महासुभाषितसंग्रह · श्लोक 1843-1862
अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ।
भवत्यानन्दकृद्देव द्विषतां नात्र संशयः ॥
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥
अन्योन्यरागवशयोर्युवयोर्विलास- स्वच्छन्दताच्छिदपयातु तदालिवर्गः ।
अत्याजयन् सिचयमाजिमकारयन्वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात् ॥
अन्योन्यलक्षणैर्युक्तां नारीं संकीर्णकां विदुः ।
या निजैरेव संयुक्ता चिह्नैस्तां केवलां जगुः ॥
अन्योन्यलावण्यविलोकनान्तं नेत्रद्वयं स्यात्सततं किलास्याः ।
इत्येव नासा विहिता विधात्रा मध्ये तयोर्दर्शनविघ्नकर्त्री ॥
अन्योन्यवारिघटितौ धनवारिपाताद् भीतौ भृशं मृगवधूर्मृगयूथपश्च ।
वित्तस्तया घटनया कृतसौख्यमोहौ नैवाम्बुवाहजलशीकरपातपीडाम् ॥
अन्योन्यविपरीतानि मतानि मनसः सदा ।
अविद्यायां पुनः सत्ये ज्ञानस्योच्चतरस्य हि ।
अङ्गानि निखिलानि स्युः पूरयन्ति परस्परम् ॥
अन्योन्यश्वसिताशनैः फणधरैराविश्य सत्त्वान्बहिर् भुञ्जानैः परिचारकैस्तृणगणैरानन्दिना नन्दिना ।
भिक्षान्नोपचितैश्च दारतनयैः पुष्णाति विश्वानि यः स स्वामी मम दैवतं तदितरो नाम्नापि नाम्नायते ॥
अन्योन्यसंगमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे ।
स्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तम् आदाविव द्व्यणुककृत्परमाणुयुग्मम् ॥
अन्योन्यसंभिन्नदृशां सखीनां तस्यास्त्वयि प्रागनुरागचिह्नम् ।
कस्यापि कोऽपीति निवेदितं च धात्रेयिकायाश्चतुरं वचश्च ॥
अन्योन्यसंवलितमांसलदन्तकान्ति सोल्लासमाविरलसं वलितार्धतारम् ।
लीलागृहे प्रतिकलं किलकिञ्चितेषु व्यावर्तमानविनयं मिथुनं चकास्ति ॥
अन्योन्यसमुपष्टम्भाद् अन्योन्यापाश्रयेण च ।
ज्ञातयः संप्रवर्धन्ते सरसीवोत्पलान्युत ॥
अन्योन्यस्माद्विनिर्भिन्नं भिन्नगर्भं न युध्यते ।
तथैवापसृतं शक्तं नैकराज्यान्तरीकृतम् ॥
अन्योन्यस्य नियन्त्रणापरिभवादप्रौढशीतातपाः पुष्प्यत्किंशुकचूतनूतनदलाविर्भूतशोणश्रियः ।
पद्मोल्लासितगन्धवासितवहद्वातावदातत्विषो मोदोन्मादजुषो हरन्ति हृदयं वासन्तिका वासराः ॥
अन्योन्यस्य लयं भयादिव महाभूतेषु यातेष्वलं कल्पान्ते परमेक एव स तरुः स्कन्धोच्चयैर्जृम्भते ।
विन्यस्य त्रिजगन्ति कुक्षिकुर्हरे देवेन यस्यास्यते शाखाग्रे शिशुनेव सेवितजलक्रीडाविलासालसम् ॥
अन्योन्यस्याव्यभीचारो भवेदामरणान्तिकः ।
एष धर्मः समासेन ज्ञेयः मत्रीपुंसयोः परः ॥
अन्योन्याक्षिनिपातजातमदयोरन्योन्यचेष्टाशत- स्पृष्टान्तःपदयोर्मनोभवशरव्याघातसंभ्रान्तयोः ।
स्यादेव द्विरदेन्द्रयोरिव तयोरालिङ्गनं प्राङ्गणे धैर्यस्तम्भविडम्बिनी बलवती लज्जा न चेदर्गला ॥
अन्योन्यान्तरनिर्गताङ्गुलिदलश्रेणीभवन्निश्चल- ग्रन्थिप्रग्रथितं करद्वयमुपर्युत्तानमाबिभ्रता ।
सेयं विभ्रमतोरणप्रणयिना जृम्भाभरोत्तभिते- नोच्चैर्बाहुयुगेन शंसति मनोजन्मप्रवेशोत्सवम् ॥
अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरि कृतपदन्यासविक्रान्तपत्तौ ।
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूऋयनृत्यत्कबन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥
अन्योन्याहतदन्तनादमुखरं प्रह्वं मुखं कुर्वता नेत्रे साश्रुकणे निमील्य पुलकव्यासङ्गि कण्डूयता ।
हा हा हेति सुनिष्ठुरं विवदता बाहू प्रसार्य क्षणं पुण्याग्निः पथिकेन पीयत इव ज्वालाहतश्मश्रुणा ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0