भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1582-1602

1582

अन्तः किंचित् किंचिन् मुक्तानामहह विभ्रमं वहसि ।
दूराद्दर्शयसि पुनः क्षारोद्गारं जडाधीशः ॥

1583

अन्तः कुटिलतां बिभ्रच् छङ्खः स खलु निष्ठुरः ।
हुंकरोति यदा ध्मातस् तदैव बहु गण्यताम् ॥

1584

अन्तःकूजदुदारकण्ठमसकृन्मुञ्चेति लोलेक्षणं प्रायः स्मेरकपोलमूलममृतप्रस्यन्दि बिम्बाधरम् ।
आधूताङ्गुलिपल्लवाग्रमलमित्यानर्तितभ्रूलतं पीतं येन मुखं त्वदीयमबले सोऽहं हि धन्यो युवा ॥
अन्तः केचन केचनापि हि दले केचित् तथा पल्लवे मूले केचन केचन त्वचि फले पुष्पे च केऽपि द्रुमाः ।
सौरभ्यं नितरां बिभर्त्यविकलः श्रीखण्डषण्डीकृतः सर्वाङ्गे सुरभिर्न कोऽपि ददृशे मुक्त्वा भवन्तं क्वचित् ॥

1585

अन्तःकोपकषायितेऽपि हृदये साधोरसच्चेष्टितैर् भद्राण्येव बहिः क्रियासु वचनान्याविर्भवन्त्यर्थतः ।
मध्येऽत्यन्तकरालवाडवशिखाशोषेऽपि वारांनिधेः कल्लोलाः प्रकटीभवन्ति सततं मुक्ताफलोद्गारिणः ॥

1587

अन्तःक्रूराः सौम्यमुखा अगाधहृदयाः स्त्रियः ।
अन्तर्विषा बहिःसौम्या भक्ष्या विषकृता इव ॥

1588

अन्तः क्रोधोज्जिहानज्वलनभवशिखाकारजिह्वावलीढ- प्रौढब्रह्माण्डभाण्डः पृथुभुवनगुहागर्भगम्भीरनादः ।
दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु वः सुप्रभामण्डलीभिः कुर्वन्निर्धूमधूमध्वजनिचितमिव व्योम रोमच्छटानाम् ॥

1589

अन्तःखेदमिवोद्वहन् यदनिशं रत्नाकरो घूर्णते यच्च ध्यानमिवास्थितो न कनकक्षोणीधरः स्यन्दते ।
जाने दानविलासदानरभसं शौर्यं च ते शुश्रुवान् एको मन्थविघट्टनास्तदपरष्टङ्काहतीः शङ्कते ॥

1590

अन्तःपुरचरैः सार्धं यो न मन्त्रं समाचरेत् ।
न कलत्रैर्नरेन्द्रस्य स भवेद् राजवल्लभः ॥

1591

अन्तःपुरधनाध्यक्षैर् वैरिदूतैर्निराकृतैः ।
संसर्गं न व्रजेद् राजम् विना पार्थिवशासनात् ॥

1592

अन्तःपुराणां विहितव्यवस्थः पदे पदेऽहं स्खलितानि रक्षन् ।
जरातुरः संप्रति दण्डनीत्या सर्वं नृपस्यानुकरोमि वृत्तम् ॥

1593

अन्तःपुरीयसि रणेषु सुतीयसि त्वं पौरं जनं तव सदा रमणीयते श्रीः ।
दृष्टः प्रियाभिरमृतद्युतिदर्शमिन्द्र- संचारमत्र भुवि संचरसि क्षितीश ॥

1594

अन्तःपुरे पितृतुल्यं मातृतुल्यं महानसे ।
गोषु चात्मसमं दद्यात् स्वयमेव कृषिं व्रजेत् ॥

1595

अन्तःप्रकाशमिच्छन्तः सदसच्च विवेचितुम् ।
स्नेहं सूक्तिप्रदीपेऽस्मिन् वर्धयन्तु सुबुद्धयः ॥

1596

अन्तःप्रतप्तमरुसैकतदह्यमान- मूलस्य चम्पकतरोः क्व विकासचिन्ता ।
प्रायो भवत्यनुचितस्थितिदेशभाजां श्रेयः स्वजीवपरिपालनमात्रमेव ॥

1597

अन्तः प्रविश्य युवचिह्नमुरोऽबलानां येन क्रमेण बत लोडयते मनीषिन् ।
आश्रित्य तं हि नियमं तत उन्नयेते एतौ कुचौ सपदि हन्ति विदीर्णमध्यात् ॥

1598

अन्तःशरीरपरिशोषमुदग्रयन्तः कीटक्षतस्रुतिभिरस्रमिवोद्वमन्तः ।
छायावियोगमलिना व्यसने निमग्ना वृक्षाः श्मशानमुपगन्तुमिव प्रवृत्ताः ॥

1599

अन्तःसंतोषचित्तानां संपदस्ति पदे पदे ।
अन्तर्मलिनचित्तानां सुखं स्वप्नेऽपि दुर्लभम् ॥

1600

अन्तःसंतोषवाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्न् अङ्गेनानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥

1601

अन्तःसमुत्थविरहानलतीव्रताप- संतापिताङ्ग करिपुङ्गव मुञ्च शोकम् ।
धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥

1602

अन्तः समेत्यापि बहिः प्रयाति स्पृष्टा विधत्ते त्ववगूहनानि ।
दत्त्वाधरं रोदिति शुष्कमेव सैवं विलासैस्तपसाप्यलभ्या ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc