महासुभाषितसंग्रह · श्लोक 1040-1059
अधममित्रकुमित्रसमागमः प्रियवियोगभयानि दरिद्रता ।
अपयशः खलु लोकपराभवो भवति पापतरोः फलमीदृशम् ॥
अधमर्णशवाजीविश्राद्धभुग्दुष्टभूभुजाम् ।
अभिप्राया न सिद्ध्यन्ति तेनेदं ध्रियते जगत् ॥
अधमाः कलिमिच्छन्ति संधिमिच्छन्ति मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
अधमा धनमिच्छन्ति धनमानौ च मध्यमाः ।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥
अधमे संगता लक्ष्मीर् नोपभोगाय कस्यचित् ।
कर्दमे पतिता छाया सहकारतरोरिव ॥
अधमो मातुकारश्च धातुकारश्च मध्यमः ।
धातुमातुक्रियाकार उत्तमः परिकीर्तितः ॥
अधमो लक्षणज्ञः स्यान् मध्यमो लक्ष्यमाचरेत् ।
लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः ॥
अधरं किल बिम्बनामकं फलमस्मादिति भव्यमन्वयम् ।
लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥
अधरः पद्मरागोऽयम् अनर्घः सव्रणोऽपि ते ।
मुग्धे हस्तः किमर्थोऽयम् अपार्थ इह दीयते ॥
अधरद्युतिरस्तपल्लवा मुखशोभा शशिकान्तिलङ्घिनी ।
तनुरप्रतिमा च सुभ्रुवो न विधेरस्य कृतिं विवक्षति ॥
अधरमधरे कण्ठं कण्ठे निधाय भुजं भुजे हृदि च हृदयं मध्ये मध्यं सरोजदृशो दृढम् ।
सरभसमहो चोरावूरुं पदं च पदे बलाद् गमयति जनो धन्यः कश्चित् समां शिशिरे निशाम् ॥
अधरमधरे कण्ठे कण्ठं सचाटु दृशोर्दृशाव् अलिकमलिके कृत्वा गोपीजनेन ससंभ्रमम् ।
शिशुरिति रुदन् कृष्णो वक्षःस्थले निहितोऽचिरान्- निभृतपुलकः स्मेरः पायात् स्मरालसविग्रहः ॥
अधरममृतं कः संदेहो मधुन्यपि नान्यथा मधुरमधिकं द्राक्षायाश्च प्रसन्नरसं फलम् ।
सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत् स्वादु स्यात् प्रियादशनच्छदात् ॥
अधरस्य मधुरिमाणं कुचकाठिन्यं दृशोस्तथा तैक्ष्ण्यम् ।
कवितायाः परिपाकान् अनुभवरसिको विजानाति ॥
अधरामृतपानेन ममास्यमपराध्यतु ।
मूर्ध्नो किमपराद्धं यः पादौ नाप्नोति चुम्बितुम् ॥
अधरामृतमाधुरीधुरीणो हरिलीलामुरलीनिनाद एषः ।
प्रततान मनःप्रमोदमुच्चैर् हरिणीनां हरिणीदृशं मुनीनाम् ॥
अधरामृतेन पित्तं नश्यति वायुः पयोधरयुगेन ।
अनवरतरतेन कफं त्रिदोषशमनं वपुर्नार्याः ॥
अधरेण समागमाद् रदानाम् अरुणिम्ना पिहितोऽपि शुक्लभावः ।
हसितेन सितेन पक्ष्मलाक्ष्याः पुनरुल्लासमवाप जातपक्षः ॥
अधरेणोन्नतिभाजा भुजंगपरिपीडितेन ते दूति ।
संक्षोभितं मनो मे जलनिधिरिव मन्दरागेण ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0