भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0441-0460

0441

अज्ञानात् कुरुते श्राद्धं योऽभिश्रवणवर्जितम् ।
श्राद्धहन्ता भवेत्कर्ता निराशाः पितरो गताः ॥

0442

अज्ञानाज्ज्ञानतो वापि यद्दुरुक्तमुदाहृतम् ।
तत् क्षन्तव्यं युवाभ्यां मे कृत्वा प्रीतिपरं मनः ॥

0443

अज्ञानाद्यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।
तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥

0444

अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना ।
नो चेल् लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रैर्वृतो यास्यसि ॥

0445

अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्य्न्तरैः ।
क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मां मुञ्च महेश पेशलदृशा सत्रासमाश्वासय ॥

0446

अज्ञानान्निरयं याति तथाज्ञानेन दुर्गतिम् ।
अज्ञानात् क्लेशमाप्नोति तथापत्सु निमज्जति ॥

0447

अज्ञानामवनीभुजामहरः स्वर्णाभिषेकोत्सवाज् ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लाघैव संमानना ।
सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः सारज्ञेन्दुमुखीविलोककपटश्चातुर्ययूनां मुदे ॥

0448

अज्ञानामविरामलौकिकवचोभाजाममीषां पुनर् मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु ।
ग्रामायव्ययलेखनेन नयतां कालानशेषानहो पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥

0449

अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां किं लब्धं शठ दुर्नयेन नयता सौभाग्यमेतां दशाम् ।
पश्यैतद्दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणं वक्षस्ते मलतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥

0450

अज्ञानेनापिहिते विज्ञाने कर्म किं कुरुते ।
विकले चक्षुषि तमसा व्यादाय मुखं किमीक्षेत ॥

0451

अज्ञानेनावृतो लोको मात्सर्यान्न प्रकाशते ।
लोभात् त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति ॥

0452

अज्ञानेनावृतो लोको लोभेन च वशीकृतः ।
सङ्गन बहुभिर्नष्टस् तेन स्वर्गं न गच्छति ॥

0453

अज्ञानैकहतो बाल्ये यौवने गृहतत्परः ।
वार्धकेऽपत्यचिन्तार्तः कर्मभिर्बध्यते पुनः ॥

0454

अज्ञानोपहतो बाल्ये यौवने मदनाहतः ।
शेषे कलत्रचिन्तार्तः किं करोतु कदा जनः ॥

0455

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ॥
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥

0456

अज्ञास्तरन्ति पारं विज्ञा विज्ञाय द्राङ्निमज्जन्ति ।
कथय कलावति केयं तव नयनतरङ्गिणीरीतिः ॥

0457

अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥

0458

अज्ञेष्वज्ञो गुणिषु गुणवान् पण्डिते पण्डितोऽसौ दीने दीनः सुखिनि सुखवान् भोगिनो भोगिभावः ।
ज्ञाता ज्ञातुर्युवतिषु युवा वाग्मिनां तत्त्ववेत्ता धन्यः सोऽयं भवति भुवन योऽवधूतेऽवधूतः ॥

0459

अज्ञो जन्तुश्च नीचोऽयम् आत्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रमेव वा ॥

0460

अज्ञो न वितरत्यर्थान् पुनर्दारिद्रियशङ्कया ।
प्राज्ञोऽपि वितरत्यर्थान् पुनर्दारिद्रियशङ्कया ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc