महासुभाषितसंग्रह · श्लोक 0681-0700
अत्यादरो भवेद् यत्र कार्यकारणवर्जितः ।
तत्र शङ्का प्रकर्तव्या परिणामेऽसुखावहा ॥
अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः ।
शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार ॥
अत्यायासेन नात्मानं कुर्यादतिसमुच्छ्रयम् ।
पातो यथा हि दुःखाय नोच्छ्रायः सुखकृत् तथा ॥
अत्यार्यमतिदातारम् अतिशूरमतिव्रतम् ।
प्रज्ञाभिमानिनं चैव श्रीर्भयान्नोपसर्पति ॥
न चातिगुणवत्स्वेषा नात्यन्तं निर्गुणेषु च ।
नैषा गुणान्कामयते नैर्गुण्यां नानुरज्यते ।
उन्मत्ता गौरिवान्धा श्रीः क्वचिदेवावतिष्ठते ॥
अत्याशीविषशस्त्रं हि विजितप्रलयानलम् ।
तेजो लङ्घयितुं शक्तः को नु नाम द्विजन्मनाम् ॥
अत्यासन्ना विनाशाय दूरस्था न फलप्रदा ।
तस्मादाहृत्य दातव्या भूमिः पार्थिवसत्तम ॥
अत्यासन्ना विनाशाय दूरस्था न फलप्रदाः ।
सेव्या मध्यमभावेन राजावह्निर्गुरुः स्त्रियः ॥
अत्युक्तौ यदि न प्रकुप्यसि मृषावादं न चेन्मन्यसे तद्ब्रूमोऽद्भुतकीर्तनाय रसना केषां न कण्डूयते ।
देव त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः सर्वे वारिधयस्ततो रिपुवधूनेत्राम्बुभिः पूरिताः ॥
अत्युच्चस्तनशैलदुर्गममुरो नाभिर्गभीरान्तरा भीमं देहवनं स्फुरद्भुजलतं रोमालिजालाकुलम् ।
व्याधः पञ्चशरः किरत्यतितरां तीक्ष्णान् कटाक्षाशुगांस्- तन्मे ब्रूहि मनःकुरङ्ग शरणं किं सांप्रतं यास्यसि ॥
अत्युच्चाः परितःस्फुरन्ति गिरयः स्फारास्तथाम्भोधयस् तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः ।
आश्चर्येण मुहुर्मुहुः स्तुतिमिमां प्रस्तौमि यावद्भुवस् तावद्बिभ्रादिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥
अत्युच्चैरतिनीचैर् अश्लीलमयुक्तमनुपयुक्तं च ।
न वदति नृपतिसभाया- मादरमीप्सुर्महामनसाम् ॥
अत्युच्छ्रिते मन्त्रिणि पार्थिवे च विष्टभ्य पादावुपतिष्ठते श्रीः ।
सा स्त्रीस्वभावादसहा भरस्य तयोर्द्वयोरेकतरं जहाति ॥
अत्युच्छ्रितोन्नतसितध्वजपङ्क्तिचित्रैर् नागाश्वपत्तिरथसंक्षुभितैर्बलौघैः ।
उद्धूतचामरविराजितगात्रशोभाः पुण्येन भूमिपतयो भुवि संचरन्ति ॥
अत्युज्ज्वलैरवयवैर्मृदुतां दधाना मुक्ता बलं वितरति स्मरदानदक्षा ।
स्निग्धाशाया गुरुगुणग्रथिता मनोज्ञा फीणी नवीनललनेव मुदं ददाति ॥
अत्युत्सार्य बहिर्विटङ्कवडभीगण्डस्थलश्यामिकां भिन्नाभिन्नगवाक्षजालविरलच्छिद्रैः प्रदीपांशवः ।
आरूढस्य भरेण यौवनमिव ध्वान्तस्य नक्तं मुखे निर्याताः कपिलाः करालविरलश्मश्रूप्ररोहा इव ॥
अत्युत्सेकेन महसा साहसाध्यवसायिनाम् ।
श्रीरारोहति संदेहं महतामपि भूभृताम् ॥
अत्युदात्तगणेष्वेषा कृतपुण्यैः प्ररोपिता ।
शतशाखी भवत्येव यावन्मात्रापि सत्क्रिया ॥
अत्युद्गाढरयस्थिराकृतिघनध्वानभ्रमन्मन्दर- क्षुब्धक्षीरधिवीचिसंचयगतप्रालेयपादोपमः ।
श्रीमत्पोतलके गभीरविवृतिध्वानप्रतिध्वानिते सान्द्रस्वांशुचयश्रिया वलयितो लोकेश्वरः पातु वः ॥
अत्युद्धृता वसुमती दलितोऽरिवर्गः क्रोडीकृता बलवता बलिराजलक्ष्मीः ।
एकत्र जन्मनि कृतं यदनेन यूना जन्मत्रये तदकरोत् पुरुषः पुराणः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0