भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0661-0680

0661

अत्यन्तविमुखे दैवे व्यर्थयत्ने च पौरुषे ।
मनस्विनो दरिद्रस्य वनादन्यत् कुतः सुखम् ॥

0662

अत्यन्तव्यवधानलब्धजनुषो जात्यापि भिन्नक्रमाः सांनिध्यं विधिना कुतूहलवता कुत्रापि संप्रापिताः ।
गच्छन्त्यामरणं गुणव्यतिकृता भेदं न भूमीरुहस् ते काष्ठादपि निष्ठुरा गुणगणैर्ये नैकतां प्रापिताः ॥

0663

अत्यन्तशीतलतया सुभगस्वभाव सत्यं न कश्चिदपि ते तरुरस्ति तुल्यः ।
छायार्थिनामपि पुनर्विकटद्विजिह्व- सङ्गेन चन्दन विषद्रुमनिर्विशेषः ॥

0664

अत्यन्तशुद्धचिन्मात्रे परिणामश्चिराय यः ।
तुर्यातीतं पदं तत् स्यात् तत्स्थो भूयो न शोचति ॥

0665

अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः ।
दिवसाः सुभगादित्याश् छायासलिलदुर्भगाः ॥

0666

अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।
भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥

0667

अत्यन्तोन्नतपूर्वपर्वतमहापीठे हरस्पर्धया दूरोदञ्चितधूमसंनिभतमस्तारास्फुलिण्गाकुलम् ।
नूनं पञ्चशरोऽकरोच्छशिमिषात् स्वं ज्वाललिङ्गं यतो गर्वाच्छर्वपरान् दहेन्मुनिवरान् सर्वानखर्वा शुभिः ॥

0668

अत्यपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः ।
पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥

0669

अत्यम्बुपानं कठिनासनं च धातुक्षयो वेगविधारणं च ।
दिवाशयो जागरणं च रात्रौ षड्भिर्नराणां निवसन्ति रोगाः ॥

0670

अत्यम्बुपानात् प्रभवन्ति रोगाः अल्पाम्बुपाने च तथैव दोषाः ।
तस्मान्नरो वह्निविवर्धनाय मुहुर्मुहुर्वारि पिबेदभुरि ॥

0671

अत्यम्बुपानाद् विषमाशनाच्च दिवाशयाज्जागरणच्च रात्रौ ।
सम्रोधनान् मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥

0672

अत्यम्बुपानान्न विपच्यतेऽन्नम् अनम्बुपानाच्च स एव दोषः ।
तस्मान्नरो वह्निविवर्धनार्थं महुर्मुहुर्वारि पिबेदभूरि ॥

0673

अत्यर्थवक्रत्वमनर्थकं या शून्यापि सर्वान्यगुणैर्व्यनक्ति ।
अस्पृश्यतादूषितया तया किं तुच्छश्वपुच्छच्छटयेव वाचा ॥

0674

अत्यल्पं जीवितं पापान्य् आपातमधुराण्यलम् ।
तदाचर चिरस्थेयपरलोकावलोकनम् ॥

0675

अत्यल्पसंपदः सन्तः पुमानिष्टश्च दुष्कुले ।
लक्ष्मीरनभिजातस्य वेधसः स्खलितत्रयम् ॥

0676

अत्याग्रहो न कर्तव्यो हठात्कश्चिन्न भाषते ।
यथायथोन्दति तथा भारो भवति कम्बलः ॥

0677

अत्याजिलब्धविजयप्रसरस्त्वया किं विज्ञायते रुचिपदं न महीमहेन्द्रः ।
प्रत्यर्थिदानवशताहितचेष्टयासौ जीमूतवाहनधियं न करोति कस्य ॥

0678

अत्यादरादध्ययनं द्विजानाम् अर्थोपलब्ध्या फलवद्विधाय ।
क्रतूनतुच्छानवितुं तवैषा मीमांसकाद्याधिकृतिः प्रसिद्धा ॥

0679

अत्यादरेण निहितं मयि यद्भवत्या तत्प्रेमहेम किमभूदिति नैव जाने ।
उत्सृज्य किं तदिह पातकमुत्तराणि प्राणा अपि प्रियतमे कतमे भवेयुः ॥

0680

अत्यादरो दारसहोदरेषु न मातृपित्रोर्न च सोदरेषु ।
मूर्खे नियोगस्तनये वियोगः पश्यन्ति लोकाः कलिकौतुकानि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc