भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0381-0400

0381

अजस्रं लसत्पद्मिनी वृन्दसङ्गं मधूनि प्रकामं पिबन्तं मिलिन्दम् ।
रविर्मोचयत्यब्जकारागृहेभ्यो दयालुर्हि नो दुष्टवद् दोषदर्शी ॥

0382

अजस्रभूमीतटकुट्टनोत्थितैर् उपास्यमानं चरणेषु रेणुभिः ।
रयप्रकर्षाध्ययनार्थमागतैर् जनस्य चेतोभिरिवाणिमाङ्कितैः ॥

0383

अजस्रमभ्यासमुपेयुषा समं मुदैव देवः कविना बुधेन च ।
दधौ पटीयान् समयं नयन्नयं दिनेश्वरश्रीरुदयं दिने दिने ॥

0384

अजस्रमारोहसि दूरदीर्घां संकल्पसोपानततिं तदीयाम् ।
श्वासान् स वर्षत्यधिकं पुनर्यद् ध्यानात्तव त्वन्मयतां तदाप्य ॥

0385

अजा इव प्रजा मोहाद् यो हन्यात् पृथिवीपतिः ।
तस्यैका जायते तृप्तिर् न द्वितीया कथंचन ॥

0386

अजागलस्थस्तन उष्ट्रपुच्छं कक्षान्तरे केशमथाण्डयुग्मम् ।
त्वां संसृजन् सायणमायणादौ ब्रह्माग्रगण्यो न बभूव पूज्यः ॥

0387

अजाङ्घ्रिनिर्दत्तरजश्चयापि कपालिना बद्धरसापि कामम् ।
ततोऽप्यधोधः पतितापि नित्यं गङ्गा कुसङ्गापि पुनाति लोकान् ॥

0388

अजाजीजम्बाले रजसि मरिचानां च लुठिताः कटुत्वादुष्णत्वाज्जनितरसनौष्ठव्यतिकराः ।
अनिर्वाणोत्थेन प्रबलतरतैलाक्ततनवो मया सद्यो भृष्टाः कतिपयकवय्यः कवलिताः ॥

0389

अजातमृतमूर्खाणां वरमाद्यौ न चान्तिमः ।
सकृद्दुःखकरावाद्याव् अन्तिमस् तु पदे पदे ॥

0390

अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥

0391

अजातरोमामतिसुन्दराङ्गीं शृङ्गारवल्लीमिव राजकन्याम् ।
भुक्त्वा द्रुतं क्वापि गतो न चेत् स्याः स्यात्ते तदानर्थनिपात एव ॥

0392

अजाधूलिरिव त्रस्तैर् मार्जनीरेणुवज्जनैः ।
दीपखट्वोत्थच्छायेव त्यज्यते निर्धनो जनः ॥

0393

अजानता भवेत्कश्चिद् अपराधः कुतो यदि क्षन्तव्यमेव तस्याहुः सुपरीक्ष्य परीक्षया ॥

0394

अजानती कापि विलोकनोत्सुका समीरधूतार्धमपि स्तनांशुकम् ।
कुचेन तस्मै चलतेऽकरोत् पुरः पुराङ्गना मङ्गलकुम्भसंभृतिम् ॥

0395

अजानन् माहात्म्यं पतति शलभस् तीव्रदहने स मीनोऽप्यज्ञानाद् बडिशयुतमश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह विपज्जालजटिलान् न मुञ्चामः कामानहह गहनो मोहमहिमा ॥

0396

अजामूत्रं च तद्विष्ठा सूकरस्य तथैव विट् ।
बुद्बुदं लेपतो हन्यान् मण्डलिक्ष्वेडसंभवम् ॥

0397

अजायन्तैतस्मादमृतशशिलक्ष्मीप्रभृतयः परित्राताश्चेन्द्रात् कुलशिखरिणः पूर्वयमुना ।
उपेता इत्येवं तव जलनिधे तीरमधुना विगर्जाभिः किं नः श्रुतिपुटमहो जर्जरयसि ॥

0398

अजायुद्धमृषिश्राद्धं प्रभाते मेघडम्बरः ।
दम्पत्योः कलहश्चैव बह्वारम्भे लघुक्रिया ॥

0399

अजारजः खररजस् तथा संमार्जनीरजः ।
दीपखट्वोत्थच्छाया च शक्रस्यापि श्रियं हरेत् ॥

0400

अजारजः पर्वणि मैथुनानि श्मशानधूमो मठभोजनानि ।
रजस्वलानेत्रनिरीक्षणानि हरन्ति पुण्यानि दिवा कृतानि ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc