना मनोभव- स्फुरितं नैव चकास्ति कामिनोः ॥

2867

अरुणकिरणजालैरन्तरिक्षे गतर्क्षे चलति शिशिरवाते मन्दमन्दं प्रभाते ।
युवतिजनकदम्बे नाथमुक्तौष्ठबिम्बे चरमगिरिनितम्बे चन्द्रबिम्बं ललम्बे ॥

2868

अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या परिणयति तां संध्यामेतामवैमि मणिर्दिवः ।
इयमिव स एवाग्निभ्रान्तिं करोति पुरायतः करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम् ॥

2869

अरुणजलजराजीमुग्धहस्ताग्रपादा बहुलमधुपमालाकज्जलेन्दीवराक्षी ।
अनुपतति विरावैः पत्रिणां व्याहरन्ती रजनिमचिरजाता पूर्वसंध्या सुतेव ॥

2870

अरुणदलनलिन्या स्निग्धपादारविन्दा कठिनतनुधरण्यां यात्यकस्मात् स्खलन्ती ।
अवनि तव सुतेयंपादविन्यासदेशे त्यज निज कठिनत्वं जानकी यात्यरण्यम् ॥

2871

अरुणनयनं सभ्रूभङ्गं दरस्फुरिताधरं सुतनु शशिनः क्लिष्टां कान्तिं करोतु तवाननम् ।
कृतमनुनयैः कोपोऽयं ते मनस्विनि वर्धताम् इति गदितयाश्लिष्टो देव्या शिवाय शिवोऽस्तु वः ॥

2872

अरुणमपि विद्रुमद्रुं मृदुलतरं चापि किसलयं बाले ।
अधरीकरोति नितरां तवाधरो मधुरिमातिशयात् ॥

2873

अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः ॥

2874

अरुणिताखिलशैलवना मुहुर् विदधती पथिकान् परितापिनः ।
विकचकिंशुकसंहतिरुच्चकैर् उदवहद्दवहव्यवहश्रियम् ॥

2875

अरुणे च तरुणि नयने तव मलिनं च प्रियस्य मुखम् ।
मुखमानतं च सखिते ज्वलितश्चास्यान्तरे स्मरज्वलनः ॥

2876

अरुणोदयवेलायां दशाहेन फलं लभेत् ।
गोविसर्जनवेलायां सद्यः फलद इष्यते ॥

2877

अरुन्धतीकामपुरंध्रिलक्ष्मी- जम्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव गुल्फद्वयाप्ता यददृश्यसिद्धिः ॥

2878

अरुष्यन् क्रुश्यमानस्य सुकृतं नाम विन्दति ।
दुष्कृतं चात्मनो मर्षी रुष्यत्येवापमार्ष्टि वै ॥

2879

अरूपोऽपि सुरूपोऽपि आढ्योऽपि द्रव्यवर्जितः ।
दुःशीलः शीलयुक्तो वा स्त्रीणां भर्ताधिदेवता ॥

2880

अरे चेतोमत्स्य भ्रमणमधुना यौवनजले त्यज त्वं स्वच्छन्दं युवतिजलधौ पश्यसि न किम् ।
तनूजालीजालं स्तनयुगलतुम्बीफलयुतं मनोभूः कैवर्तः क्षिपति रतितन्तु प्रतिमुहुः ॥

2881

अरे दैव त्वदायत्तं कामं वित्तादि गच्छतु ।
ममायत्तं पुनर्वृत्तं हर्तुं कस्येह योग्यता ॥

2882

अरे यमभटाः शठाः कपटविग्रहे तूद्भटा निवेदयत वो यमं न च तवाधिकारो मयि ।
अहं च शिवसुन्दरीचरणयुग्मपङ्केरुह- स्खलन्मधुसुधारसं समपिबं न जानीथ रे ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc