भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1060-1079

1060

अधरे नववीटिकानुरागो नयने कज्जलमुज्ज्वलं दुकूलम् ।
इदमाभरणं नितम्बनीनाम् इतरद्भूषणमङ्गदूषणाय ॥

1061

अधरे बिन्दुः कण्ठे मणिमाला स्तनयुगे शशप्लुतकम् ।
तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम् ॥

1062

अधरे मधुरा सरस्वतीयं ननु कर्णे मणिकर्णिकाप्रवाहः ।
शिरसि प्रतिभाति चारुवेणी कथमेणीनयना न तीर्थराजः ॥

1063

अधरे विनिहितवंशं चम्पककुसुमेन कल्पितोत्तंसम् ।
विनतं दधानमंसं वामं सततं नमामि जितकंसम् ॥

1064

अधरोऽयमधीराक्ष्या बन्धुजीवप्रभाहरः ।
अन्यजीवप्रभां हन्त हरतीति किमद्भुतम् ॥

1065

अधरोष्ठे च घोणायां गण्डयोश्चिबुके तथा ।
मुष्के नाभौ त्रिके कुक्षाव् आवर्तास्त्वतिनिन्दिताः ॥

1066

अधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले ।
सुवर्णनलिकामध्यान् माणिक्यमिव विच्युतम् ॥

1067

अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥

1068

अधर्मं धर्मवेषेण यदिमं लोकसंकरम् ।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।

1069

अधर्मः क्षत्रियस्यैतद् यद् व्याधिमरणं गृहे ।
युद्धे तु मरणं यत् स्यात् सोऽस्य धर्मः सनातनः ॥

1070

अधर्मः सुरसस्तस्य चोत्कटैर्मधुरायते ।
यादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥

1071

अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
अस्वर्ग्यं च परत्रापि तस्मात्तत् परिवर्जयेत् ॥

1072

अधर्मदण्डनंस्वर्गकीर्तिलोकविनाशनम् ।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥

1073

अधर्मद्रोहसंयुक्ते मित्रजातेऽप्युपेक्षणम् ।
आत्मवन्मित्रवर्गे तु प्राणानपि परित्यजेत् ॥

1074

अधर्मप्रतिषेधश्च न्यायमार्गेण वर्तनम् ।
उपकार्योपकारित्वम् इति वृत्तं महीपतेः ॥

1075

अधर्ममन्यत्र महीतलेऽस्मिन् संक्षोभहेतुं मलिनं विचार्य ।
निष्कासनायास्य रुषेव देव सितं यशः सर्वदिशः प्रयाति ॥

1076

अधर्मरुचयो मूढास् तिर्यग्गतिपरायणाः ।
कृच्छ्रां योनिमनुप्राप्य न सुखं विन्दते जनाः ॥

1077

अधर्मसाधनं बुधा मुधा न जन्तुहिंसनं सृजन्तु वेदनिन्दया भजन्तु केवलं दयाम् ।
इति प्रबोधयन् विधिं विधाय वैदिकं विधिं विशुद्धबोधबन्धुरन्तरेधि बुद्धदेव नः ॥

1078

अधर्मस्तु महांस्तात भवेत् तस्य महीपतेः ।
यो हरेद् बलिषड्भागं न च रक्षति पुत्रवत् ॥

1079

अधर्मादर्जितं द्रव्यम् अल्पकालं तु तिष्ठति ।
ततः सपत्नमयते समूलं तेन नश्यति ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc