भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1883-1902

1883

अपकुर्वन्नपि प्रायः प्राप्नोति महतः फलम् ।
और्वं दहन्तमेवाग्निं संतर्पयति सागरः ॥

1884

अपकृत्य बलस्थस्य दूरस्थोऽस्मीति नाश्वसेत् ।
श्येनानुचरितैर्ह्येते निपतन्ति प्रमाद्यतः ॥

1885

अपकृत्वा बुद्धिमतो दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू याभ्यां हिंसति हिंसितः ॥

1886

अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके ।
न केनापि स्पृष्टं यदिह वयसा मर्म परमं यदेतत् पञ्चेषोर्जयति वपुरिन्दीवरदृशः ॥

1887

अपक्वं भङ्गमायाति अतिजीर्णं तु कर्कशम् ।
ज्ञातिघृष्टं तु सोद्वेगं कलहो बान्धवैः सह ॥

1888

अपक्वमपि चूतस्य फलं द्रवति वेगतः ।
गुडशुण्टीप्रलेपेन विधृतं शश्वदातपे ॥

1889

अपक्वे तु घटे नीरं चालन्यां सूक्ष्मपिष्टकम् ।
स्त्रीणां च हृदये वार्ता न तिष्ठति कदापि हि ॥

1890

अपगतमदरागा योषिदेका प्रभाते कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाना स्वदेहं व्रजति शयनवासाद् वासमन्यद्धसन्ती ॥

1891

अपगतरजोविकारा घनपटलाक्रान्ततारकालोका ।
लम्बपयोधरभारा प्रावृडियं वृद्धवनितेव ॥

1892

अपङ्किलधियः शुद्धाः साधुमानसवृत्तयः ।
वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ॥

1893

अपचिक्रमिषुः पूर्वं सेनां स्वां परिसान्त्वयन् ।
विलङ्घयित्वा सत्रेण ततः स्वयमुपक्रमेत् ॥

1894

अपटः कपटी हिमहीनरुचिः प्रथितः पशुरन्यकलत्ररतः ।
तव राय(?)वसन्तसमो न हरो न हरिर्न्न हरिर्न्न हरिर्न्न हरिः ॥

1895

अपण्डितास्ते पुरुषा मता मे ये स्त्रीषु च श्रीषु च विश्वसन्ति ।
श्रियो हि कुर्वन्ति तथैव नार्यो भुजङ्गकन्यापरिसर्पणानि ॥

1896

अपण्डितो वापि सुहृत् पण्डितो वाप्यनात्मवान् ।
मन्त्रमूलं यतो राज्यम् अतो मन्त्रं सुरक्षितम् ॥

1897

अपतुषारतया विशदप्रभैः सुरतसङ्गपरिश्रमनोदिभिः ।
कुसुमचापमतेजयदंशुभिर् हिमकरो मकरोर्जितकेतनम् ॥

1898

अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा ।
दाराधीनस्तथा स्वर्गः पितृणामात्मनश्च ह ॥

1899

अपत्यदर्शनस्यार्थे प्राणानपि च या त्यजेत् ।
त्यजन्ति तामपि क्रूरा मातरं दारहेतवे ॥

1900

अपत्यानि प्रायो दश दश वराही जनयति क्षमाभारे धुर्यः स पुनरिह नासीन्न भविता ।
पदं कृत्वा यः स्वं फणिपतिफणाचक्रवलये निमज्जन्तीमन्तर्जलधि वसुधामुत्तुलयति ॥

1901

अपत्ये यत् तादृग्दुरितमभवत् तेन महता विषक्तस्तीव्रेण व्रणितहृदयेन व्यथयता ।
पटुर्धारावाही नव इव चिरेणापि हि न मे निकृन्तन्मर्माणि क्रकच इव मन्युर्विरमति ॥

1902

अपथेन प्रववृते न जातूपचितोऽपि सः ।
वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc