भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1180-1199

1180

अद्वारेण विशन्त्येव बुद्धिमन्तो रिपोर्गृहम् ।
अकृत्वा धर्षणां पूर्वं कथं युद्धं प्रवर्तते ॥

1181

अनक्षरं रूपमिह क्षरन्ती पञ्चाशदर्णैरमृताम्बुपूर्णैः ।
व्याकीर्णविध्यमण्डमदन्तराला (?) शब्दात्मिका मामवतात् समन्तात् ॥

1182

अनक्षरज्ञेन जनेन सख्यं संभाषणं दुष्प्रभुसेवनं च ।
आलिङ्गनं लम्बपयोधराणां प्रत्यक्षदुःखं त्रयमेव भूमौ ॥

1183

अनङ्कुरितकूर्चकः स तु सितोपलाढ्यं पयः स एव धृतकूचकः सलवणाम्बुतक्रोपमः ।
स एव सितकूर्चकः क्वथितगुग्गुलोद्वेगकृद् भवन्ति हरिणीदृशां प्रियतमेषु भावास्त्रयः ॥

1184

अनङ्गः पञ्चभिः पुष्पैर् विश्वं व्यजयतेषुभिः ।
इत्यसंभाव्यमथवा विचित्रा वस्तुशक्तयः ॥

1185

अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालम् ।
मधौ मधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् ॥

1186

अनङ्ग पलितं मूर्ध्नि पश्यैतद् विजयध्वजम् ।
इदानीं जितमस्माभिस् तवाकिंचित्कराः शराः ॥

1187

अनङ्गबाणाकुलितस्य शंभोः शिरो भवानीचरणेऽतिनम्रम् ।
विलोक्य काचिच्चरणे चरन्ती पिपीलिका चुम्बति चन्द्रबिम्बम् ॥

1188

अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः ।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥

1189

अनङ्गमङ्गलभुवस् तदपाङ्गस्य भङ्गयः ।
जनयन्ति मुहुर्यूनाम् अन्तःसंतापसंततिम् ॥

1190

अनङ्गमङ्गलारम्भकुम्भाविव पयोधरौ ।
कस्य नार्तिहरौ तस्याः करपल्लवसंवृतौ ॥

1191

अनङ्गरङ्गपीठोऽस्याः शृङ्गारस्वर्णविष्टरः ।
लावण्यसारसंघातः सा घना जघनस्थली ॥

1192

अनङ्गरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्ग्याः ।
कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥

1193

अनङ्गरसचातुरीचपलचारुचेलाञ्चलश् चलन्मकरकुण्डलस्फुरितकान्तिगण्डस्थलः ।
व्रजोल्लसितनागरीनिकररासलास्योत्सुकः स मे सपदि मानसे स्फुरतु कोऽपि गोपालकः ॥

1194

अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना ।
सदानघ सदानन्द नताङ्गासङ्गसंगत ॥

1195

अनङ्गशस्त्राणि नताङ्गि तीक्ष्णतां नयत्ययस्कार इवाम्बुदागमः ।
मलीमसाङ्गाररुचां पयोमुचां तथाहि मध्ये ज्वलितस्तडिच्छिखी ॥

1196

अनङ्गीकृतकामानाम् अनुमानार्हवर्ष्मणाम् ।
ध्र्तनिर्मलतीर्थानां भूतिलेपो विभूषणम् ॥

1197

अनङ्गेनाबलासङ्गाज् जिता येन जगत्त्रयी ।
स चित्रचरितः कामः सर्वकामप्रदोऽस्तु वः ॥

1198

अनङ्गोऽयमनङ्गत्वम् अद्य निन्दिष्यति ध्रुवम् ।
यदनेन न संप्राप्तः पाणिस्पर्शोत्सवस्तव ॥

1199

अनञ्जितासिता दृष्टिर् भ्रूरनावर्जिता नता ।
अरञ्जितोऽरुणश्चायम् अधरस्तव सुन्दरि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc