महासुभाषितसंग्रह · श्लोक 0980-0999
अद्यापि सा मम मनस्तटिनी सदास्ते रोमाञ्चवीचिविलसद्विपुलस्वभावा ।
कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥
अद्यापि सुन्दरि तवाननचन्द्रबिम्बं बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः ।
त्वत्संगमोद्भवसुखं तनुते तथापि वैरं करोति करुणाविकलो विवेकः ॥
अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥
अद्यापि हरिहरादिभिर् अमरैरपि तत्त्वतो न विज्ञाताः ।
भ्रमविभ्रमबहुमोहा वेश्याः संसारमायाश्च ॥
अद्यापि हि नृशंसस्य पितुस्ते दिवसो गतः ।
तमसा पिहितः पन्था एहि पुत्रक शेवहे ॥
अद्याप्यशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्राम् ।
अन्तःस्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं स्मरामि ॥
अद्याप्यहं चलितचारुनिमीलिताक्षम् आस्यं स्मरामि सततं सुरतावसाने ।
तत्कालनिश्वसितनिःसृतकान्तिकान्तं स्वेदोदबिन्दुपरिदन्तुरितं प्रियायाः ॥
अद्याप्यहं वरवधूसुरतोपभोगं जीवामि नान्यविधिना क्षणमन्तरेण ।
तद्भ्रातरो मरणमेव हि दुःखशान्त्यै विज्ञापयामि भवतस्त्वरितं लुनीध्वम् ॥
अद्याप्यहं विकचकुन्दसमानदन्तं तिर्यग्विवर्तितविशालविलोचनान्तम् ।
तस्या मुखं सुविजितेन्दु न विस्मरामि चोद्यं कृतज्ञ इव साधुकृतोपकारम् ॥
अद्याप्यहं सरसमञ्जुलभृङ्गनादम् ईषत्स्मरोल्लसितरागसुपाण्डुगण्डम् ।
पश्यामि पूर्णशरदिन्दुसमानकान्ति तस्या मुखं विकचपङ्कजपात्रनेत्रम् ॥
अद्याप्यहो जगति सुन्दरलक्षपूर्णे अन्यान्यमुत्तमगुणाधिकसंप्रपन्ने ।
अन्याभिरप्युपमितुं न मया च शक्यं रूपं तदीयमिति मे हृदये वितर्कः ॥
अद्याप्युन्मदयातुधानतरुणीचञ् चत्करास्फालन- व्यावल्गन्नृकपालतालरणितैर्नृत्यत्पिशाचाङ्गनाः ।
उद्गायन्ति यशांसि यस्य विततैर्नादैः प्रचण्डानिल- प्रक्षुभ्यत्करिकुम्भकूटकुहरव्यक्तै रणक्षोणयः ॥
अद्याभोगिनि गाढमर्मनिवहे हर्म्याग्रवेदीजुषां सद्यश्चन्दनशोषिणि स्तनतटे सङ्गे कुरङ्गीदृशाम् ।
प्रायः प्रश्लथयन्ति पुष्पधनुषः पुष्पाकरे निष्ठिते निर्वेदं नवमल्लिकासुरभयः सायंतना वायवः ॥
अद्याम्भः परितः पतिष्यति भुवस्तापोऽद्य निर्वास्यति क्षेत्रेष्वद्य यतिष्यते जनपदः सस्येषु पर्युत्सुकः ।
नर्तिष्यन्ति तवोदयेऽद्य जलद व्यालोलपुच्छच्छद- च्छत्रच्छादितमौलयो दिशि दिशि क्रीडालसाः केकिनः ॥
अद्यारभ्य कठोरकार्मुकलताविन्यस्तहस्ताम्बुजस् तावन्न प्रकटीकरोमि नयने शोणे निमेषोदयान् ।
यावत् सायककोतिपाटितरिपुक्ष्मापालमौलिस्खलन् मल्लीमाल्यपतत्परागपटलैरामोदिनी मेदिनी ॥
अद्यारभ्य न हि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि संक्षेपतः ।
किं तेनैव विना शशाङ्ककिरणस्पष्टाट्टहासा निशा नैको वा दिवसः पयोदमलिनो यायान् मम प्रावृषि ॥
अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती ।
इत्यश्रुपातमलिनीकृतगण्डदेशा नेच्छेद्दरिद्रगृहिणी रजनीविरामम् ॥
अद्येदं श्व इदं तथा परुदिदं कृत्यं परारि त्वदश् चेतश्चिन्तयसीत्थमेव सततं निर्व्याकुलं रे कुतः ।
तत्कालं विलसन्मनोरथलताकान्तारदावानलो यस्मिन् दण्डधरं स्मरिष्यसि सखे सोऽप्यस्ति कश्चित् क्षणः ॥
अद्येश्वराश्चारणगायनानां सदैव कल्पद्रुमवत् फलन्ति ।
सद्भ्यस्तु किंचिद् वचसैव सायं दीपाय कर्पूरमिवार्पयन्ति ॥
अद्यैके प्रातरपरे विततेऽह्नि तथा परे ।
यान्ति निःसीम्नि संसारे कः स्थाता ननु शोचति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0