भाषा

ENहिગુ
ग्रंथ पाठ

महासुभाषितसंग्रह · श्लोक 0061-0080

0061

अकालचर्या विषमा च गोष्ठी कुमित्रसेवा न कदापि कार्या ।
पश्याण्डजं पद्मवने प्रसुप्तं धनुर्विमुक्तेन शरेण भिन्नम् ॥

0062

अकालजलदेन्दोः सा हृद्या वदनचन्द्रिका ।
नित्यं कविचकोरैर्या पीयते न च हीयते ॥

0063

अकालजलदश्लोकैश् चित्रमात्मकृतैरिव ।
जातः कादम्बरीरामो नाटके प्रवरः कविः ॥

0064

अकालजलदच्छन्नम् आलोक्य रविमण्डलम् ।
चक्रवाकयुगं रौति रजनीभयशङ्कया ॥

0065

अकालमृत्युं परिहृत्य जीवितं ददाति यो देहसुखं च देहिनाम् ।
नतेन धात्रास्ति समः कुतोऽधिको न जीविताद्दानमिहातिरिच्यते ॥

0066

अकालमृत्युर्विश्वासो विश्वसन् हि विपद्यते ।
यस्मिन् करोति विश्वासं स जीवत्यपरो मृतः ॥

0067

अकालसहमत्यल्पं मूर्खव्यसनिनायकम् ।
अगुप्तं भीरुयोधं च दुर्गव्यसनमुच्यते ॥

0068

अकालसैन्ययुक्तस्तु हन्यते कालयोधिना ।
कौशिकेन हतज्योतिर् निशीथ इव वायसः ॥

0069

अकाले कृत्यमारब्धं कऋतुं नार्थाय कल्पते ।
तदेव काल आरब्धं महतेऽर्थाय कल्पते ॥

0070

अकाले गर्जिते देवे दुर्दिनं वाथवा भवेत् ।
पूर्वकाण्डहतं लक्ष्यम् अनध्यायं प्रचक्षते ॥

0071

अकिंचनः परिपतन् सुखमास्वादयिष्यसि ।
अकिंचनः सुखं शेते समुत्तिष्ठति चैव हि ॥

0072

अकिंचनत्वं राज्यं च तुलया समतोलयत् ।
अकिंचनत्वमधिकं राज्यादपि जितात्मनः ॥

0073

अकिंचनस्य दान्तस्य शान्तस्य समचेतसः ।
मया संतुष्टमनसः सर्वाः सुखमया दिशः ॥

0074

अकिंचनस्य शुद्धस्य उपपन्नस्य सर्वशः ।
अवेक्षमाणस्त्रींल्लोकान् न तुल्यमुपलक्षये ॥

0075

अकिंचनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः ।
समृद्धे च कुले जाता विनश्यन्ति पतंगवत् ॥

0076

अकिंचित्कारिणां दीनैर् आकृष्टगुणकर्मणाम् ।
अघाय गतसत्त्वानां दर्शनस्पर्शनादिकम् ॥

0077

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
संभावितस्य चाकीर्तिर् मरणादतिरिच्यते ॥

0078

अकीर्तिर्यस्य गीयेत लोके भूतस्य कस्यचित् ।
पतत्येवाधमांल्लोकान् यावच्छब्दः प्रकीर्त्यते ॥

0079

अकीर्तिर्निन्द्यते देवैः कीर्तिर्लोकेषु पूज्यते ।
कीर्त्यर्थं तु समारम्भः सर्वेषां सुमहात्मनाम् ॥

0080

अकीर्तेः कारणं योषिद् योषिद्वैरस्य कारणम् ।
संसारकारणं योषिद् योषितं वर्जयेत्ततः ॥

मूल पाठ: Mahāsubhāṣitasaṃgraha 1-9979 · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc