महासुभाषितसंग्रह · श्लोक 0041-0060
अकस्मादेव तन्वङ्गी जहास यदियं पुनः ।
नूनं प्रसूनबाणोऽस्यां स्वाराज्यमधितिष्ठति ॥
अकस्मादेव ते चण्डि स्फुरिताधरपल्लवम् ।
मुखं मुक्तारुचो धत्ते घर्माम्भःकणमञ्जरीः ॥
अकस्मादेव यः कोपाद् अभीक्ष्णं बहु भाषते ।
तस्मादुद्विजते लोकः सस्फुलिङ्गादिवानलात् ॥
अकस्माद्द्वेष्टि यो भक्तम् आजन्मपरिसेवितम् ।
न व्यञ्जने रुचिर्यस्य त्याज्यो नृप इवातुरः ॥
अकाण्डकोपिनो भर्तुर् अन्यासक्तेश्च योषितः ।
प्रशान्तिश्चेतसः कर्तुं ब्रह्मणापि न शक्यते ॥
अकाण्डध्र्तमानसव्यवसितोत्सवैः सारसैर् अकाण्दपटुताण्डवैरपि शिखण्डिनां मण्डलैः ।
दिशः समवलोकिताः सरसनिर्भरप्रोल्लसद्- भवत्पृथुवरूथिनीरजनिभूरजःश्यामलाः ॥
अकाण्डपातजातानाम् अस्त्राणां मर्मभेदिनाम् ।
गाढशोकप्रहाराणाम् अचिन्तैव महौषधम् ॥
अकाण्डे वक्षोजस्खलितवसनव्यापृतकरं मृषा जृम्भारम्भोन्नमितभुजबन्धोन्नतकुचम् ।
वृथा यातायातैः कपटकलितान्योन्यहसितं हरन्त्येताश्चित्तान्यहह जगतां वारवनिताः ॥
अकामस्य क्रिया काचिद् दृश्यते नेह कऋहिचित् ।
यद्यद्धि कुरुते किंचित् तत्तत् कामस्य चेष्टितम् ॥
अकामां कामयानस्य शरीरमुपतप्यते ।
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥
अकामान् कामयति यः कामयानान् परिद्विषन् ।
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥
अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते ।
इदं हि रूपं परिभुतपूर्वकं तदेव भूयो बहुमानमागतं ॥
अकारणं व्याकरणं तन्त्रीशब्दोऽप्यकारणम् ।
अकारणं त्रयो वेदास् तण्डुलास्तत्र कारणम् ॥
अकारणाविष्कृतकोपदारुणात् खलाद्भयं कस्य न नाम जायते ।
विषं महाहेरिव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ॥
अकारणेन विप्रेभ्यो यः कुप्यति नराधिपः ।
क्र्ष्णसर्पं स गृह्णाति शिरसा बलदऋपितः ॥
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।
अकाले मन्त्रभेदाच्च येन माद्येन्न तत् पिबेत् ॥
अकार्यप्रतिषेधश्च कार्याणां च प्रवर्तनम् ।
प्रदानं च प्रदेयानाम् अदेयानामसंग्रहः ॥
अकार्यमसकृत् कृत्वा दृश्यन्ते ह्यधना नराः ।
धनयुक्तास्त्वधर्मस्था दृश्यन्ते चापरे जनाः ॥
अकार्याण्यपि पर्याप्य कृत्वापिं वृजिनार्जनं ।
विधीयते हितं यस्य स देहः कस्य सुस्थिरः ॥
अकार्ये तथ्यो वा भवति वितथः काममथवा तथाप्युच्चैर्धाम्नां हरति महिमानं जनरवः ।
तुलोत्तीर्णस्यापि प्रकटनिहताशेषतमसो रवेस्तादृक्तेजो न हि भवति कन्यां गत इति ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0