भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0461-0480

0461

अज्ञोऽपि तज्ज्ञतामेति शनैः शैलोऽपि चूर्ण्यते ।
बाणोऽप्येति महालक्ष्यं पश्याभ्यासविजृम्भितम् ॥

0462

अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
अज्ञं हि बाल इत्याहुः पितेत्येव तु मन्त्रदम् ॥

0463

अज्ञो वा यदि वा विपर्ययगते ज्ञानेऽथ संदेहभृद् दृष्टादृष्टविरोधि कर्म कुरुते यस्तस्य गोप्ता गुरुः ।
निः संदेहविपर्यये सति पुनर्ज्ञाने विरुद्धक्रियं राजा चेत् पुरुषं न शास्ति तदयं प्राप्तः प्रजाविप्लवः ॥

0464

अञ्चति रजनिरुदञ्चति तिमिरमिदं चञ्चति महोभूः ।
उक्तं न त्यज युक्तं विरचय रक्तं मनस्तस्मिन्॥

0465

अञ्चलान्तरितगुर्जराङ्गना- कुङ्क्मारुणकुचप्रभाधरम् ।
कोकरागपटलैर्नु रञ्जितं भानुमन्तमुदयन्तमाश्रये ॥

0466

अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।
कतकफलसमायुक्तैः कूपे योगः प्रदातव्यः ॥

0467

अञ्जनमिषतः स्त्रीणां दृशोर्विषं शश्वदावसति ।
कथमन्यथा तदीषत् पातेऽपि हता युवानः स्युः ॥

0468

अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च संचयम् ।
अवन्ध्यं दिवसं कुर्याद् दानाध्ययनकर्मभिः ॥

0469

अञ्जलिं शपथं सान्त्वं प्रणम्य शिरसा वदेत् ।
अश्रुप्रपातनं चैव कर्तव्यं भूतिमिच्छता ॥

0470

अञ्जलिं शपथं सान्त्वं शिरसा पादवन्दनम् ।
आशाकरणमित्येकं कर्तव्यं भूतिमिच्छता ॥

0471

अञ्जलिरकारि लोकैर् म्लानिमनाप्तैव रञ्जिता जगती ।
संध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥

0472

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम् ।
अहो सुमनसां वृत्तिर् वामदक्षिणयोः समा ॥

0473

अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् ।
आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥

0474

अटता धात्रीमखिलाम् इदमाश्चर्यं मया दृष्टम् ।
धनदोऽपि नयननन्दन परिहरसि यदुग्रसंपर्कम् ॥

0475

अटत्कटकघोटकप्रकटचापटङ्कारवच् चटच्चटदिति स्फुटं स्फुटति मेदिनी कर्परम् ।
निजामधरणीपतौ वलति कौतुकाडम्बराद् इदं भुवनमण्डलं दरदरीदरीदर्यहो ॥

0476

अटनेन महारण्ये सुपन्था जायते शनैः ।
वेदाभ्यासात् तथा ज्ञानं शनैः पर्वतलङ्घनम् ॥

0477

अट वा विकटः पतत्रनादैः कटुवाचं रट वाथवा दिवान्ध ।
परुषं परिपश्य संयतं तत् परमं नः पुरमागतो न चेत् त्वम् ॥

0478

अटवी कीदृशी प्रायो दुर्गमा भवति प्रिये ।
प्रियस्य कीदृशी कान्ता तनोति सुरतोत्सवम् ॥

0479

अटव्या द्रुमपुष्पाणि दूरस्था अपि बान्धवाः ।
कान्ता चालेख्यरूपा च ते काले न प्रतिष्ठिताः ॥

0480

अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः ।
केशशूलाः स्त्रियो राजन् भविष्यन्ति युगक्षये ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc