भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1160-1179

1160

अध्येति नृत्यति लुनाति मिनोति नौति क्रीणाति हन्ति वपते चिनुते बिभेति ।
मुष्णाति गायति धिनोति बिभर्ति भिन्ते लोभेन सीव्यति पणायति याचते च ॥

1161

अध्रुवेण शरीरेण प्रतिक्षणविनाशिना ।
ध्रुवं यो नार्जयेद्धर्मं स शोच्यो मूढचेतनः ॥

1162

अध्रुवे हि शरीरे यो न करोति तपोऽर्जनम् ।
स पश्चात्तप्यते मूढो मृतो गत्वात्मनो गतिम् ॥

1163

अध्वक्लान्ततनुर्नवज्वरवती नृत्यश्लथाङ्गी तथा मासैकप्रसवा ददाति सुरते षण्मासगर्भा सुखम् ।
विख्याता विरहस्य संगमविधौ क्रुद्धप्रसन्ने ऋतु- स्थाने नूतनसंगमे मधुमदे रागास्पदं योषितः ॥

1164

अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् ।
काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥

1165

अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥

1166

अध्वन्यध्वनि तरवः पथि पथि पथिकैरुपास्यते छाया ।
विरलः स कोऽपि विटपी यमध्वगो गृहगतः स्मरति ॥

1167

अध्वन्यध्वनि भूरुहः फलबृतो नम्रानुपेक्ष्यादराद् दूरादुन्नतिसंश्रयव्यसनिनः पान्थस्य मुग्धात्मनः ।
यन्मूलं समुपागतस्य मधुरच्छायाफलैः का कथा शीर्णेनापि हि नोपयोगमगमत् पर्णेन तालद्रुमः ॥

1168

अध्वन्यस्य वधूर्वियोगविधुरा भर्तुः स्मरन्ती यदि प्राणानुज्झति कस्य तन्महदहो संजायते किल्बिषम् ।
इत्येवं पथिकः करोति हृदये यावत् तरोर्मूर्धनि प्रोद्घुष्टं परपुष्टया तव तवेत्युच्चैर्वचोऽनेकशः ॥

1169

अध्वन्याः किल मूलगर्तमधुनाप्यापूरयन्त्यश्रुभिर् व्याक्रोशन्त्यधुना सबान्धवकुलाः सायं मुहूर्तं द्विजाः ।
इत्थं यावदिमानि बिभ्रति शुचं भूतान्यपि त्वत्कृते तावत्त्वं न गतोऽसि पादप चिरं कीर्त्यात्मना वर्तसे ॥

1170

अध्वन्यानां शिशिरसमये चण्डचाण्डालकाण्ड- प्रायाः कायानहह पवनाः क्लेशयन्तो विशन्ति ।
बध्नन्त्येते सपदि सुदृशां दुर्भगानामपीह प्रौढाश्लेषाश्लथितदयितं मूर्ध्नि सौभाग्यपट्टम् ॥

1171

अध्वन्यान् कति रुन्धते कति दृधान् भिन्दन्ति तोयाकरान् केदारान् कति यज्जयन्ति कति च व्यापाटयन्ति द्रुमान् ।
वाहिन्यः क्षणलुप्तवारिविभवा वन्या अवन्यामिमा यः सिन्धुः सकलाश्रयः स तु पुनः कुत्रेति न ज्ञायते ॥

1172

अध्वन्यैर्मकरन्दशीकरसुरामत्तक्वणत्कोकिले मार्गे मार्गनिरोधिनी परिहृता शङ्केऽशुभाशङ्कया ।
पान्थस्त्रीवधपातकादुपगतं चण्डालचिह्नं मधोर् एषा किङ्किणिकेव षट्पदमयी झंकारिणी संहतिः ॥

1173

अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर्जरायै ।
एतानि मे विदधतस्तव सर्वदैव धातस्त्रपा यदि न किं न परिश्रमोऽपि ॥

1174

अध्वश्रान्तमविज्ञातम् अतिथिं क्षुत्पिपासितम् ।
यस्तं न पूजयेद् भक्त्या तमाहुर्ब्रह्मघातिनम् ॥

1175

अध्वाग्रजाग्रन्निभृतापदन्धुर् बन्धुर्यदि स्यात् प्रतिबन्धुमर्हः ।
जोषं जनः कार्यविदस्तु वस्तु प्रच्छ्या निजेच्छा पदवीं मुदस्तु ॥

1176

अध्वा जरा देहवतां पर्वतानां जलं जरा ।
असंभोगो जरा स्त्रीणां वाक्शल्यं मनसो जरा ॥

1177

अध्वा जरा मनुष्याणाम् अनध्वा वाजिनां जरा ।
अमैथुनं जरा स्त्रीणाम् अश्वानां मैथुनं जरा ॥

1178

अध्वानं नैकचक्रः प्रभवति भुवनभ्रान्तिदीर्घं विलङ्घ्य प्रातः प्राप्तुंरथो मे पुनरिति मनसि न्यस्तचिन्तातिभारः ।
संध्याकृष्टावशिष्टस्वकरपरिकरैः स्पष्टहेमारपङ्क्ति व्याकृष्यावस्थितोऽस्तक्षितिभृति नयतीवैष दिक्चक्रमर्कः ॥

1179

अध्वा न यदि निसङ्गपङ्कसंकुलितो भवेत् ।
ततः कुतस्ते धौरेय धुर्यता व्यज्यतामियम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc