महासुभाषितसंग्रह · श्लोक 1803-1822
अन्या या वसनोत्तमं तदधुना संगृह्य मान्यं पुनर् यन्मां दर्शयसि प्रियं प्रियतमं तोषाय रोषाय नो ।
सर्वसैव सतश्च रीतिरियती पूर्वं श्रुता वृद्धतः प्रायः प्राप्य निजप्रकर्षमखिलं मित्रं मुदादर्शयत् ॥
अन्यायोपार्जितं द्रव्यं दशवर्षाणि तिष्ठति ।
प्राप्ते चैकादशे वर्षे समूलं च विनश्यति ॥
अन्यायोपार्जितं द्रव्यम् अर्थदूषणमुच्यते ।
अपात्रदानं पात्रार्थ हरणं तस्य लक्षणम् ॥
अन्यार्थमङ्गीकृतवारिपाणौ विशङ्कमानास्तव दाननीरम् ।
परस्परं दीनमुखा न के वा देवाः सुमेरुं शुशुचुः स्वभूमिम् ॥
अन्या विहाय पतिगृह- मविचिन्तितकुलकलङ्कजनगर्हाः ।
रागोपरक्तहृदया यान्ति दिगन्तं मनुष्या आसज्य ॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
संहृष्यमाणविपुलोरुपयोधरार्ता अभ्यञ्जनं विदधति प्रमदाः सुशोभाः ॥
अन्यासां न किमस्ति वेश्मनि वधूः कैवं निशि प्रावृषि प्रैति प्रान्ततडागमम्ब गृहिणि स्वस्थासि मेऽवस्थया ।
भग्नोऽयं वलयो घटो विघटितः क्षण्णा तनुः कण्टकैर् आक्रान्तः स तथा भुजङ्गहतकः कष्टं न यद्दष्टवान् ॥
अन्या साधिगता त्वया क्व युवती यस्याः स मानग्रहो याते लोचनगोचरं प्रियतमे संप्रत्यपक्रामति ।
अस्माकं पुनरुग्रपूरुषशताश्लेषप्रगल्भात्मनाम् एतादृश्यनभिज्ञपूरुषपरिष्वङ्गे कुतः साध्वसम् ॥
अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका- विन्यस्तान् बलितण्डुलान् कवलयन् दृष्टोऽसि हृद्यैर्मुखैः ।
एषा पक्कणवापिका कमलिनीखण्डेऽत्र गुप्तात्मभिर् व्याधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नासूत्र्यते ॥
अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
मुघ्दामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥
अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः खलु तेऽन्य एव विधिना यैरेष सृष्टो युवा ।
श्रीमत्कान्तिजुषां द्विषां करतलात् स्त्रीणां नितम्बस्थलाद् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥
अन्यास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्ज्झरास् तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।
रूक्षध्वाङ्क्षपरिग्रहो मरुरयं स्फारीभवद्भ्रान्तयः ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥
अन्यूनं गुणममृतस्य धारयन्ती संफुल्लस्फुरितसरोरुहावतंसा ।
प्रेयोभिः सह सरसी निषेव्यमाणा रक्तत्वं व्यधित वधूदृशं सुरा च ॥
अन्यूनोन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृतस् तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।
वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः काले कालियकायकालवपुषः पांसून् गजाम्भोमुचः ॥
अन्ये च बहवो रागा जाता देशविशेषतः ।
मारूप्रभृतयो लोके ते च तद् देशिकाः स्मृताः ॥
अन्ये चेत् प्राकृता लोका बहुपापानि कुर्वते ।
प्रधानपुरुषेणापि कार्यं तत्पृष्ठतो नु किम् ॥
अन्ये ते जलदायिनो जलधरास्तृष्णां विनिघ्नन्ति ये भ्रातश्चातक किं वृथातिरटितैः खिन्नोऽसि विश्राम्यताम् ।
मेघः शारद एष काशधवलः पानीयरिक्तोदरो गर्जत्येव हि केवलं भृशतरं नो बिन्दुमप्युज्झति ॥
अन्ये ते विहगाः पयोद परितो धावन्ति तृष्णातुरा वापीकूपतडागसागरजले मज्जन्ति दत्तादराः ।
मामद्यापि न वेत्सि चातकशिशुं यच्छुष्ककण्ठोऽपि सन् नान्यं वाञ्छति नोपसर्पति न च प्रस्तौति न ध्यायति ॥
अन्ये ते सुमनोलिहः प्रहसदप्यम्भोजमुज्झन्ति ये वातान्दोलनकेलिचञ्चलदलप्रान्तैरपि त्रासिताः ।
अन्यः कोऽपि स एष षट्पदभटः संसह्य कर्णाहतीर् येनानेकपगण्डगण्डलमिलद्दानाम्बुनि क्रीडितम् ॥
अन्येनापि स्वमांसेन छिद्यमानेन दूयते ।
तथापि परमांसानि स्वादूनीति समश्नुते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0