भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0361-0380

0361

. . . . . .
अच्छलं मित्रभावेन सतां दारावलोकनम्

0362

अच्छाच्छचन्दनरसार्द्रकरा मृगाक्ष्यो धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत् सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥

0363

अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्विव मधुद्रुममञ्जरीषु ।
कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ॥

0364

अच्छिद्रमस्तु हृदयं परिपूर्णमस्तु मौखर्यमस्तमितमस्तु गुरुत्वमस्तु ।
कृष्णप्रिये सखि दिशामि सदाशिषस्ते यद्वासरे मुरलि मे करुणां करोषि ॥

0365

अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः ।
अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥

0366

अच्छिन्नमेखलमलब्धदृढोपगूढम् अप्राप्तचुम्बनमवीक्षितवक्त्रकान्ति ।
कान्ताविमिश्रवपुषः कृतविप्रलम्भ- सम्भोगसख्यमिव पातु वपुः स्मरारेः ॥

0367

अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरभराद्द्रष्टव्यतां कामपि ।
अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम् ॥

0368

अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुर् अचलोऽयं सनातनः ॥

0369

अच्युतचरणतरङ्गिणि शशिशेखरमौलिमालतीमाले ।
त्वयि तनुवितरणसमये हरता देया न मे हरिता ॥

0370

अच्युतभक्तिवशादिह समभावस्तत्प्रसङ्गेन ।
सा रमतेरभ्युदयति रतिरिति नैवाद्भुतं किंचित् ॥

0371

अच्युतानन्तगोविन्दनामोच्चारणभेषजात् ।
नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥

0372

अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन ।
प्रतिनिशमपूरि पम्पा दक्षिणसंपातिभिः सलिलैः ॥

0373

अजनि भगवानस्माद्वेधाः शिरःसु सुधाभुजां कृतपदमिदं चैतद्देव्याः श्रियो धृतिमन्दिरम् ।
तदिह भुवनाभोगश्लाघ्ये सरोरुहि यच्चिरं शशधर तव द्वेषारम्भः स एष जडग्रहः ॥

0374

अजनि रजनिरन्या चन्द्रमः कान्तिवन्या- विपुलचपलवीचिव्याचिता काचिदेव ।
सतरुगिरिसरिद्भिः किं हरिद्भिः समेतं धवलिमनि धरित्रीमण्डलं मग्नमेतत् ॥

0375

अजनि शिशिरशीलं शैवलं सागरे यच् चिकुरमकृत कामस्तन्वि ते किं न तेन ।
वहति कुटिलमेनं हेतुना केन मूर्ध्ना वदनविधुरयं चेत् सोदरो नादसीयः ॥

0376

अजन्मा पुरुषस्तावद् गतासुस्तृणमेव वा ।
यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥

0377

अजन्यकम्पाः शूरा ये नित्यमप्यपराङ्मुखाः ।
दर्शयन्त्यपरागेण परेभ्यश्चित्ररूपवत् ॥

0378

अजरामरवत् प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥

0379

अजवच्चर्वणं कुर्याद् गजवत् स्नानमाचरेत् ।
राजवत् प्रविशेद्ग्रामं चोरवद्गमनं चरेत् ॥

0380

अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc