महासुभाषितसंग्रह · श्लोक 1562-1581
अनेन मर्त्यदेहेन यल्लोकद्वयशर्मदम् ।
विचिन्त्य तदनुष्ठेयं हेयं कर्म ततोऽन्यथा ॥
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन् मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरंपरासु ॥
अनेन योगराजेन धूपिताम्बरभूषणः ।
धूपिताङ्गस्त्रिभुवनं मनुजः कुरुते वशम् ॥
अनेन योगेन विवृद्धतेजा निजां परस्मै पदवीमयच्छन् ।
समाचराचारमुपात्तशस्त्रो जपोपवासाभिषवैर्मुनीनाम् ॥
अनेन रम्भोरु भवन्मुखेन तुषारभानोस्तुलया जितस्य ।
ऊनस्य नूनं परिपूरणाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥
अनेन वीतरागेण बुद्धेनेवाधरेण ते ।
दूति निर्व्याजमाख्याता सर्ववस्तुषु शून्यता ॥
अनेन सर्वार्थिकृतार्थिता कृता हृतार्थिनौ कामगवीसुरद्रुमौ ।
मिथःपयःसेचनपल्लवाशनैः प्रदाय दानव्यसनं समाप्नुतम् ॥
अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् ।
प्रेमापि तन्वि त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ॥
अनेन सार्धं विहराम्बुराशेस् तीरेषु तालीवनमर्मरेषु ।
द्वीपान्तरानीतलवङ्गपुष्पैर् अपाकृतस्वेदलवा मरुद्भिः ॥
अनेन सिध्यति ह्येतन्ममाप्येष पराक्रमः ।
एवं ज्ञात्वा चरेद्यस्तु सफलास्तस्य बुद्धयः ॥
अनेनैव प्रकारेण त्रयो ग्रीवाश्रिताः शुभाः ।
ललाटे युगलावर्तौ चन्द्रार्कौ शुभकारकौ ॥
अनैश्वर्ये तृषा भार्या पथि क्षेत्रे त्रिधा कृषिः ।
लम्बकः साक्षिणश्चैव पञ्चानर्था असंकृताः ॥
अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् ।
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत् परा ॥
अनौचित्येन कन्यासु पुरस्त्रीषु च या रतिः ।
स कामो हि क्षितीन्द्राणाम् अरिषड्वर्गपूर्वजः ॥
अन्तःकटुरपि लघुरपि सद्वृत्तं यः पुमान् न संत्यजति ।
स भवति सद्यो वन्द्यः सर्षप इव सर्वलोकस्य ॥
अन्तःकटु सदा प्रेम मानुषं परिलक्ष्यते ।
हताशान् न करोत्यस्मान् दैवप्रेमैव केवलम् ॥
अन्तःकपालविवरे जिह्वामाकुञ्च्य चार्पयेत् ।
भ्रूमध्यदृष्टिरमृतं पिबेत् खेचरमुद्रया ॥
अन्तःकरणतत्त्वस्य दम्पत्योः स्नेहसंश्रयात् ।
आनन्दग्रन्थिरेकोऽयम् अपत्यमिति कथ्यते ॥
अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् ।
जानन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥
अन्तःकरणशून्योऽपि तृणपूलकपूरुषः सत्कृतः क्षेत्रपतिना समर्थो मृगवारने ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0