महासंनिपातरत्नकेतुधारणीसूत्र · अध्याय 3
एवमुक्ते कुलपुत्र स ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तां सुरसुन्दरीमग्रमहिषीमेतदवोचत् । अस्ति भगिनि पर्यायो येन मातृग्रामो मातृग्रामभावं लघ्वेव परिवर्तयति पूर्वाक्षिप्तमातृग्रामभावो लघ्वशेषं क्षीयते न च भूयो मातृग्रामेषु उपपत्तिं प्रतिगृण्हाति यावदनुत्तरपरिनिर्वाणे हान्या [ह्यनत्र स्व]प्रणिधानात् । तत्र भगिनि कतरः पर्यायो येन पर्यायेण मातृग्रामो लघु पुरुषो भवति पूर्वाक्षिप्तं च मातृग्रामभावं लघ्वशेषं क्षेपयति । इह भगिनि इयं रत्नकेतुर्नाम धारणी महार्थिकी महानुशंसा महाप्रभावा सर्वमातृग्रामभावक्षयकरी कायवाङ्मनोदुःखविपाकदौष्ठुल्यं ( दुत्त् 39 ) निरवशेषं क्षेपयति । अस्याश्च रत्नकेतुधारण्याः समाश्रयणेन मातृग्रामस्य मातृग्रामभावो निरवशेषो गच्छति । स्त्रीन्द्रियमन्तर्धाय पुरुषेन्द्रियं प्रादुर्भवति । पुरुषश्चापि रूप[वान् सर्वाङ्ग]परिपूर्णो भवति ऋजुः सूक्ष्मज्ञानकुशलो भवति कायवाङ्मनःसुकृतकर्मान्तः सुचरितचारी सर्वशतुर्निर्जेता भवति । यश्चास्य दृष्टधर्मसांपरायिकः काय[वाङ्म]नोदुःखप्रतिसंवेदनीयो दुष्कृतानां वाङ्मनःकर्मणां फलविपाकः स परिक्षयं गच्छति । स्थाप्यानन्तर्यकारिणं सद्धर्मप्रतिक्षेपकमार्यापवादकं च तेषां पुनस्तेनैव भावेन परिक्षयं गच्छति [अ]परिशेषः स्त्रीभावः । कायवाङ्मनोदौष्ठुल्यवैपाकिकः सुमेरुमात्रः पारजन्मिकः स्त्रीभावेनापि निवर्तको दुःखविपाकप्रतिसंवेदनीयः कर्मावरण-पापनिष्यन्दनिरवशेषः परिक्षयं गच्छति । तत् कुतः । [तद्] यथा नाम इयं रत्नकेतुधारणी सर्वैरतीतैस्तथागतैरर्हद्भिः सम्यक्सम्बुद्धैर्भाषिताश्चाधिष्ठिता अन्योन्यमनुमोदिताः स्तुता अभिष्टुता वर्णिताः सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलबिवृद्धितायै । एभिः केचिदेतर्हि दशसु दिक्षु प्रत्युत्पन्नास्तथागता अर्हन्तः सम्यक्संबुद्धास्तिष्ठन्ति यापयन्ति स्वकस्वकेषु बुद्धक्षेत्रेषु । सर्वे ते बुद्ध भगवन्त इमां रत्नकेतुधारणीं भाषन्ते यावत् प्रशंसन्ति सत्त्वानां कर्मपरिक्षयाय कुशलमूलविवृद्धये । ये ऽपि ते भविष्यन्ति अनागते ऽध्वनि दशसु दिक्षु अन्योन्येषु तथागता अर्हन्तः सम्यक्संबुद्धास्ते ऽपीमां रत्नकेतुं धारणीं भाषिष्यन्ति ( दुत्त् 40 ) यावत् प्रशंसिष्यन्ति सत्त्वानां दुःखविपाककर्मपरिक्षयाय कुशलमूलविवृद्धये । ते ऽहमप्येतर्हि रत्नकेतुं धारणीं भाषिष्यामि । अनुमोदिष्यन्ति च दशसु दिक्षु प्रत्युत्पन्नानं तथागतानां भाषमाणानामहमिमां रत्नकेतुधारणीं वर्णयिष्यामि प्रशंसिष्यामि । यः कश्चिद् भगिनि राजा क्षत्रियो मूर्धाभिषिक्तो जनपदस्थामप्राप्तः इमां रत्नकेतुं धारणीं पुस्तके लिखित्वा धारयिष्यन्ति तस्य राज्ञः क्षत्रियस्य दशसु दिक्षू उदारः कीर्तिशब्दश्लोको ऽभ्युद्गमिष्यति । यावत् परं रूपधातुमुदारैः किर्तिशब्दैरापूरयिष्यति । अनेकानि च देवनागयक्षगन्धर्वकोटीनयुतशतसहस्राणि तस्य क्षत्रियस्य पृष्ठतः समनुबद्धा रक्षानुगुप्तये स्थास्यन्ति । सर्वे च तस्य विषये कलिकलहदुर्भिक्षरोगपरचक्रवातवृष्टिशीतोष्णदोषाः प्रशमं यास्यन्ति । सर्वे च दुष्टयक्षराक्षससिंहमहिषगजवृका अनपबाधिनो भविष्यन्ति । सर्वे विषतिक्तकटुकरूक्षविरसपरुष दुःखसंस्पर्शवेदनीया दोषाः प्रशमं यास्यन्ति । सर्वाणि चास्य धनधान्यौषधिवनस्पतयः फलपुष्पाणि प्ररोहिष्यन्ति विवर्धिष्यन्ति स्त्रिग्धानि सुरसानि च भविष्यन्ति । स चेद् राजा क्षत्रियो मूर्धाभिषिक्तः संग्रामे प्रत्युपस्थिते इमं रत्नकेतुं धारणीपुस्तकं ध्वजाग्रावरोपितं कुर्यात् स राजा क्षत्रियो मूर्धाभिषिक्तः परचक्रं पराजेष्यति । स चेदुभयो राज्ञोः क्षत्रिययोर्मूर्धाभिषिक्तयोः संग्रामाभिरूढयोर्ययो रत्नकेतुधारणीपुस्तकं ध्वजाग्रावरोपितं भविष्यति तौ परस्परं प्रीतिसामग्रीं करिष्य[तः] । ( दुत्त् 41 ) इत्येवं बहुगुणान्वया रत्नकेतुधारणी यत्र क्वचिद् ग्रामे वा नगरे वा निगमे वा मनुष्याणां वामनुष्याणां वा चतुष्पदानां व्याधितानामकालमरणं विहेठं वा स्यात् तत्रायं रत्नकेतुधारणीपुस्तको महापूजोपकरणैः प्रवेशयितव्यः । प्रवेश्य सुस्नातेन सुविलिप्तगात्रेण नवचीवरप्रावृतेन ब्रह्मचारिणा नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते सिंहासने ऽभिरुह्य तत्रायं रत्नकेतुधारणीपुस्तको वाचयितव्यः । सर्वे तत्र व्याधयो ऽकालमरणानि च प्रशमं यास्यति । सर्वाणि च तत्र भयरोमहर्षदुर्निमित्तानि अन्तर्धास्यन्ति । यः कश्चिन्मातृग्रामः पुत्रार्थी भवेत् तेन स्नात्वा नवचीवरं प्रावृत्य ब्रह्मचारिणा पुष्पगन्धमाल्यविलेपनैरिमं पुस्तकमर्चयित्वा स्वयं नानापुष्पसमीरिते नानागन्धप्रधूपिते नानारसपरिवृते आसने ऽभिरुह्येयं रत्नकेतुधारणी वाचयितव्या । पुत्रप्रतिलाभी भविष्यति । एषः [अस्य भवति अन्तिमो] मातृग्रामभावो यावदनुत्तरपरिनिर्वाणादन्यत्र स्वप्रणिधानात् सत्त्वपरिपाचनहेतो ।
[तस्मिन् काले तथागतो ज्योतिप्रभश्रीरिमां रत्नकेतुधारणीम् उदाहरत् । जलोके जलोके । मोके जलि । जल ( दुत्त् 42 ) जलिमि । जलव्रते जहिले । वर-पुरुष-लक्षणसमारुह्य । अममे वममे वममे । नवमे महासे । जहमे जहमे जहमे जहमे । वरमे वरमे । वववे । वववे । वहवे । वंगवे । वजवे । वार वारशे । जमलेख । परख । अल जहिलि । जन तुले । जन तुभुखे । वहर वहर । सिंह व्रते । नन तिला । नन तिन दाला । सूर्यविहग । चन्द्रविहग । चक्षु रज्यति शविहग । सर्वक्षयस्त्रित्वसुरविहग । जखग जखग । सुरखघ वहम । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख । अम्रिख अम्रिख । म्रिख म्रिख म्रिख । व्यवदेत कर्म । दुने दुने । उपत व्यवच्छेद् ज्ञानकृत । अनुद पदाखग । नेरुक । अङ्गुले भङ्गुले विभङ्गुले । कुलह । इन्द्रपरिविभह । व्यवच्छेद करभ । वव्रति । वव्रति । च प्रति । च प्रति । अमोह दरशने । परिवर्त भष्यु । खसम । क्रिमज्योतिखग । जहि जहि ज्योति । निष्क भिरस । भिरस । भिरस । भिरज । मतिक्रम । भिवक्रिव । महाक्रिव । हिले हिहिले । अरुणवते । समनिष्के । दमदानध्यान अपरामृशे । फलकुण्डललेख । निवर्त इस्त्रिभाव । कर्मक्षय [प्रादुर्भव पुरुषत्वम् । असमसम । समयविभिदधि]ज्ञ तथागत स्वाहा ।
समनन्तरभाषितायां शाक्यमुनिना तथागतेनास्यां रत्नकेतुधारण्यां पुनरपि महापृथिवी कम्पि[ता । पञ्चशतमारकन्यानां ( दुत्त् 43 ) सहश्रवने]न अस्या रत्नकेतुधरण्याः स्त्रीव्यञ्जनमन्तर्धाय पुरुषव्यञ्जनं प्रादुरभवत् । अप्रमेयासंख्येयानां देवनागयक्षग[न्धर्वासुरगरुडकिन्नरमहोरगराक्षस]कुम्भाण्ड-कन्यानां सहस्रवणेनास्या रत्नकेतुधारण्याः स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि प्रादुर्भूतानि । [तासां सर्वासामनुत्तरायां सम्यक्सम्बोधौ अनिवर्तनचित्तमभूत्] । सर्वासां चानागत-स्त्रीभाव-प्रतिलाभसंवर्तनीयं कर्मावरमशेसमनिरुद्वं च । ताः स्त्रियः प्राञ्जलय[स्तथागतं शाक्यमुनिं महास्वरेण प्रार्थयन्त्य] आहुः । नमो नम आश्चर्यकारकाय शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धाय । ब्रूहि महाकृपया [विस्तरेण कथमस्माकं] स्त्रीभावमन्तर्हितं सर्वाकारपरिपूर्णं पुरुषभावं सम्भूतम् । तेनाश्चर्यप्रातिहार्यसंवेगेन [वयमनुत्तरायं सम्यक्संबोधौ चित्तं जनयेम । भगवन् ब्रूहि] इमं पूर्वयोगप्रमेयासंख्येयदेवमनुष्याणामभिभवाय ।
अथ खलु भगवान् शाक्यमुनिस्तथागतः [पूर्वयोगमवोचत् । भद्रमुखामुष्मिन् काले यस्मिन् समये] ज्योतिसौम्यगन्धावभासश्रियस्तथगतस्यान्तिकाद् राज्ञ उत्पलवक्त्रस्याग्रमहिष्या ( दुत्त् 44 ) सुरसुन्दर्या देव्या सार्धं च[तुरशीतिस्त्रीसाहस्रेण सा रत्नकेतुधारणी श्रुता श्रवणमात्रेणैव] तस्याः सुरसुन्दर्याः अग्रमहिष्यास्तेषां चतुरशीतिनां स्त्रीसहस्राणां स्त्रीव्यञ्जनान्यन्तर्धाय पुरुषव्यञ्जनानि [प्रादुर्भूतानि । तथैवासंख्येयाप्रमेयाणां] देवकन्यानां यावन्मनुष्यामनुष्यकन्यानां[श्रवणमात्रेणैव] अस्या रत्नकेतुधारण्याः स्त्रीन्द्रियमन्तर्हितं पु[रुषेन्द्रियं प्रादुर्भूतम् । सर्वासां तासां स्त्री] सहस्राणामनागत-स्त्रीभाव-प्रतिलाभ-संवर्तनीयं कर्मावरणमशेषं संनिरुद्धम् । यदा च राज्ञः उत्पलवक्त्रस्याग्रमहिष्याः [सुरसुन्दर्याः सपारिषद्यायः पुरुषत्वं संजातं] तदा स राजा उत्पलवक्त्रश्चातुर्द्वीपेश्वरश्चक्रवर्ती ज्येष्ठकुमारं राज्याभिषेकेणाभिषिच्य सार्धमेकोनेन पुत्रसहस्रेण [सार्धं सुरसुन्दरेण] सार्धं चतुरशीतिभिः सुरसुन्दरमहापुरुषसहस्रैः सार्धमपरिर्द्विनवतिभिः प्राणसहस्रैरभिनिष्क्रम्य तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेवागारादनागारिकां प्रव्रजितः । प्रव्रजित्वा स्वाध्यायभिरतो योनिशं मनसिकाराभियुक्तो ऽभूत् ।
अथ तत्र बहूनां प्राणकोटीनामेतदभवत् । कस्माद् राजा चक्रवर्ती प्रव्रजितः । ते परस्परमेवमाहुः । मारकर्माभियुक्त एष तथागतः शठो मायावी मारकर्मसमायुक्तम इमं ( दुत्त् 45 ) धर्मं देशयति । केषांचित् स्त्रीव्यञ्जनमुपनामयति । केषांचित् पुरुषव्यञ्जनम् । केषाञ्चित् केशश्मश्रूण्यवतारयति । केषाञ्चिद् रक्तानि वासांसि प्रयच्छति केषाञ्चित् पाण्डुराणि । केषांचिद् देवोपपत्तये धर्मं देशयति । केषाञ्चिन्मनुष्योपपत्तये केषाञ्चित्तिर्यग्योन्युपपत्तये केषाञ्चिद् च्युत्युपपत्तये धर्मं देशयति । मारकर्मपथाभियुक्तः स्त्रीकरणमायया समन्वागतः स श्रमणो ज्योतिसोम्यगन्धावभासश्रीः श्रमणरूपेण विसंवादकः यन्नूनं वयमितः प्रक्रमेन न चास्य रूपलिङ्गग्रहणं पश्येम न चास्य किञ्चिद् वचनं शृणुयाम ।
अथ तत्रैव कुमारभृतो नाम भटः । स एवमाह । या मम भार्या अन्तःपुरिका दुहितरश्चाभूवन् सर्वासामनेन श्रमणकोरण्डकेन स्त्रीव्यञ्जनान्यपनीय पुरुषेन्द्रियाण्यभिनिर्मितानि । सर्वासां शिरांसि निर्मुण्डानि कृत्वा रक्तानि वासांसि अनुप्रदत्तानि । अहं चैकाकी शोकार्तो भूतः । एते सर्वे वयं समग्रा भूत्वा विषमं महागहनपर्वतं प्रविशामः । यत्र वयमस्य मारपाशाभियुक्तस्य श्रमणकोरण्डकस्य श्रमणमायाविनः स्वरघोषमपि ( दुत्त् 46 ) न शृणुयाम प्रागेव पश्याम इति । ते सर्वे तुष्टा एवमाहुः । एवमस्त्विति ।
अथ कुमारभृतो भटस्तैर्विचिकित्साप्राप्तैर्बहुभिः प्राणकोटीभिः सार्धं प्राक्रामत् प्रत्यन्तिमे जनपदे विषमपर्वतगहने स्व-ऋषिवेषेण चर्यां चचार । तेभ्यश्च सत्त्वेभ्यः एवं धर्मं देशयामास । नास्ति संसारान्मीक्षो नास्ति सुकृतदुष्कृतानां कर्मणां फलविपाकः । उच्छेदवादी [अयं] श्रमणः उत्पन्नो मारकर्माभियुक्तो विसंवादकः । ये च तं दर्शनायोपसंक्रमन्ति ये च तमभिवादयन्ति ये चास्य धर्मं शृण्वन्ति ते विक्षिप्तचित्ता भवन्ति । शिरांसि चैषां मुण्डयति । गृहान्निर्वासयति । रक्तानि वासांसि प्रयच्छति । श्मशानचर्यां चारयति । भैक्ष्यचर्यासु निवेशयति । एकाहारिणः करोति । विषमदृष्टिमनसो ऽनित्योद्विग्नान् विवेकवासाभिरतान्लयनप्रक्षिप्तान् कामरतिनृत्यगीतगन्धमाल्यविलेपनाभरणविभूषण-मैथुनधर्म-सुरामद्यपान-रहितानल्प-भाषिणः करोति । एवंरूपः स श्रमणवेषेणोच्छेदवादी मारपथाभियुक्तः सत्त्वानां शत्रुभूत उत्पन्नः अदृष्टश्रुतपूर्वमेतस्य श्रमणगौतमस्य क्रियोपलक्षित इति । तेन बहूनि प्राणकोटीनयुतशतसहस्राण्येवंरूपामिमां पापिकां दृष्टिं ग्राहितान्यभूवन् ।
यो वापरेण समयेन उत्पलवक्त्रो महाश्रमणो ऽश्रौषीत् कस्मिंश्चित् पर्वतगहने केचित् स्वयं कुमार्गसंप्रस्थिताः परानप्येतां विषमां दृष्टिं ग्राहयन्तः त्रयाणां रत्नानामवर्णं चारयन्तीति श्रुत्वा चास्यैतदभवत् । यावदहं तावत् सत्त्वांस्ततः पापकात् दृष्टिगतान्न परिमोक्षयेयं न च सम्यग्दृष्टौ प्रतिष्ठापयेयं निरर्थकं मे श्रामण्यं भवेत् । कथं चाहम् अनागताध्वनि अन्धभूते लोके अनुत्तरां सम्यक्संबोधिमभिसंबुध्येयम् । कथं च व्यसनगतांश्चतुर्मारपाशबन्धनबद्धान् सत्त्वान् शक्ष्यामि परिमोचयितुमिति ।
अथोत्पलवक्त्रो महाश्रमणो महादृढपराक्रमः कारुणिकस्तं ज्योतिसोम्यगन्धवभासश्रियं तथागतमवलोक्यानेकप्राणि-शत-सहस्रपरिवृतः पुरस्कृतस्तेषु तेषु प्रत्यन्तिमेषु ग्रामनगरनिगमपर्वतविषमकर्वटस्थानेषु चर्यां चरन् तत्र वा अत्र तेभ्यः सत्त्वेभ्यो धर्मं देशयामास । तान् सत्त्वान् पापकान् दृष्टिगतान् निवारयित्वा सम्यग्दृष्टौ नियोज्यानुत्तरायं सम्यक्संबोधौ प्रतिष्ठापयामास । कांश्चिदपरान् प्रत्येकबुद्धयानप्रणिधाने कांश्चित् श्रावकयाने कांश्चित् फले प्रतिष्ठापयामास । कांश्चित् प्रव्रजयामास । कांश्चिदुपासकसंवरे कांश्चिदुपवासे कांश्चित् त्रिशरणगमने प्रतिष्ठापयामास । स्त्रीभ्यश्च इमां रत्नकेतुधारणीं देशयामास । स्त्रीभावान्निवर्तयित्वा प्रतिष्ठापयामास पुरुषत्वे । याश्च तावत् ह्यश्रामण्यस्तथागतस्यान्तिके विचिकित्साप्राप्ता अभूवंस्ताः सर्वस्ततः पापकदृष्टिगतात् निवार्यात्ययं प्रतिदेशापयित्वानुत्तरायां ( दुत्त् 48 ) सम्यक्संबोधौ प्रतिष्ठापयामास । तस्यैव च ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिकमुपनीय प्रव्रजयामास स्थाप्य कुमारभृतं भटम् । तेन चैवं प्रणिधानं कृतमभूत् । यथा ममानेनोत्पलवक्त्रेण श्रमणेन पर्षदं विलोप्य नीता तथा ऽहमप्यस्यानुत्तरां सम्यक्संबोधिमभिप्रस्थितस्य तत्र बुद्धक्षेत्रे मारत्वं कारयेय यदुत गर्भस्थानात् प्रभृति एनं विहेठयेयम् । ततः पश्चाज्जातमात्रं कुमारक्रीडापरं शिल्पकर्मपठनस्थं रतिक्रीडान्तःपुरगतं यावद् बोधिमण्डसंनिषण्णं संत्रासयेयम् । विघ्नानि च कुर्याम् । बोधिप्राप्तस्य च शासनविप्रलोपं कुर्याम् ।
अथ स उत्पलवक्त्रो महाश्रमणस्तं कुमारभृतं भटमेवं प्रणिधिकृतावसायं महता कृच्छोद्योगपराक्रमैः प्रसादयित्वा ततः पापकदृष्टिगतात् प्रतिनिवर्त्यात्ययं प्रतिदेशापयित्वानुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयति स्म ।
अथ कुमारभृतभटो विनीतप्रसादः इदं प्रणिधानं चकार । यदा त्वं महाकारुणिक अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो भवेस्तदा बोधिप्राप्तो मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ ।
स्यात् खलु पुनर्भद्रमुखा युष्माकं कांक्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेनासीदुत्पलवक्त्रो नाम येन तस्य ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्य सपरिवारस्यानेकविधं पूजोपस्थानं कृतमनेकैश्च प्राणकोटीनयुतशतसहस्रैः सार्धं निष्क्रम्य प्रव्रजितः अप्रमाणानि च प्राणकोटीनयुतशसहस्राणि ( दुत्त् 49 ) ततः [पापकदृष्टि]गतान्निवारयित्वा त्रिषु यानेषु निवेशितानि । अप्रमेयः सत्त्वः फलषु प्रतिष्ठापितः । अप्रमाणश्च स्त्रीकोटीनयुतशतसहस्राणां पुरुषप्रतिलाभः कृत इति । न खलु युष्माभिरेवं द्रष्टव्यम् । अहं स तेन कालेन तेन समयेन राजाभूत् चातुर्द्वीपेश्वरश्चक्रवर्ती उत्पलवक्त्रो नाम । मया स एवंरूपः मनसिकारः कृतः । यत् खलु पुनर्युष्माकं भद्रमुखाः काङ्क्षा [वा] विमतिर्वा अन्या सा तेन कालेन तेन समयेनाभूत् सुरसुन्दरी नामाग्रमहिषी यया श्रामण्यमवाप्तम् । मैत्रेयः स बोधिसत्त्वो महासत्त्वस्तेन कालेन तेन समयेनाभूत् । स्यात् खलु भद्रमुखाः युष्माकं काङ्क्षा वा विमतिर्वान्यः स तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् सार्धं प्राणकोटीभिः । न खलु पुनर्युष्माभिरेवं द्रष्टव्यम् । अयं स मारः पापीमांस्तेन कालेन तेन समयेन कुमारभृतो नाम भटो ऽभूत् । यन्मया तत्कालं [तस्य पार्षदः] प्रव्राजितः तेन मयि प्रदोषमुत्पाद्यैवं प्रणिधानं कृतम् । यदा त्वमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः स्यास्तदा त्वं मां व्याकुर्या अनुत्तरायां सम्यक्संबोधौ । तस्यैव यू[यं कुल]पुत्रा ज्योतिसोम्यगन्धावभासश्रियस्तथागतस्यान्तिके[ऽ]प्रसादं कृत्वासंवृतवाग्भाषितं पापकं दृष्टिगतं परिगृह्य मयैव यूयं ततः पापदृष्टिगतात् परिमोच्य प्रव्राजिताः । ततः अनु[पू]र्वेण ( दुत्त् 50 ) युष्माभिर्बहूनि बुद्धसहस्राणि पर्युपासितानि । तेषां च पूजोपस्थानं कृतम् । तेभ्यश्च धर्मं श्रुत्वा प्रणिधानं कृतम् । षट्सु पारमितासु [चर्या कृता] इति । तेन यूयं कायवाङ्मनोदुश्चरिकर्मणा पूर्वं त्रिष्वपायेषु अनेककल्पदुःखान्यनुभूतवन्तः । तेनैव कर्मावरणेन एतर्हि मारस्य पापीमतो भवने उपपन्न इति । अस्मिन् खलु पुना रत्नकेतुधारणी-पूर्वयोगे भाष्यमाणे भगवता शाक्यमुनिना तथागतेन तेषां पञ्चानां मारकन्याशतानां स्त्रीभावमन्तर्धाय पुरुषभावः संवृत्तो ऽनुपत्तिकधर्मक्षान्तिप्रतिलम्भश्चाभूत् । अप्रमाणानाम् असंख्येयानां सत्त्वकोटीनयुतशतसहस्राणां सदेवमानुषायाः प्रजायाश्च अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । [ते] अवैवर्त्याश्चाभूवन् अनुत्तरायां सम्यक्संबोधौ । एवमप्रमेयासंख्येयानि सत्त्वकोटीनयुतशतसहस्राणि श्रावकप्रत्येकबुद्धयाने [ऽ]वैवर्त्यानि अभूवन् । अप्रमेयासंख्येयानां देवमानुषकन्यानां मातृग्रामभावो ऽभिनिवृत्तः पुरुषभावाश्रयप्रतिलभश्चाभूत् ।
महायानसूत्राद्रत्नकेतु-पूर्वयोगपरिवर्तो नाम द्वितीयः ॥ 2 ॥
स्तर्त् र्क्प् 3
तृतीयः परिवर्तः
अथ खलु अस्यां रत्नकेतुधारण्यां भाष्यमाणायां शाक्यमुनिना तथागतेनार्हता सर्वावतीयं सहालोकधातुरुदारेणावभासेन स्फुटाभूत् । ये चेह बुद्धक्षेत्रे कोटीशतं चातुर्द्वीपिकानां तेषु कोटीशतं कामेश्वराणां मारत्वं कारयन्ति ते बुद्धानुभावेन संविग्ना इमां चातुर्द्वीपिकां व्यवलोकयन्ति स्म । कुतो ऽयमवभासः उत्पन्नः । नूनं पापीमान् नाम मारो यस्तत्र चातुर्द्वीपिकायां प्रतिवसति तस्यैष प्रभावः यो ऽस्मत्तो बलवन्तः ईश्वरतरो महौजस्कश्च । अथ खलु ते मारा व्यवलोकयन्तो ऽद्राक्षुः तं मारं पापीमन्तं कोषागारे निषण्णं परमदुर्मनस्थम् । अथ तत् कोटीशतं माराणां येनेयं चातुर्द्वीपिका येन मारस्य पापीमतो भवनं तेनोपजगाम । उपेत्य मारं पापीमन्तमेवमाह । किं भोः कामेश्वर ! सर्वावतीयं लोकधातुरवभासिता त्वं च शोकागारं प्रविश्य निषण्णः । अथ कामेश्वरो मारः तेषां मारकोटीशतानां विस्तरेणारोचयति स्म । यत् खलु मार्षाः जानीयु[रि]हैकः श्रमण उत्पन्नः शाक्यवंशात् परमशठो मायावी । तेनोत्पन्नमात्रेण सर्वावतीयमिह लोकधातुरवभासिता प्रकम्पिता क्षोभिता । ये केचिदिह कृत्स्नलोकधातौ विद्वांसो महेन्द्रा वा नागेन्द्रा वा यक्षेन्द्रा वा सुरेन्द्रा वा महोरगेन्द्रा वा गरुडेन्द्रा वा ( दुत्त् 52 ) किन्नरेन्द्रा वा यावदन्ये ऽपि केचिन्म[नु]ष्या विद्वांसस्ते सर्वे तमुपागताः पूजाकर्मणे यावत् षड्वर्षाणि एकाक्यद्वितीयं निषद्या लक्षणां मायां साधितवान् । अहमपि स्वबलदर्शनं चिकीर्षुः एवं षट्त्रिंशत्कोटीसैन्यपरिवारः उपसंक्रम्य समन्ततो ऽनुपरिवार्य सर्वमारबलविकुर्वण-ऋद्धिबलपराक्रमं संदर्शित[वान् । पश्यैकं रोमकू]पमप्यहम् अशक्तो ऽस्मि संत्रासयितुं वा भीषयितुं वा किमङ्ग पुनस्तस्मादासनात् कम्पयितुं किंवा पुनरन्यं विघातं कर्तुमिति । अथ चैतेन वृषलेन तादृशी माया प्रदर्शिता [प्रकं]पश्च कृतः यत् ससैन्यो ऽहं पराजितश्छिन्नवृक्ष इव धरणीतले निपतितः । तेन च तत्रैव निषण्णेन तादृशी अलक्षणा माया सा[धिता ययासौ सर्वमारविषय]मेवा[भि]भूतं साधितविद्यां तस्मादुत्थाय सत्त्वेभ्यः संप्रकाशयामास । ये च केचिदिह चातुर्द्वीपिकायां लोकधातौ पण्डिता विज्ञास्तथा मा[यायां छन्दकृतस्तेषां चित्तं] प्रजानामि गत्युपपत्तिं वा षट्सु गतिषु । ये च तच्छरणगतास्तेषाम् एकरोमकूपमपि न शक्नोमि संत्रासयितुं वा संक्षोभयितुं ( दुत्त् 53 ) वा [कम्पयितुं वा] लोके पुनस्तस्माद् विसंवादयितुं वा कम्पयितुं वा शक्नुयाम् । अद्यैव च मे पञ्च परिचारिकाशतानि विंशतिश्च पुत्रसहस्राणि सगणपर्षद्यानि वृषलं गौतमं [श्र]मणं शरणं गतास्तस्य पुरतो निषण्णाः । न चाहं भूयस्तानि शक्तस्तस्माद् विवेचयितुम् । तेन हि यूयं बलवन्तः पुण्यवन्तो ज्ञानवन्तः ऐश्वर्यवन्तः [सुहृदो भ]वत । तं शाक्यपुत्रं वृषलं जीविताद् व्यपरोपयिष्यामः । ये च सत्त्वास्तच्छरणगतास्तान् सर्वान् विध्वंसयिष्यामः । कृष्णं मायाशाठ्यं श्रमणपक्षं पराजेष्यामः । [शुक्लं मारप]क्षम् उद्द्योतयिष्यामः । ततः पश्चात् सुखस्पर्शं विहरिष्यामः ।
अथ ज्योतिष्प्रभो मारः इमं जम्बुद्वीपं व्यवलोकयामास यत्र तथागतः [संनिषण्णो] धर्मं देशयति । अथ ज्योतिष्प्रभो मारो भगवतः कायमद्राक्षीत् स्वरघोषयुक्त[स्तस्य धर्मदे]शनामश्रौषीत् । अथ तावदेव तस्य रोम[हर्षणः] संत्रा[सः] उत्पन्नः । अथ स मारं पापीमन्तमेवमाह ।
कृत्स्ने क्षेत्रे ह्येष विशिष्टो वररूपः
पुण्यज्ञानी [चिरस्थितिकश्च] शुद्धः ।
चिरकालं क्लेशान्मुक्तो मार्गसुयुक्तः
सर्वे तस्य भव[क्षय] शोकविमुक्तः
मा त्वं भूयः क्रोधवशं गच्छानययुक्तम्
अग्रो ह्येष श्रेष्ठः शरण्यस्त्रिभवे ऽस्मिन् ।
यस्यास्मिन्न द्वेषलवो ऽपि प्रतिभाति
व्यामूढो ऽसौ सौख्यविनष्टो भवतीह
अथापरो मारः सन्निमिको नाम तं मारं पापीमन्तमेवमाह ।
महर्धिको ऽसौ वरपुण्यलक्षणो ह्यनाश्रितः सर्वगतिप्रमुक्तः ।
अशेष[दुःख]क्षयमार्गदेशको विहिंसितुं मारशतैर्न शक्यम्
पापीमानाह ।
वशं मदीयां जनतां कृताहि युष्मज्जनस्तस्य वशानुगो ऽयम् ।
न चिरात् स शून्यं विषयं करिष्यति अस्मद्गतिः कुत्र पुनर्भविष्यति
अथ वनराजो नाम मारः स मारं पापीमन्तमेवमाह ।
यदा तवासीत् परम समृद्धिस्तदा त्वया दर्शितमात्मसौर्यम् ।
बलप्रनष्टो ऽस्यधुना निराशः किं स्पर्धसे सर्वविदा सहाद्य
खड्गसोमो मारः प्राह ।
क्वचिन्न तस्यास्ति मनःप्रदोष वा न विशुद्ध [तिष्ठति चित्ता]शयेन ।
त्रैधातुकान्मुक्तगतिप्रचारो नासौ [परै]र्घातयितुं हि शक्यम्
पापीमानाह ।
ये सन्निषण्णा इह लोकधातौ कामप्रसक्ता मदमानमूर्च्छिताः ।
[सदा]नुवृत्ता मम किंकरास्ते कथं न शक्यं तैर्विघातयितुं समग्रैः
क्षितितोयो नाम मारः स एवमाह ।
मायामरीचिप्रतिमानसारान् भावान् परिज्ञाय विनीततृष्णः ।
भवेष्वसक्तो गगनस्वभावः शक्यं विघतः कथमस्य कर्तुम्
पापीमानाह ।
इहैव तस्यास्ति वशो त्रिलोके मिष्टान्नपानासनवस्त्रसेविनः ।
त्रिवेदना चास्य मतौ प्रतिष्ठिता क्षयं प्रणेतुं न कथं हि शक्यम्
तृष्णञ्जहो नाम मारः स एवमाह ।
या ऋद्धिरस्मिन् विषये ऽस्ति काचित् पापीमतां चैव महोरगाणाम् ।
सिद्धार्थ-ऋद्धेर्न कलां स्पृशन्ति क्षयं प्रणेतुं च कथं हि शक्यम्
पापीमानाह ।
भक्तच्छेदो मयास्य हि कारितस्तच्छिला पुनः क्षिप्ता ।
उक्तास्तथा क्रोशा आश्रमात् कम्पितो ऽपि सः
बोधाक्षो नाम मारः स एवमाह ।
यदा त्वया तस्य कृतो विघातः कश्चित् प्रदोषः कुपितेन तेन ।
संदर्शितस्ते भृकुटीमुखे वा किं तस्य साक्षात् [कु]वचः श्रुतं ते
पापीमानाह ।
प्रतिसंख्यया सो क्रमते च नित्यं प्रहीणरागो गतदोषमोहः ।
सर्वेषु सत्त्वेषु स मैत्रचित्तः संसर्गचर्या पुनरस्य नित्यम्
दुर्धषो नाम मारः स एवमाह ।
ये च त्रिसंयोजनपाशबद्धास्तेषां विघाताय वयं यतेम ।
स तु प्रहीणामयमोहपाशः क्षयं प्रणेतुं च कथं हि शक्यम्
पापीमानाह ।
यूयं मम प्राप्तबलाः सहायाः सद्यो भवन्तो भवताप्रमत्ताः ।
अपो ऽधितिष्ठामि महीमशेषां सर्वा दिशः पर्वतमालिनी च
गगनात् प्रचण्डं घनशैलवर्षं समुत्सृजाम्यायसचूर्णराशिम् ।
नाराचशक्तिक्षुरतोमरांश्च क्षिपामि काये ऽस्य विचूर्णनार्थम् ।
एभिः प्रयोगैरभिघातदीप्तैस्तं स्थाक्यसिंहं प्रकरोमि भस्म
पेयालम् । यावन्मारकोटीभिर्गाथाकोटी भाषिंता इति ।
अथ सर्वे माराः एककण्ठेनैवमाहुः । एवमस्तु । गमिष्यामः स्वकस्वकेभ्यो भवनेभ्यः । सन्नाहं बद्ध्वा ससैन्यसपरिवाराः आगमिष्यामो यदस्माकम् ऋद्धिबलविषयं तत्सर्वमादर्शयिष्यामः । अथ त्वं स्वयमेव ज्ञास्यसे यादृशं शौर्यं स श्रमणो गौतमस्तत्क्षणे प्रदर्शयति ।
अथ ता मारकोट्यः स्वभवनानि गत्वा सन्नाहबन्धं कृत्वा एकैको मारकोटीसहस्रपरिवारो विविधानि वर्माणि प्रावृत्य नानाप्रहरणयुक्तो विविधसन्नाहसंनद्धस्तस्यामेव रात्रया[म]त्ययेनेमं जम्बुद्विपमनुप्राप्तः । अङ्गमगधसन्धौ गगनस्था यावदेवास्मिंश्चातुर्द्वीपिके देवनागयक्षगन्धर्वासुरगरुडकिन्नर-महोरग-प्रेत-पिशाच-कुम्भाण्डा भगवतो ऽन्तिके अप्रसन्नचित्ता अलब्धगौरवमनस्कारा धर्मे संघे चाप्रसन्नचित्तास्ते सर्वे मारेण पापीमता भगवतो ऽन्तिके वधाय उद्योजिताः । ते ऽपि नानाप्रहरणवर्मप्रावृतास्तत्रैव तस्थुः । मारो ऽपि पापिमान् अनुहिमवतः पार्श्वं गत्वा यत्र ज्योतीरस ( दुत्त् 59 ) ऋषिः प्रतिवसति महेश्वरभक्तिकः अष्टादशसु विद्यास्थानेषु ऋद्धिविषयपारमिप्राप्तः पञ्चशतपरिवारस्तस्य महेश्वररूपेण पुरतः स्थित्वैवमाह ।
नियतं गौतमगोत्रजो ऋषिवरो विज्ञातो ऽभिज्ञाश्रितो
मगधे संवसतीह सो ऽद्य चरती पिण्डाय राज्ञोर्गृहम् ।
तेन त्वं सह संलपस्व विशदं नानाकथाभिः स्थिरः
तत्रैव त्वमप्येव पञ्च नियतं प्राप्स्यस्यभिज्ञावशिम्
अथ मारः पापीमानिमां गाथां भाषित्वा तत्रैवान्तर्हितः । स्वभवनञ्च गत्वा स्वपार्षद्यानां माराणामारोचयति स्म ।
मत्तो भोः शृणुताद्य यादृगतुला बुद्धिर्मया चिन्तिता
स्वैरं शाक्यसुतं समालपयत ऋद्धिप्रभावान्वितम् ।
तां मायां न विदर्शयेत् स्वविषयां मारोरुदर्पो महान्
नित्यं स्निग्धवचः स शिष्यनियतो मातेव पुत्रेषु च
शिष्यास्तस्य हि ये प्रहीण[प्र]मदाश्चर्यां चरन्ति ध्रुवं
पूर्वाण्हे नगरं क्रमेण निभृतं स्वैरेण तावद्वयम् ।
गृण्हीमो द्रुत नृत्यगीतमधुरप्राधान्यभावैर्यथा
श्रुत्वैतां प्रकृतिं मनोविरसतां यायात् स शाक्यर्षभः
अपरो मार एवमाह ।
सिंहव्याघ्रगजोष्ट्रचण्डमहिषाः क्षिप्रं पुरस्यास्य हि
प्रावृण्मेघनिनादिनः खररवान्निर्मीय नैकान् बहिः ।
तिष्ठेमो वयमायुधप्रहरणाः साक्षात् स दृष्ट्वाद्भुतान्
भ्रान्तो ऋद्धिमपास्य यास्यति ततो नानादिशो विस्मृतः
अपरो मारः प्राह ।
वीथीचत्वरतोरणेषु बहुशः स्थित्वा विरूपैर्मुखैर्
नानाद्यायुधतीक्ष्णतोमरशरप्रासासिखड्गाश्रितैः ।
आकाशाद् घनरावसुप्रहरणैर्मेघाशनिं मुञ्चतः
क्षिप्रं स सभयं प्रयास्यति ततो भूकम्पहेतोर्वशम्
विस्तरेण यथासौ माराणां मारबलविषयविकुर्वतां सर्वे तथैवाचक्षुः ।
भगवांश्च पुनः सर्वावतीमिमां त्रिसाहस्रमहासाहस्रीं लोकधातुं वज्रमयीमध्यतिष्ठत् । न च पुनर्भूयो मारा रावांश्चक्रुर्न चातुर्दिशमग्निपर्वतास्तस्थुः । न कृ[ष्णा]भ्रा नाकालवायवो न च कश्चिन्नागो ऽभिप्रवर्षति स्म अन्तशः एकबिन्दुरपि बुद्धबलाधिष्ठानेन ।
तेन खलु पुनः समयेन चत्वारो महाश्रावकाः पूर्वाण्हे निवास्य पात्रचीवरमादाय राजगृहं महानगरं पिण्डाय प्रविविशुः । आयुष्मान् शारिपुत्रो दक्षिणेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्रविवेश । तत्र च नगरे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महत्मवेषसदृशा नृत्यन्तो गायन्तः संचेरुः । ते आयुष्मन्तं शारिपुत्रमुभाभ्यां पाणिभ्यां गृहीत्वा वीथ्यां धावन्ति स्म नृत्यन्तो गायन्तः शारिपुत्रमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । शारिपुत्र आह । शृणुत यूयं मार्षाः स्वयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । ते च सव मारकुमारका धावन्तो गीतस्वरेण सह शारिपुत्रेणैवमाहुः ।
अलमेव हि आयतनेहि वञ्चिता वयमायतनेहि ।
आघतनानि हि आयतनानि अन्तु करोम्यहु आयतनानाम्
अलमेव हि स्कन्धकृतेहि वञ्चिता वयं स्कन्धकृतेहि ।
आघतनानि हि स्कन्धकृतानि अन्तु करोम्यहु स्कन्धकृतानाम्
तद्यथा । वहर वहर । भारवह मरीचिवह । सद्यवह अमवह । स्वाहा ॥
स्थविरः शारिपुत्रो धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनस एवमाहुः ।
क्षमापयामो वयमद्य नाथं त्वामेव बन्धुं जगतः सुदेशिकम् ।
स्कन्धा यथा ते सभयाः प्रदिष्टाः तव वयं साक्षिण एषु नित्यम्
सर्वे च ते शारिपुत्रस्य वीथीमध्ये पादौ शिरसाभिवन्द्य पुरतो निषेदुर्धर्मश्रवणाय ।
अथ खल्वायुष्मान् महामौद्गल्यायनः पूर्वेण नगरद्वारेण राजगृहे महानगरे पिण्डाय प्राविशत् । तथापि पञ्चाशन्मारकुमारका यावद् गीतस्वरेणैवाहुः ।
अलमेव हि धातुमयेहि वाञ्चिता वयं धातुमयेहि ।
आघतनानि हि धातुमयानि अन्तु करोम्यहु धातुमयानाम्
अलमेव हि वेदयितेहि वञ्चिता वयं वेदयितेहि ।
आघतनानि हि वेदयितानि अन्तु करोम्यहु वेदयितानाम्
अलमेव हि चेतयितेहि वञ्चिता वयं चेतयितेहि ।
आघतनानि हि चेतयितानाम् अन्तु करोम्यहु चेतयितानाम्
अलमेव हि संज्ञाकृतेहि वञ्चिता वयं संज्ञाकृतेहि ।
आघतनानि हि संज्ञाकृतानि अन्तु करोम्यहु संज्ञाकृतानाम्
अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि ।
आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम्
तद् यथा । आमव आमव आमव । आरज रणजह । शम्यथ शम्यथ शम्यथ । गगनपम स्वाहा ॥
धावन् गीतस्वरेण आयुष्मान् महामौद्गल्यायनो मारपुत्रेभ्यः इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः ।
ऋद्ध्यान्वितेर्यापथगुप्तमुनीन्द्रसूनुः संसारदोषसमदर्शक-धर्मदीपः ।
पापं प्रहाय वयमादरभक्तिजाता बुद्धं गताद्य शरणं वरधर्मसंघम्
सर्वे ते पञ्चाशान्मारकुमारका वीथीमध्ये आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसाभिवन्द्य तस्यैव पुरतो निषेदुर्धर्मश्रवणाय ।
अथायुष्मान् पूर्णो मैत्रायणीपुत्रः उत्तरेण नगरद्वारेण पिण्डाय प्राविशत् । यावद् वीथ्यां धावमानो गीतस्वरेणैवमाह ।
अलमेव हि स्पर्शकृतेहि वञ्चिता वयं स्पर्शकृतेहि
आघतनानि हि स्पर्शकृतानि अन्तु करोम्यहु स्पर्शकृतानाम्
अलमेव हि आघिपतेहि वञ्चिता वयम् आधिपतेहि
आघतनानि हि आधिपतीनि अन्तु करोम्यहु आधिपतोनाम्
अलमेव हि संसरितेहि वञ्चिता वयं संसरितेहि ।
आघतनानि हि संसरितानि अन्तु करोम्यहु संसरितानाम्
अलमेव हि सर्वभवेहि वञ्चिता वयं सर्वभवेहि ।
आघतनानि हि सर्वभवानि अन्तु करोम्यहु सर्वभवानाम्
लघु गच्छति आयु मार्षा सलिला शीघ्रजवेन वेगिनी ।
न च जानति बालिशो जनो अबुधो रूपमदेन मत्तकः
पेयालाम् ।
अबुधः शब्दमदेन मत्तकः
अबुधो गन्धमदेन मत्तकः
अबुधो रसमदेन मत्तकः
अबुधः स्पर्शमदेन मत्तकः
लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी ।
न च पश्यति बालिशो जनो अबुधो धर्ममदेन मत्तकः
अबुधः स्कन्धमदेन मत्तकः
अबुधो धातुमदेन मत्तकः
अबुधो भोगमदेन मत्तकः
अबुधः सौख्यमदेन मत्तकः
अबुधो जातिमदेन मत्तकः
अबुधः काममदेन मत्तकः
लघु गच्छति आयु मार्षाः सलिला शीघ्रजवेन वेगिनी ।
न च जानति बालिशो जनो अबुधः सर्वमदेन मत्तकः
तद्यथा । खर्गव खर्गव खर्गव । मुन विज्ञानि । आवर्त विवर्त खबर्त । ब्रह्मार्थ ज्योतिवर्त स्वाहा ॥
अथायुष्मान् पूर्णो धावन् गीतस्वरेण मारपुत्रेभ्य इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नमनसः एवमाहुः ।
त्वयोपदिष्टः खलु शान्तिमार्गो मायामरीचिप्रतिमाश्च धातवः ।
संकल्पमात्र-जनितो वत जिवलोको रत्नत्रयं हि शरणं वरदं व्रजामः
सर्वे ते पञ्चाशन्मारकुमारका आयुष्मतः पूर्णस्य पादौ शिरसाभिवन्द्य वीथीमध्ये तस्य पुरतो निषण्णा धर्मश्रवणाय ।
तेन च समयेन आयुष्मान् सुभूतिः पश्चिमेन नगरद्वारेण राजगृहं महानगरं पिण्डाय प्राविशत् । तत्र च नगरद्वारे पञ्चाशन्मारकुमारकाः परमयौवनसुरूपा महात्मपुत्रवेषधारिणो नृत्यन्तो गायन्तो विचेरुः । ते आयुष्मन्तं सुभूतिमुभाभ्यां पाणिभ्यां गृह्य वीथ्यां धावन्तः आयुष्मन्तं सुभूतिमेवमाहुः । नर्तस्व श्रमण गायस्व श्रमण । सुभूतिराह । शृणुत मार्षा यूयम् । अश्रुतपूर्वां गीतिकां श्रावयिष्यामि । सर्वे चाल्पशब्दा अभूवन् । धावन् गीतस्वरेण आयुष्मान् सुभूतिरेवमाह ।
अनित्य सर्वभाव माय-बुद्बुदोपमा
न नित्यमस्ति संस्कृते क्वचिच्चलात्मके यथा ।
मरीचि दृष्टमेव यथा नास्ति तत्र शाश्वतं
लघु व्ययो हि सर्व धर्म बुद्धिमान् प्रजानते
सर्वे स्पर्शदुःखभारवेदना निरात्मिका
यत्र प्रसक्त सर्वे बाल दुःखधर्मपिडिताः ।
मित्रं न कश्चिदस्ति सर्वदुःखमोचका
यथा हि श्रद्धा बोधिमार्ग भावना च सेविता
एकपक्ष सर्वधर्म संज्ञा वर्जिता शुभा
निरात्मयोग सर्वचर्य द्रव्यलक्षणात्मिका ।
न जीवपोषपुद्गलो ऽपि कारको न विद्यते
विज्ञात्व मायाशाठ्य बोधिचित्त नामय
विज्ञान वर्ततेन्द्रियेषु विद्युता यथा नभे
अनात्मकाश्च सर्वे स्पर्शवेदनापि चेतना ।
योनिशो निरीक्ष्य किंचिदस्ति नैव द्रव्यता
संमोहितो हि बालवर्गो यन्त्रवत् प्रवर्तते
स्कन्ध सर्वे योनिशो विभाव्य कारको न लभ्यते
भूतकोटि शान्त शून्य सर्व अन्तवर्जिता ।
अमोहधर्मतैष उक्त बोधिमार्गचारिका-
नयेहि नायकेन बोधिप्राप्ततायिना
तद्यथा । सुमुन्दे विमुन्दे सुन्दजहि । सिलि सिलि । सिलि सिलि । अवहसिलि [अवह]सिलि । तथात्वसिलि भूतकोटिसिलि स्वाहा ॥
अथायुष्मान् सुभूतिर्धावन् गीतस्वरेण इमा गाथा इमानि च मन्त्रपदानि भाषते स्म । अथ ते पञ्चाशन्मारकुमारकाः परमहृष्टाः सुप्रसन्नसनसः एवमाहुः ।
अश्रुत्वा हीदृशान् धर्मान् पापमित्रवशानुगैः ।
यत् कृतं पापकं कर्म [मोहेनाज्ञानतस्तथा]
प्रतिदेशय तच्चैव वयं साक्षाज् जिनात्मजाः
प्रणिधानं शुभं कुर्मो बुद्धत्वाय जगद्धिते
सर्व ते पञ्चाशन्मारकुमारका आयुष्मतः सुभूतेः पादौ शिरसा वन्दित्वा तस्यैव पुरतो वीथीमध्ये निषेदुर्धर्मश्रवणाय ।
तेन खलु पुनः समयेन सा वीथी बुद्धानुभावेन योजनशतविस्तीर्णावकाशं संदृश्यते स्म । तत्र च वीथीमध्ये स्थविर शारिपुत्रः उत्तरामुखो निषण्णः । महामौद्गल्यायनः पञ्चिमामुखो निषण्णः । पूर्णो दक्षिणामुखः । सुभूतिः पूर्वामुखः । परस्परमर्धयोजनप्रमाणेन तस्थुः । तेषां च चतुर्णां महाश्रावकाणां मध्ये पृथिवीप्रदेशे पद्मं प्रादुरभूत् पञ्चाशद्धस्तविस्तारं ( दुत्त् 69 ) जाम्बूनदमयेन दण्डेन नीलवैडूर्यमयैः पत्रैः श्रीगर्भमयेन केसरेण मुखामयया कर्णीकया । ततश्च पद्मान्महानवभासो ऽभवत् । तस्यां च वीथ्यां तत्पद्मं त्रिपौरुषम् उच्चत्वेन संदृश्यते स्म यावच्चातुर्महाराजकायिकेषु देवेषु तत्पद्मं दिव्यानि पञ्चाशद् योजनानि उच्चत्वेन संदृश्यते स्म । त्रायस्त्रिंशत्सु तत्पद्मं योजनशतमुच्चत्वेन संदृश्यते स्म यावदकनिष्ठेषु देवेषु तत्पद्मम् अर्धयोजनमुच्चत्वेन संदृश्यते स्म । तस्य च पद्मस्य पत्रेभ्यो नानार्थपदाः श्लोका निश्चेरुः । ये सत्त्वा इह भूमिस्थितास्ते इमान् श्लोकान् शुश्रुवः ।
एकः पुद्गल उत्पन्नो बुद्धक्षेत्रे इहानघः ।
निहतो मार एकेन ससैन्यबलवाहनः
एकेन बुद्धवीर्येण धर्मचक्रं प्रवर्तितम् ।
एकाकीह जगद्धेतोराया[तो हि] न संशयः
विद्वांसौ बहुनीतिशस्त्रकुशलौ धर्मार्थमोक्षार्थिकौ
नीतिज्ञौ उपतिष्यकौलितवरौ शास्त्रे विनीताविह ।
विद्वान् सर्वजगद्धितार्थकुशलः सद्धर्मवादी महान्
नेष्यत्यद्य स सर्वलोकमहितो वादिप्रधानो मुनिः
त्रयध्वज्ञानसुदेशकः श्रमणराट् शिक्षात्रयोद्भावक-
स्त्राता वै सनरामरस्य जगतो धर्माप्रमेयार्थवित् ।
लोकस्याथ हितप्रचारकुशलो ज्ञानप्रदीपो महान्
सद्वादी त्रिमलप्रहीण इह सो अद्यैव संगास्यति
लोकार्थमभ्रान्तमतिश्चचार दुःखार्दितं सर्व जगद् विमोचयन् ।
अविद्यया नीवृतलोचनानां सद्धर्मचक्षुः प्रददौ यथावत्
सर्वावतीयं परिषत् समागता न चिरादिहायास्यति वादिसिंहः ।
परमार्थदर्शी परमं सुरूपो बलैरुपेतो हि परापरज्ञः
दृष्ट्वा जगद्दुःखमहार्णवस्थम् आहन्तुमायास्यति धर्म[भेरीम्] । षडिण्द्रियैरुत्तमसंवरस्थः [षडाश्रयश्च षड]भिज्ञकोविदः
षट्पारधर्मोत्तमदेशनायै षड्बीज आयास्यति वादिसिंहः ।
षडिन्द्रियग्रा[मविहेठनाय] षडुत्तमार्थ स्मृति सारथेन्द्रः
मूल पाठ: Mahāsaṃnipātaratnaketudhāraṇīsūtra, 1-6, 10-11 · Edition: Nalinaksa Dutt: Gilgit Manuscripts Vol IV, Calcutta 1959 (reprint: Delhi : Sri Satguru Publications, 1984), pp. 1-138 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0