भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1603-1622

1603

अन्तःसारविहीनानां सहायः किं करिष्यति ।
मलयेऽपि स्थितो वेणुर् वेणुरेव न चन्दनः ॥

1604

अन्तःसारविहीनानाम् उपदेशो न जायते ।
मलयाचलसंसर्गान् न वेणुश्चन्दनायते ॥

1605

अन्तःसारैरकुटिलैस् सुस्निग्धैः सुपरीक्षितैः ।
मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥

1606

अन्तःसारोऽपि निर्याति नूनमर्थितया सह ।
अन्यथा तदवस्थस्य महिमा केन देहिनाम् ॥

1607

अन्तःस्थसुरतारम्भा भिलाषमपि गोपयत् ।
अन्योन्यं मिथुनं वेत्ति नेत्रे दृष्ट्वैव चञ्चले ॥

1608

अन्तःस्थेनाविरुद्धेन सुवृत्तेनातिचारुणा ।
अन्तर्भिन्नेन संप्राप्तं मौक्तिकेनापि बन्धनम् ॥

1609

अन्तःस्वीकृतजाह्नवीजलमतिस्वच्छन्दरत्नांकुर- श्रेणीशोणभुजङ्गनायकफणाचक्रोल्लसत्पल्लवम् ।
भूयादभ्युदयाय मोक्षनगरप्रस्थानभाजामितः प्रत्यूहप्रशमैकपूर्णकलशप्रायं शिरो धूर्जटेः ॥

1610

अन्तकः पर्यवस्थाता जन्मिनः संततापदः ।
इति त्याज्ये भवे भव्यो मुक्ताव्रुत्तिष्ठते जनः ॥

1611

अन्तकः शमनो मृत्युः पातालं वडवामुखम् ।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥

1612

अन्तकाय ददता त्वया प्रिया- कायकान्चनलताप्रतिग्रहम् ।
दीयते बत मदीयजीवनं दक्षिणानिल कुतो न दक्षिणा ॥

1613

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥

1614

अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
[राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता] ॥

1615

अन्तकोऽपि हि जन्तूनाम् अन्तकालमपेक्षते ।
न कालनियमः कश्चिद् उत्तमर्णस्य विद्यते ॥

1616

अन्तरं कियदाख्यान्ति सन्तो रघुकिरातयोः ।
अन्तरं तावदाख्यान्ति सन्तो रघुकिरातयोः ॥

1617

अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम् ।
अङ्गीकरोति तन्वङ्गी सा विलासमयं वयः ॥

1618

अन्तरङ्गा हि ये राज्ञः परस्वादायिनः शठाः ।
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥

1619

अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥

1620

अन्तर्गतमलो दुष्टस् तीर्थस्नानशतैरपि ।
न शुध्यति यथा भाण्डं सुराया दाहितं च सत् ॥

1621

अन्तर्गता मदनवह्निशिखावली या सा बाघ्यते किमिह चन्दनपङ्कलेपैः ।
यत्कुम्भकारपचनोपरि पङ्कलेपस् तापाय केवलमसौ न च तापशान्त्यै ॥

1622

अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।
स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc