भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0401-0420

0401

अजाविगर्दभोष्ट्राणां मार्जारमूषिकस्य च ।
रजांस्येतानि पापानि सर्वतः परिवर्जयेत् ॥

0402

अजाश्वयोर्मुखं मेध्यं गावो मेध्यास्तु पृष्ठतः ।
ब्राह्मणाः पादतो मेध्याः स्त्रियो मेध्याश्च सर्वतः ॥

0403

अजा सिंहप्रसादेन वने चरति निर्भयम् ।
राममासाद्य लङ्कायां लेभे राज्यं विभीषणः ॥

0404

अजितेन्द्रियवर्गस्य नाचारेण भवेत् फलम् ।
केवलं देहखेदाय दुर्भगस्य विभूषणम् ॥

0405

अजित्वा सार्णवामुर्वीम् अनिष्ट्वा विविधैर्मखैः ।
अदत्त्वा चार्थमर्थिभ्यो भवेयं पार्थिवः कथम् ॥

0406

अजीयतावर्तशुभंयुनाभ्यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् ।
निः सूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥

0407

अजीर्णं तपसः क्रोधो ज्ञानाजीर्णमहंकृतिः ।
परिनिन्दा क्रियांजीर्णम् अन्नाजीर्णं विषूचिका ॥

0408

अजीर्णे भेषजं वारि जीर्णे वारि बलप्रदम् ।
भोजने चामृतं वारि भोजनान्ते विषापहम् ॥

0409

अजेयः सुभगः सौम्यः त्यागी भोगी यशोनिधिः ।
भवत्यभयदानेन चिरंजीवी निरामयः ॥

0410

अजैडकासूकरविड्विडङ्ग- किण्वोपचारेण च बीजपूरः ।
भूयोश्वमूत्राविलवारिसिक्तः फलानि धत्ते सुबहूनि शश्वत् ॥

0411

अर्जितं स्वेन वीर्येण नान्यपाश्रित्य कंचन ।
फलशाकमपि श्रेयो भोक्तुं ह्यकृपणं गृहे ॥

0412

अज्ञं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति ।
लिप्यते रसनैवैका सर्पिषा करवद् यथा ॥

0413

अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥

0414

अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् ।
नृपतिर्वहेत शिरसा तेनासौ नह्यनर्घ्यमणिः ॥

0415

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥

0416

अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणीश् चाटूक्तीः प्रभवामियामिभवतो याभिः कृपापात्रताम् ।
आर्तेनाशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमे हि देहि चरणं मूर्धन्यधन्यस्य मे ॥

0417

अज्ञातकालोचितकर्मयोगा रोगा इवाहर्निशि पश्यमानाः जगत्त्रये देवमनुष्यनागाः ।
प्रज्ञादरिद्राः खलु सर्व एव ॥

0418

अज्ञातकुलशीलस्य वासो देयो न कस्यचित् ।
मार्जारस्य हि दोषेण हतो गृध्रो जरद्गवः ॥

0419

अज्ञातकुलशीलेऽपि प्रीतिं कुर्वन्ति वानराः ।
आत्मार्थे च न रोदन्ति रोदन्ति त्वितरे जनाः ॥

0420

अज्ञातदेशकालाश् चपलमुखा पङ्गवोऽपिस प्लुतयः ।
नवविहगा इव मुग्धा भक्ष्यन्ते धूर्तमार्जारैः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc