भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0621-0640

0621

अतिसंपदमापन्नैर् भेतव्यं पतनाद्भूयः ।
अत्युच्चशिखरा मेरोः शक्रवज्रेण पातिताः ॥

0622

अतिसज्जनदुर्गतिः खलपङ्क्तिसमुन्नतिः ।
युवतिस्तनविच्युतिरिति किं विधिनिर्मितिः ॥

0623

अतिसत्कृता अपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिम् ।
शिरसा महेश्वरेणा- ऽपि ननु धृतो वक्र एव शशी ॥

0624

अतिसाहसमतिदुष्करम् अत्याश्चर्यं च दानमर्थानाम् ।
योऽपि ददाति शरीरं न ददाति स वित्तलेशमपि ॥

0625

अतिसाहसिकं शूरा मन्त्रिणस्तं निरूपकम् ।
विनीतं गुरवो जज्ञुर् धूर्तमन्तःपुराङ्गनाः ॥

0626

अतिहरितपत्रपरिकर- संपन्नस्पन्दनैकविटपस्य ।
घनवासनैर्मयूखैः कुसुम्भकुसुमायते तरणिः ॥

0627

अतीतलाभस्य सुरक्षणार्थं भविष्यलाभस्य च संगमार्थम् ।
आपत्प्रपन्नस्य च मोक्षणार्थं यन्मन्त्र्यतेऽसौ परमो हि मन्त्रः ॥

0628

अतीतानागतानर्थान् विप्रकृष्टतिरोहितान् ।
विजानाति यदा योगी तदा संविदिति स्मृता ॥

0629

अतीतानागता भावा ये च वर्तन्ति सांप्रतम् ।
तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुमर्हसि ॥

0630

अतीता शीतार्तिः प्रसरति शनैरुष्मकणिका दिनानि स्फायन्ते रविरपि रथं मन्थरयति ।
हिमानीनिर्मुक्तः स्फुरति नितरां शीतकिरणः शराणां व्यापारः कुसुमधनुषो न व्यवहितः ॥

0631

अतीत्य बन्धूनवलङ्घ्य मित्राण्य् आचार्यमागच्छति शिष्यदोषः ।
बालं ह्यपत्यं गुरवे प्रदातुर् नैवापराधोऽस्ति पितुर्न मातुः ॥

0632

अतीन्द्रियायां परलोकवृत्ताव् इहैव तीव्राशुभपाकशंसी ।
दृष्येत नाशो यदि नाम नाशु न कः कुकृत्येन यतेत भूत्यै ॥

0633

अतीव कर्कशाः स्तब्धा हिंस्रजन्तुभिरावृताः ।
दुरासदाश्च विषमा ईश्वराः पर्वता इव ॥

0634

अतीव खलु ते कान्ता वसुधा वसुधाधिप ।
गतासुरपि यां गात्रैर् मां विहाय निषेवसे ॥

0635

अतीव बलहीनं हि लङ्घनं नैव कारयेत् ।
ये गुणा लङ्घने प्रोक्तास् ते गुणा लघुभोजने ॥

0636

अतीव सौख्यशुभदा याम्या निशि भवेच्छिवा ।
पूर्वस्यां तत्पुराध्यक्षम् अन्यं कुर्यादहर्मुखे ॥

0637

अतुलितबलधामं स्वर्णशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं रघुपतिवरदूतं वातजातं नमामि ॥

0638

अतुष्टं स्वेषु दारेषु चपलं चपलेन्द्रियम् ।
नयन्ति निकृतिप्रज्ञं परदाराः पराभवम् ॥

0639

अतुष्टिदानं कृतपूर्वनाशनम् अमाननं दुश्चरितानुकीर्तनम् ।
कथाप्रसङ्गेन च नामविस्मृतिर् विरक्तभावस्य जनस्य लक्षणम् ॥

0640

अतुहिनरुचिनासौ केवलं नोदयाद्रिः क्षणमुपरिगतेन क्ष्माभृतः सर्व एव ।
नवकरनिकरेण स्पष्टबन्धूकसून- स्तबकरचितमेते शेखरं बिभ्रतीव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc