महासुभाषितसंग्रह · श्लोक 0701-0720
अत्युन्नतपदं प्राप्तः पूज्यान् नैवावमानयेत् ।
नहुषः शक्रतां प्राप्तश् च्युतोऽगस्त्यावमाननात् ॥
अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरां वचनं ततोऽपि ।
मध्योऽधिकं तनुरनूनगुरुर्नितम्बो मन्दा गतिः किमपि चाद्भुतयौवनायाः ॥
अत्युन्नतस्तनयुगा तरलायताक्षी द्वारि स्थिता तदुपयानमहोत्सवाय ।
सा पूर्णकुम्भनवनीरजतोरणस्रक्- संभारमङ्गलमयत्नकृतं विधत्ते ॥
अत्युन्नतिं प्राप्य नरः प्रावारः कीटको यथा ।
स विनश्यत्यसंदेहम् आहैवमुशना नृपः ॥
अत्युन्नतिव्यसनिनः शिरसोऽधुनैष स्वस्यैव चातकशिशुः प्रणयं विधत्ताम् ।
अस्यैतदिच्छति यदि प्रततासु दिक्षु ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥
अत्युन्नतोऽम्बुभिर्मेघश् चातकान् न धिनोति चेत् ।
मरुता हृतसर्वस्वः स पश्चात् किं करिश्यति ॥
अत्युपचित्तैरुपायैश् चक्रभृदेको भुजैरिव चतुर्भिः ।
नृपतिः श्रियमपि सुचिरं हरिरिव परिरभ्य निर्भरं रमते ॥
अत्युल्लसद्बिसरहस्ययुजा भुजेन वक्त्रेण शारदसुधांशुसहोदरेण ।
पीयुषपोषसुभगेन च भाषितेन त्वं चेत् प्रसीदसि मृगाक्षि कुतो निदाघः ॥
अत्युष्णा ज्वरितेव भास्करकरैरापीतसारा मही यक्ष्मार्ता इव पादपाः प्रमुषितच्छाया दवाग्न्याश्रयात् ।
विक्रोशन्त्यवशादिवोच्छ्रितगुहाव्यात्ताननाः पर्वता लोकोऽयं रविपाकनष्टहृदयः संयाति मूर्छामिव ॥
अत्युष्णात् सघृतादन्नाद् अच्छिद्राच्चैव वाससः ।
अपरप्रेष्यभावाच्च भूय इच्छन् पतत्यधः ॥
अत्येति रजनी या तु सा न प्रतिनिवर्तते ।
यात्येव यमुना पूर्णा समुद्रमुदकार्णवम् ॥
अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः ।
वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ॥
अत्र मन्मथमिवातिसुन्दरं दानवारिमिव दिव्यतेजसम् ।
शैलराजमिव धैर्यशालिनं वेद्मि वेङ्कटपतिं महीपतिम् ॥
अत्र यत् पतितं वर्णबिन्दुमात्राविसर्गकम् ।
भ्रमप्रमाददोषाद्धि क्षन्तव्यं तत् सुबुद्धिभिः ॥
अत्रस्तो निजपक्षैस् तुण्डविघातैर्जनानभिभवन्तः ।
कुर्वन्ति शत्रुवृद्धिं निशि विरुतवन्तो जनविनाशम् ॥
अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं वेत्त्याख्याति च धिक्छुकादय इमे सर्वे पथन्तः स्थिताः ।
मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनः काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥
अत्रकण्ठं विलुठ सलिले निर्जला भूः पुरस्ताज् जह्याः शोषं वदनविहितेनामलक्याः ।
फलेन स्थाने स्थाने तदिति पथिकस्त्रीजन(ः) क्लान्तगात्रीं पश्यन् सीतां किमु न कृपया वर्धितो रोदितश्च ॥
अत्रनुगोदं मृगयानिवृत्तस् तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥
अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः ।
तद्भूरिसात्त्विकविकारमपास्तधैर्यम् आचार्यकं विजयि मान्मथमाविरासीत् ॥
अत्रान्तरे च कुलटाकुलवर्त्मघात- संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयद्ंशुजालैर् दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0