महासुभाषितसंग्रह · श्लोक 0021-0040
अकरोः किमु नेत्रशोणिमानं किमकार्षीः करपल्लवावरोधम् ।
कलहं किमधाः क्रुधा रसज्ञे हितमर्थं न विदन्ति दैवदष्टाः ॥
अकर्णमकरोच्छेषं विधिर्ब्रह्माण्डभङ्गधीः ।
श्रुत्वा रामकथां रम्यां शिरः कस्य न कम्पते ॥
अकर्णधाराशुगसंभृताङ्गतां गतैररित्रेण विनास्य वैरिभिः ।
विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवार्णवः ॥
अकर्तव्यं न कर्तव्यं प्राणैः कण्ठगतैरपि ।
कर्तव्यमेव कर्तव्यं प्राणैः कण्ठगतैरपि ॥
अकर्तव्येष्वसाध्वीव तृष्णा प्रेरयते जनम् ।
तमेव सर्वपापेभ्यो लज्जा मातेव रक्षति ॥
अकर्मणां वै भूतानां वृत्तिः स्यान् न हि काचन ।
तदेवाभ्रिप्रपद्येत न विहन्यात् कथंचन ॥
अकर्मशीलं च महाशनं च लोकद्विष्टं बहुमायं नृशंसम् ।
अदेशकालज्ञमनिष्टवेषम् एतान् गृहे न प्रतिवासयीत ॥
अकलङ्कचन्द्रकलया कलिता सा भाति वारुणी तरुणी ।
भालस्थलीव शम्भोः संध्याध्यानोपविष्टस्य ॥
अकलङ्कान्तिके कान्तिः केति कालङ्कलङ्किनः ।
अरुणे तरुणे मस्या धावं कामयते शशी ॥
अकलङ्का पुलकवती सस्नेहा मुक्तकञ्चुकी श्यामा ।
पततु तवोरसि दयिता खङ्गलता वैरिणः शिरसि ॥
अकलङ्को दृढः शुद्धः परिवारी गुणान्वितः ।
सद्वंशो हृदयग्राही खङ्गः सुसदृशस्तव ॥
अकलितनिजपररूपः स्वकमपि दोषं परस्थितं वेत्ति ।
नावास्थितस्तटस्थान् अचलानपि विचलितान् मनुते ॥
अकलियुगमखर्वमत्र हृद्यं व्यचरदपापघनो यतः कुटुम्बी ।
मम रुचिरिह लक्ष्मणाग्रजेन प्रभवति शर्मदशास्यमर्देन ॥
अकलिलतपस्तेजोवीर्यप्रथिम्नि यशोनिधा- ववितथमदध्माते रोषान्मुनावभिधावति ।
अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात् पाणिः पादोपसंग्रहणाय च ॥
अकल्पः स्वाङ्गचेष्टायां शकुन्त इव पञ्जरे ।
अनुच्छ्वसन्स्मरन् पूर्वं गर्भे किं नाम विन्दते ॥
अकस्मात् प्रक्रिया नॄणां अकस्माच्चापकर्षणम् ।
शुभाशुभे महत्त्वं च प्रकर्तुं बुद्धिलाघवात् ॥
अकस्मादपि यः कश्चिद् अर्थं प्राप्नोति पूरुषः ।
तं हठेनेति मन्यन्ते स हि यत्नो न कस्यचित् ॥
अकस्मादुन्मत्त प्रहरसि किमध्वक्षितिरुहं ह्रदं हस्ताघातैर्विदलसि किमुत्फुल्लनलिनम् ।
तदा जानीमस्ते करिवर बलोद्गारमसमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥
अकस्मादेकस्मिन् पथि सखि मया यामुनतटं व्रजन्त्या दृष्टोऽयं नवजलधरश्यामलतनुः ।
स दृग्भङ्ग्या किं वाकुरुत न हि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्ये न लगते ॥
अकस्मादेव कुप्यन्ति प्रसीदन्त्यनिमित्ततः ।
शीलमेतदसाधूनाम् अभ्रं पारिप्लवं यथा ॥
मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0