महासुभाषितसंग्रह · श्लोक 1783-1802
अन्यस्य लगति कर्णे जीवितमन्यस्य हरति बाण इव ।
हृदयं दुनोति पिशुनः कण्टक इव पादलग्नोऽपि ॥
अन्यस्यै संप्रतीयं कुरु मदनरिपो स्वाङ्गदानप्रसादं नाहं सोढुं समर्था शिरसि सुरनदीं नापि संध्यां प्रणन्तुम् ।
इत्युक्त्वा कोपविद्धां विघटयितुमुमामात्मदेहं प्रवृत्तां रुन्धानः पातु शम्भोः कुचकलसहठस्पर्शकृष्टो भुजो वः ॥
अन्याङ्गनाभिरधिकं स करोति केलिं त्वं तेन मा कुरु विषादमदभ्ररूपे ।
पेपीयते मधुकरः क्व न तं मरन्दं नो जातु विस्मरति पङ्कजिनीं तथापि ॥
अन्या जगद्धितमयी मनसः प्रवृत्तिर् अन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृटिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां दवीयः ॥
अन्यादानाकुलान्तःकरणवशविपद्बाधितप्रेतरङ्कं ग्रासभ्रश्यत्करालश्लथपिशितशवाग्रग्रहे मुक्तनादम् ।
सर्वैः क्रामद्भिरुल्काननकवलरसव्यात्तवक्त्रप्रभाभिर् व्यक्तैस्तैः संवलद्भिः क्षणमपरमिव व्योम्नि वृत्तं श्मशानम् ॥
अन्यानपि तरून् रोप्य फलपुष्पोपयोगिनः ।
रत्नधेनुसहस्रस्य फलं प्राप्नोति मानवः ॥
अन्या निरर्थिका चिन्ता बलतेजःप्रणाशिनी ।
नाशयेत् सर्वसौख्यं तु रूपहानिं निदर्शयेत् ॥
अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु वा तेषु न तैश्च किंचित् ।
चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ॥
अन्यानि शास्त्राणि विनोदमात्रं प्राप्तेषु कालेषु न तैश्च किंचित् ।
चिकित्सितज्योतिषमन्त्रवादाः पदे पदे प्रत्ययमावहन्ति ॥
अन्यान्परिवदन् साधुर् यथा हि परितप्यते ।
तथा परिवदन्नन्यांस् तुष्टो भवति दुर्जनः ॥
अन्यान्योपमितं युगं निरुपमं तेऽयुग्ममङ्गेषु यत् सोऽयं सिक्थकमास्यकान्तिमधुनस्तन्वङ्गि चन्द्रस्तव ।
त्वद्वाचां स्वरमात्रिकां मदकलः पुंस्कोकिलो घोषयत्य् अभ्यासस्य किमस्त्यगोचरमिति प्रत्याशया मोहितः ॥
अन्या प्रकामसुरतश्रमखिन्नदेहा रात्रिप्रजागरविपाटलनेत्रपद्मा ।
शय्यान्तदेशलुलिताकुलकेशपाशा निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं हर्षान्विता विरचिताधरचारुशोभा ।
कूर्पासकं परिदधाति नखक्षताङ्गी व्यालम्बिनीलललितालककुञ्चिताक्षी ॥
अन्याभ्यो वन्याभ्यो मालति धन्यासि वल्लरीभ्यस्त्वम् ।
यत् किल तवैव सविधे क्रीडति मधुपः सदैव मुदितोऽयम् ॥
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः ।
असंतुष्टाः प्रमुह्यन्ति संतोषं यान्ति पण्डिताः ॥
अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
न्यायश्चान्यायतां लोभात् किं तया क्षुद्रविद्यया ॥
अन्यायकरभोगैश्च यो हि जीवति नित्यशः ।
विरागादेव लोकानां भ्रंशते स हि पार्थिवः ॥
अन्यायद्रविणादानेष्व् उद्यमः क्रियते वृथा ।
लुब्धानां सत्यसंकोचात् संकुचन्त्येव संपदः ॥
अन्यायवित्तेन कृतोऽपि धर्मः सव्याज इत्याहुरशेषलोकाः ।
न्यायार्जितार्थेन स एव धर्मो निर्व्याज इत्यार्यजना वदन्ति ॥
अन्यायसमुपात्तेन दानधर्मो धनेन यः ।
क्रियते न स कर्तारं त्रायते महतो भयात् ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0