भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1863-1882

1863

अन्योन्येषां पुष्करैरामृशन्तो दानोद्भेदानुच्चकैर्भुग्नवालाः ।
उन्मूर्धानः संनिपत्यापरान्तैः प्रायुध्यन्त स्पष्टदन्तध्वनीभाः ॥

1864

अन्योपभोगकलुषा मानवती प्रेमगर्विता मुदिता ।
सौन्दर्यगर्विता च प्रेमपराधीनमानसानूढा ॥

1865

अन्योऽपि चन्दनतरोर्महनीयमूर्तेः सेकार्थमुत्सहति तद्गुणबद्धतृष्णः ।
शाखोटकस्य पुनरस्य महाशयोयम् अम्भोद एव शरणं यदि निर्गुणस्य ॥

1866

अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी ।
यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥

1867

अन्वग्राहि मया प्रेयान् निशि स्वोपनयादिति ।
न विप्रलभते तावद् आलीरियमलीकवाक् ॥

1868

अन्वयागतविद्यानाम् अन्वयागतसंपदाम् ।
विदुषां च प्रभूणां च हृदयं नावलिप्यते ॥

1869

अन्वर्थवेदी शूरश्च क्षमावान्न च कर्कशः ।
कल्याणमेधास्तेजस्वी स भद्रः परिकीर्तितः ॥

1870

अन्विष्यद्भिरयं चिरात् कथमपि प्रार्थ्येत यद्यर्थिभिर् नाथ त्वं पुनरर्थिनः प्रतिदिनं यत्नात् समन्विष्यसि ।
प्राप्तौ चिन्तितमात्रकं दददसौ चिन्तातिरिक्तप्रदं त्वामालोक्य विदीर्यते यदि न तद्ग्रावैव चिन्तामणिः ॥

1871

अन्वीक्षणं च विद्यानां सद्वर्णाश्रमरक्षणम् ।
ग्रहणं शस्त्रशास्त्राणां युद्धमार्गोपशिक्षणम् ॥

1872

अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च ।
अनुप्लवन्ते मेघाश्च यस्य तस्य रणे जयः ॥

1873

अन्वेषयति मदान्ध- द्विरदमदाम्बुसिक्तमवनितलम् ।
परिणतगर्भभरार्ता सिंहवधूः शल्लकीविपिने ॥

1874

अपः पिबन् प्रपापालीम् अनुरक्तो विलोकयन् ।
अगस्त्यं चिन्तयामास चतुरः सापि सागरान् ॥

1875

अपकर्ताहमस्मीति हृदि ते मा स्म भूद्भयम् ।
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति ॥

1876

अपकारदशायामप्य् उपकुर्वन्ति साधवः ।
छिन्दन्तमपि वृक्षः स्वच् छायया किं न रक्षति ॥

1877

अपकारमसंप्राप्य तुष्येत् साधुरसाधुतः ।
नैषोऽलाभो भुजङ्गेन वेष्टितो यो न दश्यते ॥

1878

अपकारिणि कोपश्चेत् कोपे कोपः कथं न जायेत ।
धर्मार्थकाममोक्ष- प्राणयशोहारिणि क्रूरे ॥

1879

अपकारिणि चेत् कोपः कोपे कापः कथं न ते ।
धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि ॥

1880

अपकारिणि विस्रम्भं यः करोति नराधमः ।
अनाथो दुर्बलो यद्वन् न चिरं स तु जीवति ॥

1881

अपकारिषु मा पापं चिन्तय त्वं कदाचन ।
स्वयमेव पतिष्यन्ति कूलजाता इव द्रुमाः ॥

1882

अपकुर्यात् समर्थं वा नोपकुर्याद्यदापदि ।
उच्छिन्द्यादेव तन्मित्रं विश्वस्याङ्कमुपस्थितम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc