भाषा

ENहिગુ
ग्रंथ पाठ

महासंनिपातरत्नकेतुधारणीसूत्र · अध्याय 4

4.1

यावत् षट्सु कामावचरेषु देवेषु ततः पद्मादिमा गाथा निश्चेरुः ।
यूयं समग्रा रतिमद्य भुंजथ प्रमत्तचित्ता मदतृष्ण[सं]रताः ।
सदा विमूढा रतिपानमत्ता न पूजयध्वं सुगतं प्रमादात् ॥ र्क्प्_3.64(="63") ॥
कामाननित्यो दकचन्द्रसन्निभः संसारपाशो ऽतिदृढः प्रजायाः ।
अनिःसृतानां रतिषु प्रमादिनां न निर्वृतो वा तु पुनर्भविष्यति ॥ र्क्प्_3.65(="64") ॥
सदा प्रमत्ता न शमाय युक्ता न पश्यत प्राक्सुकृतं शुभाशुभम् ।
जरा-रुजा-मृत्युभयैः परीता अपायभूमिप्रसृताश्च यूयम ॥ र्क्प्_3.66(="65") ॥
दानं दमं संयममप्रमादं निषेवत प्राक्सुकृतं च रक्षत ।
उत्सृज्य कामानशूचिननन्ता- नुपसंक्रमध्वं सुगतं शरण्यम् ॥ र्क्प्_3.67(="66") ॥
गत्वा च तस्माद् वचनं शृणुध्वं सुभाषितं तद्धि महार्थिकं वचः ।
प्रज्ञा-विमुक्तिः प्रशमाय हेतुः सद्धर्मयुक्तं श्रवणं महार्थम् ॥ र्क्प्_3.68(="67") ॥
यावत् षोडशसु देवनिकायेषु तस्य पद्मस्य पत्रेभ्यः इमा एवंरूपा गाथा निश्चेरुः ।
धर्मं प्रयत्नेन विभावयध्वं समाहित-ध्यानरता अनङ्गनाः ।
अभ्रान्तचित्ताश्च विमोक्षकाङ्क्षिणो द्वेषप्रहाणाय मतिं कुरुध्वम् ॥ र्क्प्_3.69(="68") ॥
त्रयोदशाकार-निमित्त-दीपिकां विभावयध्वं परमां हि क्षान्तिम् ।
अथैव चाप्यत्र विमोक्षमाशु संप्राप्स्यथ व्याधिजरावियुक्तम् ॥ र्क्प्_3.70(="69") ॥
शाश्वत ये रूपविकल्पसंज्ञके नित्यं ध्रुवात्मस्थिरभावदृष्टयः ।
तेषां च जन्म[जरयोर]हानि- रपायभूमिप्रवणा हि ते वै ॥ र्क्प्_3.71(="70") ॥
त्रैधातुकं वीक्ष्य सदा निरात्म- मद्रव्यमस्वंवशकं निरीहम् ।
क्षान्तिं विभावेन्ति य आनुलोमिकीं भवन्ति ते सर्वि गतिप्रमुक्ताः ॥ र्क्प्_3.72(="71") ॥
तेषां न मृत्युर्न जरा न रोगो न दुर्गतिर्नाप्रियसंप्रयोगः ।
आकाशतुल्यानिह सर्वधर्मान् ये भावयन्ते व्ययभावयुक्तान् ॥ र्क्प्_3.73(="72") ॥
अत्यन्तशुद्धो हि वरः स मार्गो येषामसङ्गं मन-इन्द्रियेषु ।
मारान् विधुन्वन्ति चतुष्प्रकारान् यथाह्ययं संप्रति शाक्यसिंहः ॥ र्क्प्_3.74(="73") ॥
एकं नयं ये तु विभावयन्ति निष्किञ्चनं सर्वनिमित्तवर्जितम् ।
द्वयप्रहाणाय विनीतचेष्टा तेषामयं मार्गवरः प्रणीतः ॥ र्क्प्_3.75(="74") ॥
विभाव्य शून्यानिह सर्वधर्मान् अस्वामिकानकारकजातिवृत्तान् ।
स्पृशन्ति बोधिं गगनस्वभावां निरुत्तमां प्रार्थनया विवर्जिताम् ॥ र्क्प्_3.76(="75") ॥
एभिरेवंरूपैरर्थपदधर्मशब्दैर्निश्चरद्भिर्य इह लोकधातौ मनुष्यामनुष्यास्ते समागम्य वीथीमध्ये समन्तास्तस्य पद्मस्य निषेदुः । यावदप्रमेयासंख्येया अकनिष्ठा देवा अकनिष्ठाभवनादवतीर्य ते पद्मस्य समन्ततो न्यषीदन् धर्मश्रवणाय । अश्रौषीन्मारः पापीमानेतान् श्लोकान् । समन्ततश्च व्यवलोक्य अद्राक्षीत् राजगृहे महानगरे वीथिमध्ये पद्मम् । ततश्चेमे श्लोकाः निश्चेरुः । तदा पद्मं परिचार्य अप्रमेयासंख्येयानि मनुष्यकोटीनयुतशतसहस्राणि सन्निषण्णानि धर्मश्रवणाय ।
अथ खलु मारः पापीमान् ऊर्द्ध्वं व्यवलोकितवान् । अद्राक्षीत् षट्सु कामावचरेषु देवेषु सर्वत्र देवभवने तत्पद्मम् । तदेव चानुपरिवार्य अप्रमेयासंख्येयानि देवकोटीनयुतशतसहस्राणि [सन्निषण्णानि] धर्मश्रवणाय ।
अथ भूयस्या मात्रया मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी संहृष्टरोमकूपः प्रखिन्नगात्रः संप्रकम्पितशरीरो गगने प्रधावन् महता स्वरेण परान् मारान् प्रक्रोशन्नेवमाह ।
शृणु गिरि मम इमा समवहितमना न मे वशो स्वविषये न च बलमिह मे ।
इदमिह मुनिबलमतिगुणविशदं प्रसरति जगति स्थिरजनकरणम् ॥ र्क्प्_3.77(="76") ॥
कमलमिहोदयति नरमरु ल्हादयितुमुपगत निखिउलतो सुजननियता ।
परितृषित सुगतसुवचननिरता व्रजति हि शमथपथमतिगुणपरमा ॥ र्क्प्_3.78(="77") ॥
मायेयं श्रमण प्रवर्तत इह त्रैलोक्यसंमोहने
सर्वे ऽनन्यमना नरामरगणाः पद्मं वितत्य स्थिताः ।
क्षिप्रं मुञ्चत शैलवृष्टिमधुना भीष्मस्वरं राविणो
गच्छेन्नाशमयं यथाद्य निहतो मारो ऽग्रसिन्यायुधैः ॥ र्क्प्_3.79(="78") ॥
अथापरो मारः पापीमन्तमेवमाह ।
शृण्वस्माकमिदं वचो हितकरं विज्ञातधर्मो ऽसि किं
यत् पश्यन्निह मरसैन्यविलयं नायासि शान्ति ततः ।
भ्रान्ताः स्म असमीक्ष्य सौगतमिदं तेजोवपुः श्रीघनं
रूपं नान्यदिहोत्तमं सुशरणं बुद्धादृते नायकम् ॥ र्क्प्_3.80(="79") ॥
अथापरो मारः प्ररुदन् परमक्रोधाविष्टवचनो मारं पापीमन्तमेवमाह ।
कुमार्गसंप्रस्थित मार्गहीन प्रजानसे न स्वबलं न शक्तिम् ।
न लज्जसे ऽपत्रपसे न चैव यस्त्वं सह स्पर्धसि नायकेन ॥ र्क्प्_3.81(="80") ॥
अस्मब्दलैर्यद्विलयं प्रयातं बुद्धस्य शक्त्या तु जगत् समग्रम् ।
उपागमत् पद्मसमीपमाशु धर्मश्रवाप्यायितशुद्धदेहः ॥ र्क्प्_3.82(="81") ॥
वयं तु वीभत्सतराः प्रयाता दुर्गन्धकाया बलवीर्यनष्टाः ।
यावन्न याता विलयं क्षणेन तावद् व्रजामः शरणं मुनीन्द्रम् ॥ र्क्प्_3.83(="82") ॥
अथापरे माराः कृताञ्जलय एवमाहुः ।
पापीमंस्त्वमपेतधर्मचरणः पापक्रियायां रतो
नाथो ह्येष जगद्धितार्थकुशलो बुद्धः सतामग्रणीः ।
आयामो नगरं द्रुतं वयमिह प्रीतिप्रसन्नेक्षणाः
गच्छामः शरणं त्रिलोकमहितं सर्वौषधं प्राणिनाम् ॥ र्क्प्_3.84(="83") ॥
अथ तत्रैव गगनघोषवतिर्नाम मारः स उच्चस्वरेणैवमाह ।
सव यूयं समग्राः शृणुत मम वचो भक्तितः प्रीतियुक्ताः
पापाद् दृष्टिं निवार्य प्रणततनुमनोवाक्समाचारचेष्टाः ।
त्यक्तक्रोधाः प्रहृष्टमुनिवरवचनाः स्फीतभक्तिप्रसादा
गत्वा बुद्धं समक्षं शरणमसुलभं पूजयामो ऽद्य भक्तया ॥ र्क्प्_3.85(="84") ॥

अथ तत्क्षणमेव सर्वे मारा गगनतलादवतीर्य राजगृहनगरद्वाराणि सप्तरत्नमयानि चक्रुः । केचिन्मारचक्रवर्तिराजवेषमात्मानमभिनिर्मीय भगवतः पूजापरास्तस्थुः । केचिद् ब्रह्मवेषं केचिद्वशवर्तिवेषं केचिन्महेश्वरवेषं केचिन्नारायणवेषं केचित्तुषितवेषं केचिद् यमवेषं केचिच्छक्रवेषं केचित्त्रयस्त्रिंशद्वेषं केचित् कुमारवेषं केचिद् वैश्रवणवेषं केचिद् विरूढकवेषं केचिद् विरूपाक्षवेषं केचिद् धृतराष्ट्रवेषं केचित् प्राकृतचतुर्महाराजवेषं केचित् सूर्यवेषं केचिच्चन्द्रवेषं केचित्तारकवेषं केचिदसुरवेषं केचिद् गरुडवेषं केचित् किन्नरवेषं केचिन्महोरगवेषं केचिद् रत्नपर्वतवेषं केचित् निष्कवेषं केचिन्नानारत्नवेषं केचिद् रत्नवृक्षवेषं केचित् क्षत्रियवेषं केचिदन्यतीर्थिकवेषं केचिच्चक्ररत्नवेषं केचिन्मणिरत्नवेषं केचिदैरावणवेषं केचिद्वलाहकराजवेषं ( दुत्त् 78 ) केचित् स्त्रीरत्नवेषं केचित् श्रेष्ठिमहारत्नवेषम् आत्मानमभिनिर्मीय तस्थुर्भगवतः पूजाकर्मणे । केचिन्नीला नीलवर्णाः श्वेतवर्णालङ्कारालंकृतमात्मानमभिनिर्मीय भगवतः पूजाकर्मणे लोहितान् छत्रध्वजपताकामुक्ताहारान् धारयन्तस्तालप्रमाणामात्रमुच्चत्वेन गगनतले तस्थुः । केचिदवदाता अवदातवर्णा मञ्जिष्ठवर्णाभरणविभूषणाः पीतान् छत्रध्वजपताकान धारयन्तस्तस्थुः । केचिन्मञ्जिष्ठा मञ्जिष्ठवर्णाः सुवर्णाभरणविभूषणा नीलान् छत्रध्वजपताकान् धारयन्तस्तस्थुः । केचिल्लोहिता लोहितवर्णाः श्वेतमुक्तवर्षं ववर्षुः । केचित् श्वेताः श्वेतवर्णाः लोहितमुक्तवर्षं ववर्षुः । केचिद्देवर्षिवर्णमात्मानमभिनिर्मीय गगनात् पुष्पवर्षम् अभिप्रवर्षुः । केचिद् भगवतः श्रावकवेषमात्मानमभिनिर्मीय नानादिव्यगन्धवर्षं गगनाद्ववर्षुः । केचिद् गन्धर्ववर्णा नानादिव्यतूर्याणि पराजघ्नुः । केचित् अमरकन्यावर्णा नानारत्नभाजनेषु गन्धोदकं धारयन्तः पृथिवीं सिषिञ्चुः । केचित् कालकृष्णवर्णाः गन्धान् प्रधूपयामासुः । केचिद्देवपुत्ररूपेण नृत्यगीतस्वरान् मुमुचुः । केचिन्नानावर्णा येन भगवांस्तेन प्राञ्जलयो भगवन्तं तुष्टुवुः । केचिन्माराः मारपार्षद्या अपि यस्यां दिशि भगवांस्तदभिमुखा नानाविधानि मणिरत्नानि दधिरे भगवतः पूजाकर्मणे । केचिद् वीथीगृहशरणगवाक्षोरणहर्म्य-चत्वरशृङ्गाटककूटागार-द्वार-वृक्षविमानेषु ( दुत्त् 79 ) स्थित्वा प्राञ्जलयो निषेदुः भगवत पूजाकर्मणे ।
अथ स मारो यदा अद्राक्षीत् सर्वांस्तान् मारान् सपरिवारान् श्रमणगौतमं शरणं गतान् तदा भूयस्या मात्रया क्षूब्धस्त्रस्तो भ्रान्तः प्ररुदन्नेवमाह ।
न भूयो मे सहायो ऽस्ति नष्टा श्रीर्मे ऽद्य सर्वतः ।
भ्रष्टो ऽस्मि मारविषयात् कुर्यां वीर्यं हि पश्चिमम् ॥ र्क्प्_3.86(="85") ॥
मूलं छिन्द्यामहं पद्मं सत्त्वा येन दिशो ऽव्रजन् ।
छेदात् पद्मस्य संभ्रान्ता एतत् स्यात् पश्चिमं बलम् ॥ र्क्प्_3.87(="86") ॥
इति संचिन्त्य मारः पापीमान् वायुवदवतीर्य गगनाद् येन तत्पद्मं वीथीगतं तेन प्रसृत्य तत्पद्ममादण्डादिच्छति ऊद्धर्तुं स्प्रष्टुमपि न शशाक । पत्राणि छेत्तुमिच्छति न च तानि ददर्शुः । पद्मकर्णिकामपि पाणिना पराहन्तुमिच्छति तामपि नैव लेभे । तद् यथा विद्युद् दृश्यते न चोपलभ्यते । तद् यथा वा छाया दृश्यते न चोपलभ्यते । एवमेव तत् पद्मं दृश्यते न चोपलभ्यते ।
यदा च मारः पापीमान् तत् पद्मं ददर्श न चोपलेभे न पस्पर्श अथ पुनः सर्वपर्षत् संत्रासनार्थम् उच्चैः महाभैरवं स्वरं मोक्तुमिच्छति तदपि न शशाक । न पुनर्महाबलवेगेन उभाभ्यां पाणिभ्यामिच्छति महापृथिवीं पराहन्तुं कम्पयितुं तदपि स्प्रष्टुं न शशाक नैवोपलेभे । तद् यथापि नाम कश्चित् ( दुत्त् 80 ) आकाशमिच्छेत् परामर्ष्टुं न च उपलभते । एवमेव मारः पापीमान् ददर्श पृथिवीं न च पस्पर्श नोपलेभे । तस्यैतदभवत् । यत्त्वहं यथा संनिपतितानां सत्त्वानां प्रहारं दद्यां चित्तविक्षेपं वा कुर्याम् इति । ददर्श तान् सत्त्वान् न चैकसत्त्वमपि उपलेभे न च पस्पर्श ।
अथ भूयस्या मात्रया मारः पापीमान् रुरोद । बुद्धनुभावेन चास्य सर्वं शरीरं वृक्षवत् चकम्पे । साश्रुमुखश्चतुर्दिशं च व्यवलोकयन्नेवमाह ।
मायैषा श्रमणेन सर्वजगतो ऽद्यावर्जनार्थं कृता
येनाहं पुरतो विमोहित इद भ्रान्तिं गतो ऽस्मि क्षणात् ।
भ्रष्टो ऽहं विषयात् स्वपुण्यबलतः क्षीणं च मे जीवितं
शीघ्रं यामि निराकृतः स्वभवनं यावन्न यामि क्षयम् ॥ र्क्प्_3.88(="87") ॥
स्वभवनमपि गन्तुमिच्छति न तत्रापि शशाक गन्तुम् । स भूयस्या मात्रया त्रस्तो रुरोद । एवं चास्योदपादि । परिक्षीणो ऽहम् ऋद्धिबलात् माह्यैवाहं श्रमणस्य वशमागच्छेयम् । मा वा मे ऽस्य शत्रोर्वा अग्रतो जीवितक्षयः स्यात् यत् त्वहमतो ऽन्तर्धायेयं सहाबुद्धक्षेत्रस्य बहिर्धा कालं क्रुयां यथैकसत्त्वो ( दुत्त् 81 ) ऽपि मे सहाबुद्धक्षेत्रे वा कालं कुर्वन्तं न पश्येत् । तथापि न शक्नोति अन्तर्धातुं न दिग्विदिक्षु पलायितुं वा तत्रैव कण्ठे पंचबन्धनबद्धमात्मानं ददर्श । भूयस्या मात्रया कुपितस्त्रस्तः उच्चै रुदन्नेवमाह । हा प्रियपुत्रबान्धवजना न भूयो द्रक्ष्याम इति ।
अथ घोषवतिर्नाम मारश्चक्रवर्तिवेषेण निषण्णभूतो मारं पापीमन्तमेवमाह ।
किं भोः शोकमनास्त्वमद्य रुदिषि व्याकोषवक्त्रस्वरः
क्षिप्रं सर्वजगद्वरं मुनिवरं निर्भीः शरण्यं व्रज ।
त्राणं लोकगतिश्च दीपशरणं नाथस्त्रिदुःखापहो
न त्वेतं समुपास्यसि सुखशमं सौख्यं न संप्राप्स्यसि ॥ र्क्प्_3.89(="88") ॥
अथ मारस्य पापीमत एतदभवत् । यत्त्वहं सन्तोषवचनेन श्रमणगौतमं शरणं व्रजेयं यदहमेभ्यो बन्धनेभ्यः परिमुच्येयम् ।
अथ् मारः पापीमान् यस्यां दिशि भगवान् विजहार तेनाञ्जलिं प्रणम्यैवमाह । नमस्तस्मै वरपुद्गलाय जराव्याधिपरिमोचकाय । एवमहं त्सं बुद्धं भगवन्तं शरणं गच्छामि । एवं चाह ।
अस्मान्नाथ महाभयात् सुविषमात् क्षिप्रं मुनेर्बन्धनात्
मुच्येयं शरणागतो ऽस्मि सुगतस्याद्यप्रभृत्यग्रणीः ।
मोहान्धेन मया त्वयि प्रकुपितेनोच्चैः प्रदोषः कृतः
तत् सर्वं प्रतिदेशयामि पुरतस्त्वां साक्षिणं स्थाप्य तु ॥ र्क्प्_3.90(="89") ॥
यदा च मारः पापीमान् सन्तोषवचनेन बुद्धं भगवन्तं शरणं गतस्तदा मुक्तमात्मानं संजानीते । यदा पुनरस्यैवं भवति प्रक्रमेयमिति पर्षद इति पुनरेव कण्ठे पञ्चबन्धनबद्धमात्मानं संजानीते । यदा पुनर्न क्वचिद् गन्तुं शशाक तदा भगवतो ऽन्तिके त्राणशरणचित्तमुत्पादयामास । पुनर्मुक्तमत्मानं संजानीते यवत् सप्तकृत्वो बद्धमुक्तमात्मानं संजानीते स्म तत्रैव निषण्णः ।
इति महासन्निपातरत्नकेतुसूत्रे तृतीयो मारदमन-परिवर्तः समाप्तः ॥ 3 ॥
स्तर्त् र्क्प् 4
चतुर्थः परिवर्तः

यावत् पूर्वोक्तम् । ते चत्वारो महाश्रावकस्तद्राजगृहं महानगरं पिण्डाय प्रविशन्तस्तैर्मारकुमारकैरनाचारेणाध्यतिष्ठन् नर्तस्व श्रमण गायस्व श्रमणेति । तैश्च महाश्रावकैर्वीथिमध्ये प्रधावद्भिर्निर्वाणमार्गपदप्रतिसंयुक्तेन गीतस्वरेण यदा चेमा गाथा भाषिता तदा महापृथिवी प्रचकम्पे । तत्क्षणं बहूनि देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगशतसहस्राणि भगवच्छासनाभिप्रसन्नानि साश्रुमुखान्येवमाहुः ।
तिष्ठत्वशोको वरधर्मसारथिर् एषा ह्यवस्था जिनवरशासनस्य ।
तच्छ्रावकाणां जनतामद्य दृष्ट्वा विजृम्भितं केन मनः प्रसादयेत्

4.2

अथ तानि बहूनि देवनागयक्षराक्षकोटीनयुतशतसहस्राणि साश्रुमुखानि येन भगवास्तेन उपजग्मुः । उपेत्य भगवतः पुरतः स्थित्वा एवमाहुः ।
अवस्थां शासनस्यास्य भगवन् प्रेक्ष्य सांप्रतम् ।
मो[पेक्षां]कुरु सर्वज्ञ शासनाचारगुप्तये

4.3

भगवानाह ।
एष गत्वा स्वयं तत्र मारं जित्वा सवाहनम् ।
करोमि जनतां सर्वां निर्वाणपुरगामिनीम्

4.4

अथ ते सर्व एवैककण्ठेनैवमाहुः । मा भगवन् गच्छ । ननूक्तं भगवता अचिन्त्यो बुद्धानां भगवतां बुद्धविषयो ऽचिन्त्यो मारविषयः अचिन्त्यो नागविषयः अचिन्त्यः कर्मणां कर्मविषय इति सर्वविषयाणां बुद्धविषय एव विशिष्टतरः । शक्तो भगवानिहैवासने निषण्णो मारकोटीनयुतानि पराजेतुं धर्मस्कन्धकोटीनयुतानि प्रकाशयितुं क्लेशसागरमुच्छोषयितुं दृष्टिजालं समुद्धर्त्तुं सत्त्वकोटीनयुतानि ज्ञानसागरे ऽवतारयितुम् । नाद्य भगवतो गमनकालो युक्तः । भगवानाह । यावन्तः सत्त्वधातौ सत्त्वास्ते सर्वे मारा भवेयुः यावन्ति च पृथिवीपरमाणुरजांसि तावन्त्येकैकस्य मारबलाधिष्ठानानि भवेयुः । ते सर्वे मम वधाय पराक्रमेयुः । रोमकूपमपि मे न शक्ता विघातयितुम् । शक्तश्च अहमिहैव निषण्णो मारकोटीनयुतानि पराजेतुं स्थाप्यैनं सपरिवारं मारम् । गमिष्यामि पुनरहं यन्मम पूजाकर्मणे [ए]भिर्मारैः सर्वराजगृहं महानगरं मारबलर्धि[वि]कुर्वणाधिष्ठानव्यूहैरलंकृतं तदनुकम्पायै परिमोक्षाय यत्ते माराः परमप्रीतिप्रसादजाताः कुशलमूलबीजमवरोपयिष्यन्ति अनुत्तरायां सम्यक्संबोधौ ।
यदा च भगवान् आसनादुत्थातुकामः अथ तावदेव प्रभावशोभना नाम वेणुवन-परिपालिका देवता सा भगवतः पुरतो ऽश्रुमुखी स्थित्वैवमाह ।
नैवाद्य कालो भगवन् प्रवेष्टुं पुरं समन्तादिह मार-पूर्णम् ।
एकैक एवं परमप्रचण्डः कोटीवृतस्तिष्ठति वादिसिंहः

4.5

द्वेषप्रदीप्ता निशितास्त्रधारिणो वधाय ते ऽद्याकुलचेतसः स्थिताः ।
मा सर्वथाद्य प्रविशस्व नाथ मा संक्षयं यास्यसि लोकबन्धो

4.6

यदा च भगवानासनादभ्युत्थितस्तदा द्युतिमतिर्नाम विहारदेवता सा भगवतः पादौ शिरसाभिवन्द्यैवमाह ।
पापीमतां सहस्राणि पञ्च तिष्ठन्ति सायुधाः ।
त्वां प्रतीक्षन्ति निस्त्रिंशा व्रज माद्य महामुने

4.7

यदा भगवान् विहाराद् विनिश्चक्रमे तदा सिद्धमतिर्नामौषधि] देवता सा भगवताः पादौ शिरसाभिवन्द्यैवमाह ।
हा कष्टं नश्यते मार्गो धर्मनेत्री प्रलुज्यते ।
धर्मनौर्याति संभेदं लोकदीपे क्षयं गते

4.8

धर्मरस उदारो हीयते सर्वलोके
जगदिदमतिपूर्णं क्लेशधूर्तैः प्रचण्डैः ।
ननु मम भुवि शक्तिः काचिदस्ति प्रलोपं
सुगतमुनिवराणां संप्रधर्तुं कथंचित्

4.9

अतिबहव इहास्मिन् त्वद्विनाशाय रौद्रा
निशितपरुषखड्गाः संस्थिताः पापधर्माः ।
कुरु सुगत ममाज्ञां लोकसंरक्षणार्थं
प्रविश दशबलाद्य मा पुरं सिद्ध्यात्र

4.10

अथ भगवान् विहाराङ्गनादभिप्रतस्थे । द्युतिन्धरा च नाम तत्र वृक्षदेवता सा करुणकरुणं रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह ।
सर्वं नाथ भविष्यति त्रिभुवनं नष्टेक्षणं साम्प्रतं
नाशं पूर्णमनोरथे त्वयि गते सर्वार्थसिद्धे मुनौ ।
एतस्मिन् गगने भुजङ्गरसनास्तीक्ष्णासिबाणायुधास्
त्वन्नाशाय चरन्ति वन्हिवदना मा गच्छ तत्राधुना

4.11

यदा च भगवान् द्वारकोष्ठके अवततार अथ ज्योतिवरणा ( दुत्त् 87 ) नाम द्वारकोष्ठकदेवता सा उच्चैःस्वरेण रुदन्ती भगवतः पादौ शिरसाभिवन्द्यैवमाह ।
एते ब्राह्मणसंज्ञिनां पुरवरे विंशत्सहस्राण्यथो
दिप्तास्यक्षुरसायकप्रहरणाः प्रेक्षन्ति ते निर्दयाः ।
अन्योन्यामतिरौद्रनिर्दयवतां विंशत्सहस्राण्यतस्
तिष्ठन्त्येह विनाशनाय तव हे मा गच्छ शुद्धानन

4.12

अथ भगवान् द्वारशालां प्रविवेश । तत्र च तमालसारा नाम राजगृहनगरपरिपालिका देवता । सा च तस्योच्चस्वरेण रुदन्ती भगवतः सकाशं त्वरयोपजगाम । उपेत्य पादौ शिरसाभिवन्द्य एवमाह ।
मार्गो ऽयं भगवन् पुनः परिवृतः सिंहोष्ट्रमत्तद्विपैर्
भिक्षूणां च विहेठनाय बहुधा मारैर्विघातः कृतः ।
उद्युक्तास्तव चान्यतीर्थचरणाः शास्तुर्वधार्थं भुवि
त्व मेघस्वन देवनागकृपया मा गच्छ दीप्तप्रभ

4.13

दृष्ट्वा नरामरभुजङ्गमकिन्नरेन्द्रास्
त्वच्छाशनस्य विलयं विहितं समेत्य ।
भीता द्रवन्ति भगवन् जितमार मारान्
मायावृतानतिविकूलमुखांश्च भूयः

4.14

सद्धर्मस्य विलोपनां च महतीं लोकस्य चोपप्लवं
नक्षत्रद्युतिनाशितं च गगनं चन्द्रार्कयोर्विभ्रमम् ।
संपश्यन् वत सज्जनो ऽद्य विरसः प्रोच्चैः शिरस्ताडितो
हा कष्टं कथयत्यतीव स्वगतभ्रंशं समाशङ्कयन्

4.15

नश्यते दृष्टसूर्यो ऽयं धर्मोल्का याति संक्षयम् ।
मृग्दाति मृत्यु संबुद्धं धर्मतोयं विशुष्यते

4.16

सद्धर्मचारिणां लोके विनाशे प्रत्युपस्थिते ।
प्रादुर्भावो ऽसतामेव माराणां भवति ह्यतः

4.17

अथ सा देवता भगवतः प्रतिनिवर्तनमदृष्ट्वा साश्रुमुखीभूय एवमाह ।
लोकं निरीक्षस्व मुनेः समग्रं न गच्छ वादिप्रवराद्य संक्षयम् ।
म मत्पुरे नाशमुपागते त्वयि त्रिलोकनिन्द्या सततं भवेयम्

4.18

शृणु मे वचो नायक सत्त्वसार मा मत्पुरे गच्छ विनाशमद्य ।
सत्त्वानुकम्पार्थमिह प्रतीक्ष्य सत्त्वांश्च जन्मर्तिभयद्विमोक्षय

4.19

स्मर प्रतिज्ञां हि पुरा तथागता प्राप्योत्तमं तारयिता भवेयम् ।
सत्त्वाननेकान् बहुदुःखतप्तान् आश्वासय प्राणभृतां वरिष्ठ

4.20

तिष्ठाग्रमूर्ते बहुकल्पकोट्यः कामेषु सक्तो वत बालवर्गः ।
तच्छान्तये देशय धर्ममार्गं स्वभावशून्यायतनेन्द्रियार्थम्

4.21

ततो भगवान् द्वारशालायामवततार । अथ तावदेव दृढा नाम पृथिवी देवता दशभिर्महौजस्कमहौजस्काभिर्देवतासहस्रैः सार्धम् अश्रुमुखी प्रकीर्णकेशी भगवतः पुरतः प्राञ्जलिः स्थित्वैवमाह ।
स्मर प्रधानं रुधिरप्रपूर्णा यत्ते प्रदत्ताश्चतुराः समुद्राः ।
शिरांसि चास्थीनि च चक्रवाडवं नेत्राणि गङ्गासिकतासमानि

4.22

रत्नानि चैवं विविधानि पूर्वं पुत्राश्च दाराश्च द्विरदास्तथाश्वाः । आवासवस्त्रशयनान्नपानं भैषज्यमिष्टं च तथातुराणाम्

4.23

कृता च पूजा प्रवरा स्वयम्भुवां शीलं त्वया रक्षितमप्रमादिना ।
क्षान्तिश्रुतं सेवितमेव नित्यं मातृज्ञता चैव पितृज्ञता च

4.24

जीर्णान्यनन्तानि च दुष्कराणि सत्त्वा ह्यनेकव्यसनात् प्रमोचिताः ।
यत्पूर्वमादौ प्रणिधिः कृत्तस्ते बुद्धो भवेयं परमार्थदेशकः

4.25

उत्तारयेयं जनतां महौघात् लोकाय धर्मं वत देशयेयम् ।
तृष्णाधिमूलानि महाभयानि दुःखान्यशेषाणि च शोषयेयम्

4.26

अभये पुरे सत्त्वगणं प्रवेशये निवेश्य तान् वै वरबोधिमार्गे ।
विमोचयेयं बहुदुःखपीडितान् तां सत्त्वधातुं परिपूर्ण कुर्याम्

4.27

मार्गन्धुराणामिह पापचारिणां क्षमस्व नाथ श्रुतशीलनाशिनाम् ।
निस्तारयैतां समयप्रतिज्ञां वदस्व धर्मं बहु कल्पकोट्यः

4.28

ओघात् समुत्तारय नाथ लोकं संस्नापयाष्टाङ्गजलेन चैनम् ।
नेहास्ति सत्त्वाः सदृशास्त्रिलोके त्वया हि नाथ प्रवरो न कश्चित्

4.29

मुक्तः स्वयं लोकमिमं च मोचय उत्तारय [त्वं] त्रिभवार्णवाज्जगत् ।
त्वमेकबन्धो जगदेकबान्धव- स्तिष्ठस्व नित्यं विभजस्व धर्मम्

4.30

अथ भगवान् द्वारशालायामवततार । तत्क्षणादेव च बहूनि देवनागयक्षराक्षसकोटीनयुतशतसहस्राणि गगने विचरमाणानि साश्रुमुखान्येवमाहुः ।
अस्माभिरादौ सुगता हि दृष्टा प्रशान्तकाले सुविनीतशिष्याः ।
धर्मोपदेशं विपुलं च कुर्वतां तेषां विघातो न स ईदृशो ऽभूत्

4.31

एषो हि शास्तातिनिहीनकाले प्राप्तः स्वयम्भूत्वमुदारबुद्धिः ।
क्लेशादि धर्मं समुवाच लोके परिपाचनार्थं जगतां मुनीन्द्रः

4.32

अस्मिन् पुनस्तिष्ठ हि वादिसिंह पापीमतां नैकसहस्रकोट्यः ।
कुर्वन्ति धर्मस्य विनाशमेवं मा बुद्धवीराद्य पुरे विश्वस्व

4.33

अथापरा देवता एवमाह ।
चक्रं जिनैर्वर्तितमेकदेशे तैः पूर्वकैर्लोकहितप्रयुक्तैः ।
अयं पुनर्गच्छतु यत्र तत्र मा खल्ववस्थां समवाप्स्यते ऽद्य

4.34

अथापरापि देवता एवमाह ।
कारुण्यहेतोरिह सार्थवाह चचार सत्त्वार्थमतीव कुर्वन्
स केवलं त्वद्य पुरे ऽत्र मा वै नाशं प्रयायादिति मे वितर्कः

4.35

तेन खलु पुनः समयेन तानि बहूनि देवनागयक्षराक्षसासुरगरुडकिन्नरमहोरगकोटीनयुतशतसहस्राणि साश्रुदिनवदनानि ( दुत्त् 92 ) गगनतलपथादवतिर्य भगवतः पुरतः स्थित्वा अनेकप्रकारान् आत्मनो विप्रकारांश्चक्रुः । केचित् केशान् विलुम्पन्ति स्म । केचिदाभरणानि मुमुचुः । केचिच्छत्रध्वजपताकाः प्रपातयामासुः । केचित् स्वशरीरेण भूमौ निपेतुः । केचिद् भगवतश्चरणौ जगृहुः । केचिदतिकष्टं रुरुदुः । केचिदुरसि पाणिभिः पराजघ्नुः । केचिद् भगवतः पदमूले स्थित्व मद्गुवत् परावर्तन्ते स्म । केचिद् भगवतः पुरतः प्राञ्जलयो भूत्वा स्तुतिनमस्कारान् चक्रुः । केचिद् भगवन्तं पुष्पधूगन्धमाल्यविलेपनवस्त्राभरणसुवर्णसूत्रमुक्ताहारपुष्पैरवकिरन्ति स्म ।
अथापरा बव्हयो देवकोट्यः उच्चैरेककण्ठेनैवमाहुः ।
त्वया प्रचीर्णानि हि दुष्कराणि अतीव लोकार्थमितो बहूनि ।
क्षीणे त्वमुत्पन्न इहाद्य काले उपेक्षकस्तिष्ठ च मा त्यजस्व

4.36

अल्पं कृतं ते ऽनघ बुद्धकार्यं साक्षीकृताश्चाल्पतरास्त्रिअदेवाः ।
त्वं तिष्ठ धर्मान् सुचिरं प्रकाशयन् उत्तारयास्मात् त्रिभवार्णवाज् जगत्

4.37

सत्त्वा ह्यनेके शुभकर्मचारिणः परिपक्वबीजा अमृतस्य भाजनाः ।
करुणां जनस्य प्रतिदर्शयाथ ओघेभ्य उत्तारय लोकनाथ

4.38

ये ऽत्रा टवीमध्यगता भ्रमन्ति संसारकान्तारविनष्टमार्गाः ।
तेषां स्वमार्गं प्रतिदर्शयस्व प्रमोक्षयार्योत्तमधर्मवाग्भिः

4.39

एतत्तवाश्चर्यतरं कृपाद्भुतं प्रवर्तितं यद्वरधर्मचक्रम् ।
चिरं हि तिष्ठ त्वमुदारबुद्धे मा खल्वनाथा जनता भवेत्

4.40

अथापरापि देवता एवमाह ।
नाशं प्रयास्यत्यथ यद्विनायको लोकस्तथान्धो निखिलो भविष्यति । अष्टाङ्गमार्गस्त्रिविमोक्षहेतोः सर्वेण सर्वं न भविष्यतीह

4.41

अस्माभिरस्मिञ्छुभबीजमुप्तं वः कायचेतोद्धरमप्रमत्तैः ।
ततो वयं सर्वसुखैः समन्विताः पुण्याकरस्यास्य हि मा भवेत् क्षयः

4.42

तेन च समयेन बहूनि शुद्धावासदेवकोटीनयुतशतसहस्राणि तत्रैव सन्निपतितान्यभूवन् । तान्यप्येवमाहुः ।
मा भैष्टं यूयं न मुनेरवस्था भविष्यति काचिदुदारबुद्धेः ।
प्रत्यक्षपूर्वा वयमस्य साधोरूपागता यद्भुवि मारकोट्यः

4.43

षट्त्रिंशद्योजनानि प्लुतरभसपरा यत् समन्ताद् वितत्य
प्रासासिस्फीतखड्गप्रचुरखररवा भीषणी मारसेना ।
संप्राप्ता बोधिमण्डे विलयमुपगता तत्क्षणादेव भीता
प्राप्तार्थस्याद्य किं तत्प्रसृतयशसो विघ्नमेव प्रकुर्यात्

4.44

अथापरा देवता प्ररुदन्ती एवमाह ।
मारस्यैकस्य सा सेना प्रागासिन्न महाबला ।
मारकोटीसहस्राणामियं सेना महाबला

4.45

निःसंशयमिह प्राप्तो नाशं लोकविनायकः ।
यद्विनाशदयं लोको निरालोको भ्रमिष्यति

4.46

अथ खलु ते शक्रब्रह्मलोकपाला भगवतः [पादौ परिवज्यैव]माहुः ।
तिष्ठेह साधु कुरु मन्दधीनामस्मद्वचः कारुणिकप्रधान ।
बहुदेवकोट्यो महाशोक तप्तास्ताः सांप्रतं धर्मरसेन सिञ्च

4.47

अथ खलु भगवांस्तां सर्वावतीं पर्षदं मैत्र्या विशालभ्यां नयनाभ्याम् अवलोक्य ब्राह्मेण स्वरेण तां समाश्वासयन्नेवमाह ।
मा भैष्ट यूयं भवताद्य निर्भयाः सर्वे ऽपि माराः सगणाः सवाहनाः ।
शक्ता न मे भीषयितुं समग्राः रोमाप्यथैकं किमु सर्वदेहम्

4.48

आश्वासयाम्यद्य तु सर्वलोकं धर्मं सदाहं भुवि देशयिष्ये ।
मार्गच्युतानामहमेव सम्यग् मार्गोपदेशं विशदं करिष्ये

4.49

कृतानि पूर्वं बहु दुष्कराणि मयान्नपानं विपुलं प्रदत्तम् ।
आवासभैषज्यमनल्पकं च कर्तुं विघातं मम को ऽद्य शक्यते

4.50

त्यक्ता मय ह्यश्वरथा गजाश्च विभूषणान्याभरणानि चैव ।
दासाश्च दास्यो निगमाश्च राष्ट्राः कर्तुं विघातं मम कः समर्थः

4.51

भार्या सुता दुहितृ कलत्रवर्गमैश्वर्यमिष्टं भुवि राजवंशः ।
दत्तो मया सत्त्वहिताय कस्माच्छरीरनाशो ऽद्य भविष्यति मे

4.52

शिरश्च नेत्रे उभे कर्णनासे हस्तौ च पादौ तनु चर्म लोहितम् ।
स्वजीवितं त्यक्तमपीह देहिनां कर्तुं विहिंसां मम कः समर्थः

4.53

बव्हयो मयातीव हि बुद्धकोट्यः संपूजिता भक्तिमता सहस्तम् ।
शीलश्रुतिक्षान्तिरतेन नित्यं कर्तुं विलोपं ममः समर्थः

4.54

पूर्वं मया वै बहु दुष्कराणि कृतानि मे ऽतीव समाहितेन ।
संछिन्नगात्रेण न रोषितं मनः कर्तुं विहिंसां मम को ऽद्य शक्तः

4.55

क्लेशा जिता मे नितयो ऽस्मि बुद्धः सर्वेषु सत्त्वेषु च मैत्रचित्तः ।
ईर्ष्या च मे नास्ति खिलं न रोषो न मे समर्थः पुरतो ऽद्य कश्चित्

4.56

जितं मया मारबलं समग्रं पराजिता मे बहु मारकोट्यः ।
युष्मद्विमोक्ष नियतं करिष्ये मा भैष्ट कस्मान्न पुरं प्रवेक्षेप

4.57

ये केचि दिशासु दशश्वपीह बुद्धा हि तिष्ठन्ति तु सत्त्वहेतोः ।
तान् सर्वबुद्धानिहैकिकरिष्ये महर्धिकांश्चाप्यथ बोधिसत्त्वान्

4.58

क्षेत्रं प्रपूर्णं सकलं करिष्ये ज्ञानेन पुण्येन च वासयिष्ये ।
तैरेव बुद्धैः सह नेतृसंस्थितः करिष्ये बुद्धानुमतं च कार्यम्

मूल पाठ: Mahāsaṃnipātaratnaketudhāraṇīsūtra, 1-6, 10-11 · Edition: Nalinaksa Dutt: Gilgit Manuscripts Vol IV, Calcutta 1959 (reprint: Delhi : Sri Satguru Publications, 1984), pp. 1-138 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc