महासुभाषितसंग्रह · श्लोक 1020-1039
अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद् विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्ययात् परिणते यत्स्नेहसारे स्थितं भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत् प्राप्यते ॥
अद्वैतमेकं सुखमुन्नयन्ती विस्मारयन्ती जगदेव तन्वि ।
मुक्ताश्रितामात्मरुचिं वदन्ती वेदान्तसिद्धान्तकथेव भासि ॥
अद्वैतोक्तिपटून् वटूनपि वयं बालान् नमस्कुर्महे ये तु द्वन्द्ववदास्तदीयशिरसि न्यस्याम वामं पदम् ।
सिंहः स्वीयशिशून् निवेश्य हृदये सान्द्रादरादामृशत्य् आवेशेन भिनत्ति संभ्रमपदं मत्तेभकुम्भस्थलम् ॥
अद्वैधमानसंयुक्तं शूरं धीरं विपश्चितम् ।
न श्रीः संत्यजते नित्यम् आदित्यमिव रश्मयः ॥
अधः करोति यद्रत्नं मूर्ध्ना धारयते तृणम् ।
दोषस्तस्यैव जलधे रत्नं रत्नं तृणं तृणम् ॥
अधः कुर्वन्प्रजाः सर्वा बहुधा महिमोल्बणः ।
राजा पर्वणि कस्मिंश्चिद् भवेदहिभयाकुलः ॥
अधः क्षिपन्ति कृपणा वित्तं तत्र यियासवः ।
सन्तस्तु गुरुतीर्थादौ तदुच्चैःपदकाङ्क्षिणः ॥
अधः पश्यन् पार्श्वद्वयवलितसाचीकृतशिराः शनैः पक्षस्थैर्याद्दिवि मसृणचक्राकृतिगतिः ।
चिराच्चिल्लस्तिर्यक्त्वरिततरमाहारनिपुणो निपत्यैवाकस्माच्चलचरणमूर्धं प्रपतति ॥
अधः पश्यसि किं बाले पतितं तव किं भुवि ।
रे रे मूर्ख न जानासि गतं तारुण्यमौक्तिकम् ॥
अधःपुष्पी शङ्खपुष्पी लज्जालुर्गिरिकर्णिका ।
नीलिनी सहदेवा च पुत्रमार्जारिका तथा ॥
विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने ।
बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ॥
अधः शेते शम्भुस्तव चरणमाधाय हृदये बहिर्द्वारे दौवारिकपदमुपेतः कमलजः ।
विडौजा वैफल्यं भजति निजविज्ञापनकृते तावहं दासः स्यामिति मनसि लज्जा भयमपि ॥
अधःस्था रमते नारी उपरिस्थश्च कामुकः ।
प्रसिद्धं तद्रतं ज्ञेयं ग्रामबालजनप्रियम् ॥
अधनं खलु जीवधनं धनमर्धधनं महद्धनं धान्यम् ।
अतिधनमेतत् सुन्दरि विद्या च तपश्च कीर्तिश्च ॥
अधना अपि ते धन्याः साधवो गृहमेधिनः ।
यद्गृहा ह्यर्हवर्याम्बुतृणभूमीश्वरावराः ॥
अधना धनमिच्छन्ति वाचं चैव चतुष्पदाः ।
मानवाः स्वर्गमिच्छन्ति मोक्षमिच्छन्ति देवताः ॥
अधनेनार्थकामेन नार्थः शक्यो विवित्सता ।
अर्थैरर्था निबध्यन्ते गजैरिव महागजाः ॥
अधनो दातुकामोऽपि संप्राप्तो धनिनां गृहम् ।
मन्यते याचकोऽयं धिग् दारिद्र्यं खलु देहिनाम् ॥
अधनोऽयं धनं प्राप्य माद्यन्नुच्चैर्न मां स्मरेत् ।
इति कारुणिको नूनं धनं मे भूरि नाददत् ॥
अधमं बाधते भूयो दुःखवेगो न तत्तमम् ।
पादद्वयं व्रजत्याशु शीतस्पर्शो न चक्षुषी ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0