महासुभाषितसंग्रह · श्लोक 0601-0620
अतिलोभो न कर्तव्यः कर्तव्यस्तु प्रमाणतः ।
अतिलोभजदोषेण जम्बुको निधनं गतः ॥
अतिलोभो न कर्तव्यो लोभं नैव परित्यजेत् ।
अतिलोभाभिभूतस्य चक्रं भ्रमति मस्तके ॥
अतिलोहितकरचरणं मञ्जुलगोरोचनातिलकम् ।
हठपरिवर्तितशकटं मुररिपुमुत्तानशायिनं वन्दे ॥
अतिलौल्यप्रसक्तानां विपत्तिनैर्व दूरतः ।
जीवं नश्यति लोभेन मीनस्यामिषदर्शने ॥
अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन ।
क्रोध्यमानः प्रियं ब्रूयाद् आक्रुष्टः कुशलं वदेत् ॥
अतिवादांस्तितिक्षेत नावमन्येत कंचन ।
न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् ॥
अतिवादोऽतिमानश्च तथात्यागो नराधिप ।
क्रोधश्चातिविवित्सा च मित्रद्रोहश्च तानी षट् ॥
एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् ।
एतानि मानवान् घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥
अतिवाहितमतिगहनं विनापवादेन यौवनं येन ।
दोषनिधाने जन्मनि किं न प्राप्तं फलं तेन ॥
अतिविततगगनसरणि- प्रसरणपरिमुक्तविश्रमानन्दः ।
मरुदुल्लासितसौरभ- कमलाकरहासकृद्रविर्जयति ॥
अतिविपुलं कुचयुगलं रहसि करैरामृशन् मुहुर्लक्ष्म्याः ।
तदपहृतं निजहृदयं जयति हरर्मृगयमाण इव ॥
अतिविशदानन्तपद- प्रवृत्तदृष्टिर्न मधुरवीक्षणतः ।
तृप्यत्यञ्चितकामः प्रातस्तनकमलमुकुलवीक्षणतः ॥
अतिवृष्टिरनावृष्टिः शलभाः मूषकाः शुकाः ।
असत्करश्च दण्डश्च परचक्राणि तस्कराः ॥
राजानीकप्रियोत्सर्गो मरकव्याधिपीडनम् ।
पशूनां मरणं रोगो राष्ट्रव्यसनमुच्यते ॥
अतिव्ययोऽनपेक्षा च तथार्जनमधर्मतः ।
मोषणं दूरसंस्थानां कोषव्यसनमुच्यते ॥
अतिशयितकदम्बोऽयं मोदकदम्बानिलो वहति ।
वियदम्बुदमेदुरितं मे दुरितं पश्य नागतो दयितः ॥
अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् ।
स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणम् ॥
अतिशौचमशौचं वा अतिनिन्दा अतिस्तुतिः ।
अत्याचारमनाचारं षड्विधं मूर्खलक्षणम् ॥
अतिश्लथालम्बिपयोधरेयं शुभ्रीभवत्काशविकासिकेशा ।
अतीतलावण्यजलप्रवाहा प्रावृट् जरां प्राप शरच्छलेन ॥
अतिसंचयलुब्धानां वित्तमन्यस्य कारणम् ।
अन्यैः संचीयते यत्नाद् अन्यैश्च मधु पीयते ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0