महासुभाषितसंग्रह · श्लोक 1140-1159
अधोदृष्टिनैर्कृतिकः स्वार्थसाधनतत्परः ।
शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥
अधोऽधः पश्यतः कस्य महिमा नोपचीयते ।
उपर्युपरि पश्यन्तः सर्व एव दरिद्रति ॥
अधोमुखी स्त्रीस्तनतुल्यताप्तये प्रतप्य तीव्रं सुमहत्तरं तपः ।
यदा न तामाप तदा हृदि स्फुटं विदीर्यते पक्वमिषेण दाडिमः ॥
अधोमुखैकदंष्ट्रेण विषशुक्रप्रवाहिणा ।
अनेन दुश्चिकित्स्येन जगद्दष्टं भगाहिना ॥
अधोऽर्धे लक्षणं यस्य परार्धे नैव दृश्यते ।
अधमः स भवेत् खङ्गः क्षितीशानां भयावहः ॥
अधोऽर्धे वर्ण एकः स्याद् ऊर्ध्वार्धे भिन्नवर्णकः ।
वर्णसंकरवान् खड्गो नृपाणां भयवर्धनः ॥
अधोविधानात् कमलप्रवालयोः शिरःसु दानादखिलक्षमाभुजाम् ।
पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्कितमूर्ध्वरेखया ॥
अध्ययनमित्रसङ्ग- प्रवेशयात्राविवाहदानेषु ।
शुभकार्येष्वखिलेष्वपि शस्तः सोमाध्वगः पवनः ॥
अध्यस्तान्ध्यमपूर्वमर्थधिषणैर्ग्राह्यं पुमर्थास्पदं लक्ष्यं लक्षणभेदतः श्रुतिगतं निर्धूतसाध्यार्थकम् ।
आम्नायान्तविभातविश्वविभवं सर्वाविरुद्धं परं सत्यं ज्ञानमनर्थसार्थविधुरं ब्रह्म प्रपद्ये सदोम् ॥
अध्याक्रान्ता वसतिरमुनाप्याश्रमं सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥
अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान् ।
विस्मारयन्ति जातिं स्वां वराटाः पञ्चषाः करे ॥
अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥
अध्यापितोऽसि केनैतां मशक क्षुद्रतामिह ।
यस्यैव कर्णे लगसि पीडां तस्य करोषि यत् ॥
अध्यायोधनवेदि मार्गणकुशानास्तीर्य खड्गस्रुचा हुत्वारेः पललं चरुं हविरसृक् तन्मस्तकस्वस्तिकैः ।
संवेष्ट्याहवनीयमानसदसि ख्योऽसौ प्रतापानलो- ऽस्थापि द्रागुदकाञ्जलीकृतचतुःपाथोधिना श्रीमता ॥
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरूहे केसरिक्रान्तत्रिकूटशिखरोपमा ॥
अध्यासिते वयस्याया भवता महता हृदि ।
स्तनावन्तरसंमान्तौ निष्क्रान्तौ ब्रूमहे बहिः ॥
अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुरङ्गैर् गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे।
संग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥
अध्यास्य शान्तां कुकुभं श्र्गाली नरस्य वामा यदि रारटीति ।
तदर्थलाभं वितरत्यवश्यम् अर्थक्षयं दक्षिणतो रटन्ती ॥
अध्यास्य सौरभेयं मौक्तिकरुचिरङ्गणेषु विहितगतिः मान्यः स एव हृदि मे गौरी वामाङ्गमाश्रिता यस्य ॥
अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेष- स्याहेर्भूयः फणसमुचितः काययष्टीनिकायः ।
दुग्धाम्भोधेर्मुनिचुलुकनत्रासनाशाभ्युपायः कायव्यूहः क्व जगति न जागर्त्यदः कीर्तिपूरः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0