भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1763-1782

1763

अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते ।
इत्यसिस्वददुपांशुकाकुवाक् सोपमर्दहठवृत्तिरेव तम् ॥

1764

अन्यदाभाषितं पूर्वं दत्तमन्यत्ततोऽल्पकम् ।
यत्सदोषमयोग्यं वा कूटदानेन तेन किम् ॥

1765

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥

1766

अन्यदीयमविचिन्त्य पातक निर्घृणो हरति जीवितोपमम् ।
द्रव्य्मत्र कितवो विचेतनस् तेन गच्छति कदर्थनां चिरम् ॥

1767

अन्यदुःखेन यो दुःखी योऽन्यहर्षेण हर्षतः ।
स एव जगतामीशो नररूपधरो हरिः ॥

1768

अन्यदुच्छृङ्खलं सत्त्वम् अन्यच्छास्त्रनियन्त्रितम् ।
सामानाधिकरण्यं हि तेजस्तिमिरयोः कुतः ॥

1769

अन्यदुप्तं जातमन्यद् इत्येतन्नोपपद्यते ।
उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ॥

1770

अन्यदोषमिव स स्वकं गुणं ख्यापयेत् कथमधृष्टताजडः ।
उच्यते स खलु कार्यवत्तया धिग्वभिन्नबुधसेतुमर्थिताम् ॥

1771

अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम् ।
मुखे च लोहकण्ठेन वेध्यं त्र्यङ्गुलसंमितम् ॥

1772

अन्यपूर्वां स्त्रियं साध्वीं कामयेत न गर्वतः ।
साध्वीरिच्छन् महादेवः षण्डोऽभूद्दारुकावने ॥

1773

अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति ।
जातुषाभरणस्येव रूपेणापि हि तस्य किम् ॥

1774

अन्यमाश्रयते लक्ष्मीस् त्वन्यमन्यं च मेदिनी ।
अनन्यगामिनी पुंसां कीर्तिरेका पतिव्रता ॥

1775

अन्ययान्यवनितागतचित्तं चित्तनाथमभिशङ्कितवत्या ।
पीतभूरिसुरयापि न मेदे निर्वृतिर्हि मनसो मदहेतुः ॥

1776

अन्यया यौवने मर्त्यो बुद्ध्या भवति मोहितः ।
मध्येऽन्यया जरायांतु सोऽन्यां रोचयते मतिम् ॥

1777

अन्यवर्णं शिरो यस्य पुच्छं वा यस्य वाजिनः ।
पुच्छेन शिरसा वापि नानावर्णः स निन्दितः ॥

1778

अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः ।
अनाख्यातः सतां मध्ये कविश्चोरो विभाव्यते ॥

1779

अन्यस्त्रीस्पृहयालवो जगति के पद्भ्यामगम्या च का को धातुर्दशने समस्तमनुजैः का प्रार्थ्यतेऽहर्निशम् ।
दृष्ट्वैकां यवनेश्वरो निजपुरे पद्माननां कामिनीं मित्रं प्राह किमादरेण सहसा यारानदीदंशमा ॥

1780

अन्यस्माल्लब्धोष्मा क्शुद्रः प्रायेण दुःसहो भवति ।
रविरपि न दहति तादृग् यादृघ्युत्तप्तवालुकानिकरः ॥

1781

अन्यस्मिन्नपि काले दयिताविरहः करोति संतापम् ।
किं पुनरविरलजलधर- गुरुतररसितेषु दिवसेषु ॥

1782

अन्यस्मिन् प्रेष्यमाणे तु पुरस्ताद्यः समुत्पतेत् ।
अहं किं करवाणीति स राजवसतिं वसेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc