भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 1000-1019

1000

अद्यैव कुरु यच्छ्रेयो मा त्वा कालोऽत्यगादयम् ।
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ॥

1001

अद्यैव कुरु यच्छ्रेयो वृद्धःसन् किं करिष्यसि ।
स्वगात्राण्यपि भाराय भवन्ति हि विपर्यये ॥

1002

अद्यैव यत् प्रतिपदुद्गतचन्द्रलेखा- सख्यं त्वया तनुरियं गमिता वराक्याः ।
कान्ते गते कुसुमसायक तत् प्रभाते बाणावलीं कथय कुत्र विमोक्ष्यसि त्वम् ॥

1003

अद्यैव श्वः परश्वस्त्रिचतुरदिवसानन्तरं सायमह्नि प्रातः प्राह्णे पराह्णे क्षणमिह निवस प्रस्थितोऽभ्येहि भूयः ।
इत्थं रेकातिरेकानविदितकपटप्रक्रियानर्थिसार्थान् अत्यर्थं व्यर्थयन्ति प्रतिदिवसमहो राजधान्यां वदान्याः ॥

1004

अद्यैव हसितं गीतं क्रीडितं यैः शरीरिभिः ।
अद्यैव ते न दृश्यन्ते पश्य कालस्य चेष्टितम् ॥

1005

अद्योत्सङ्गवसद्भुजंगकवलक्लेशादिवेशाचल- प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदयाद् उन्मीलन्ति कुहूःकुहूरिति कलोत्तालाः पिकानां गिरः ॥

1006

अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तोऽयमशोकदोहदविधौ पादः क्वणन्नूपुरः ।
तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् अज्ञातोपनतेन तेन सहसा मूर्ध्नैव संभावितः ॥

1007

अद्योन्मीलन्मलयपवनोद्धूतचूतांकुराग्र- ग्रासास्वादादधिकमधुरैरुच्चरद्भिर्निनादैः ।
क्वापि क्वापि स्मरहुतवहोद्दीपनायाध्वगानां होतुं प्राणानृचमिव पिकः सामिधेनीमधीते ॥

1008

अद्राक्षीदपनिद्रकोरकभरव्यानम्रवल्लीस्खलद्- धूलीदुर्दिनसूदिताम्बरमसावुद्यानमुर्वीपतिः ।
आस्थानीभवनं वसन्तनृपतेर्देवस्य चेतोभुवः सत्रागारमनुत्तरं मधुलिहामेकं प्रपामण्डपम् ॥

1009

अद्राक्षुर्ये नरेन्द्रा द्रुपदतनुभुवः केशपाशावकृष्टिं चक्रुर्वाकारयन् वा मनसि किमपरं येऽन्वमन्यन्त मोहात् ।
सर्वेषामेव तेषां समरमखभुवि क्रोधवह्णौ जुहोति द्वित्रैर्हुंकारम्न्त्रैरभिजनसमिधो मध्यमः पाण्डवेयः ॥

1010

अद्रिष्वञ्जनपुञ्जकान्ति जलद्रप्रायं च मूले दिशाम् ऊर्ध्वं नीलवितानकल्पभवनौ जम्बाललेपोपमम् ।
तीरे नीरनिधेस्तमालविटपिच्छायां च सायं शनैर् उद्गच्छत्यभिसारिकाप्रियतमप्रेमानुकूलं तमः ॥

1011

अद्रेः किं स्विद्वहति पवनः शृङ्गमित्युन्मुखीभिर् दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात् सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥

1012

अद्रोहः शौचानाम् अचापलं व्रतविशेषनियमानाम् ।
पैशुन्यमप्रियाणां वृत्तिच्छेदो नृशंसचरितानाम् ॥

1013

अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा ।
अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥

1014

अद्रोहसमयं कृत्वा मुनीनामग्रतो हरिः ।
जघान नमुचिं पश्चाद् अपां फेनेन पार्थिव ॥

1015

अद्रोहे समयं कृत्वा चिच्छेद नमुचेः शिरः ।
शक्रः सा हि मता तस्य रिपौ वृत्तिः सनातनी ॥

1016

अद्रौ जीर्णदरीषु संकटसरित्तीरेषु निम्नोन्नते ऊढा येन वृषेण धूर्बलवता यूना द्वितीयेन या ।
तां वृद्धोऽपि कृशोऽपि दुर्वह धुरं वोढुं स एव क्षमो रथ्याभड्डलकैः समेत्य बहुभिर्नाकृष्यतेऽन्यैर्वृषैः ॥

1017

अद्वितीयं निजं लोके विलोक्य वहतो मुदम् ।
प्रमदावदनस्यायं दर्पोद्रेको न तु स्मितम् ॥

1018

अद्विसंवीक्षणं चक्षुर् अद्विसंमीलनं मनः ।
अद्विसंस्पर्शनः पाणिर् अद्य मे किं करिष्यति ॥

1019

अद्वेषपेशलं कुर्यान् मनः कुसुमकोमलम् ।
बभूव द्वेषदोषेण देवदानवसंक्षयः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc