भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0481-0500

0481

अणिमा महिमा चैव लघिमा गरिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्ट सिद्धयः ॥

0482

अणुकं सुरतं नाम दंपत्योः पार्श्वसंस्थयोः ।
जायन्ते निबिडाश्लेषाः समीभूतशरीरयोः ॥

0483

अणुनापि प्रविश्यारिं छिद्रेण बलवत्तरम् ।
निःशेषं मज्जयेद्राष्ट्रं यानपात्रमिवोदकम् ॥

0484

अणु धनमपि न त्याज्यं मम भवता ज्ञापिते सत्यम् ।
वित्तं जीवितमग्र्यं जीवितहानिर्धनत्यागः ॥

0485

अणुपूर्वं बृहत् पश्चाद् भवत्यार्येषु संगतम् ।
विपरीतमनार्येषु यथेच्छसि तथा कुरु ॥

0486

अणुभ्यश्च महद्भ्यश्च शास्त्रेभ्यः कुशलो नरः ।
सर्वत्ः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥

0487

अणुमात्रं यथा शल्यं शरीरे दुःखदायकम् ।
तथातिसू . . संयुक्तं मनः संसारदायकम् ॥

0488

अणुरपि ननु नैव क्रोडभूषास्य काचित् परिभजसि यदेतत्तद्विभूतिस्तथैव ।
इह सरसि मनोज्ञे संततं पातुमम्भः श्रमपरिभवमग्नाः के न मग्नाः करीन्द्राः ॥

0489

अणुरपि मणिः प्राणत्राणक्षमो विषभक्षिणां शिशुरपि रुषा सिंहीसूनुः समाह्वयते गजान् ।
तनुरपि तरुस्कन्धोद्भूतो दहत्यनलो वनं प्रकृतिमहतां जात्यं तेजो न मूर्तिमपेक्षते ॥

0490

अणुरप्यसतां सङ्गः सद्गुणं हन्ति विस्तृतम् ।
गुणरुपान्तरं याति तक्रयोगाद्यथा पयः ॥

0491

अणुरप्युपहन्ति विग्रहः प्रभुमन्तः प्रकृतिप्रकोपजः ।
अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥

0492

अणोरणीयान् महतो महीयान् आत्मास्य जन्तोर् निहितो गुहायाम् ।
तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमात्मनः ॥

0493

अणोरणीयान् महतो महीयान् मध्यो नितम्बश्च मम प्रियायाः ।
यज्ञोपवीतं परमं पवित्रं किंचाङ्गरागारुणितं प्रियायाः ॥

0494

अणोरणीयान् महतो महीयान् योगे वियोगे दिवसोऽङ्गनायाः ।
यज्ञोपवीतं परमं पवित्रं स्पृष्ट्वा सखे सत्यमिदं ब्रवीमि ॥

0495

अण्डं कण्डूयमानेन यत् सुखं तव भूपते ।
खुर्जनानन्तरं दुःखं भूयात्तु तव वैरिणाम् ॥

0496

अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः ।
नीलकण्ठाश्च शैलेषु निवसन्तु न तेन ते ॥

0497

अण्डाभ्यां लोमशाभ्यां तु जाताण्डो न हितः स्मृतः ।
भरमाभावक्त्रपुच्छं च कृष्णनीलं परित्यजेत् ।
निन्द्यः केवलकृष्णस्तु सर्वश्वेतस्तु पूजितः ॥

0498

अण्वपि गुणाय महतां महदपि दोषाय दोषिणां सुकृतम् ।
तृणमपि दुग्धाय गवां दुग्धमपि विषाय सर्पाणाम् ॥

0499

अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।
सिद्धेऽन्यथाऽर्थे न यतेत भूयः परिश्रमं तत्र समीक्षमाणः ॥

0500

अतः परं प्रवक्ष्यामि खड्गलक्षणमुत्तमम् ।
प्रधानदेहसंभूतैर् दैत्यास्थिभिररिंदम् ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc