भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0581-0600

0581

अतिप्रचण्डां बहुपाकपाकिनीं विवादशीलां स्वयमेव तस्करीम् ।
अक्रोशबीजां परवेश्मगामिनीं त्यजेत भार्यां दशपुत्रसूरपि ॥

0582

अतिप्रचण्डा बहुदुःखभागिनी विवादशीला परगेहगामिनी ।
भर्तुः स्वयं निन्दति या च तस्करी त्यजेत् स्वभार्यां दशपुत्रपुत्रिणीम् ॥

0583

अतिप्रौढा रात्रिर्बहलशिखदीपः प्रभवति प्रियः प्रेमारब्धस्मरविधिरसज्ञः परमसौ ।
सखि स्वैरं स्वैरं सुरतमकरोद्व्रीडितवपुर् यतः पर्यङ्कोऽयं रिपुरिव कडत्कारमुखरः ॥

0584

अतिबलिनामपि मलिना- शयेन बलिकर्णपुत्राणाम् ।
विश्वासोपनतानां वासोपुत्रेण जीवितं जह्रे ॥

0585

अतिबहुतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती ।
प्रकटितकुचकुम्भो लोमराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि ॥

0586

अतिभीरुमतिक्लीबं दीर्घसूत्रं प्रमादिनम् ।
व्यसनाद् विषयाक्रान्तं न भजन्ति नृपं प्रजाः ॥

0587

अतिमन्दचन्दनमहीधरवातं स्तबकाभिरामलतिकातरुजातम् ।
अपि तापसानुपवनं मदनार्तान् मदमञ्जुगुञ्जदलिपुञ्जमकार्षीत् ॥

0588

अतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः ।
तिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥

0589

अतिमात्रभासुरत्वं पुष्यति भानुः परिग्रहादह्नः ।
अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥

0590

अतिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः ।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥

0591

अतिमानिनमग्राह्यम् आत्मसंभावितं नरम् ।
क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम् ॥

0592

अतिमृदु नवनीताच्चन्द्रकाच्चातिरम्यं बहुललितसुधायाः स्वादतः सद्रसाढ्यम् ।
सकलललितभोगागारभाग्यैकयोग्यं परिलसति हविष्यं कस्य गल्लच्छलेन ॥

0593

अतियत्नगृहीतोऽपि खलः खलखलायते ।
शिरसा धार्यमाणोऽपि तोयस्यार्धघटो यथा ॥

0594

अतिरमणीये काव्ये पिशुनोऽन्वेषयति दूशणान्येव ।
अतिरमणीये वपुषि व्रणमेव हि मक्षिकानिकरः ॥

0595

अतिरागाद् दशग्रीवो ह्यतिलोभात् सुयोधनः ।
अतिदानाद् धतः कर्णो ह्यतिः सर्वत्र गर्हितः ॥

0596

अतिरिच्यते सुजन्मा कश्चिज्जनकान्निजेन चरितेन ।
कुम्भः परिमितमम्भः पिबति पपौ कुम्भसंभवोऽम्भोधिम् ॥

0597

अतिरुचिरङ्गजकृत्त्या क्षोभितदक्षं भवन्तमेव भजे ।
यस्मिन् प्रसादसुमुखे सद्यो वामापि भवति मम तुष्ट्यै ॥

0598

अतिरुपवती सीता अतिगर्वी च रावणः ।
अतीव बलवान् रामो लङ्कायेन क्षयं गता ॥

0599

अतिरूपाद् धृता सीता अतिगर्वेण रावणः ।
अतिदानाद् बलिर्बद्धो ह्यति सर्वत्र गर्हितम् ॥

0600

अतिरूपेण वै सीता अतिगर्वेण रावनः ।
अतिदानं बलिर्दत्त्वा अति सर्वत्र वर्जयेत् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc