भाषा

ENहिગુ
ग्रंथ पाठ

महासंनिपातरत्नकेतुधारणीसूत्र · अध्याय 2

2.1

अथ मारः पापीमान् दुर्मनस्कः एव शोका[गारं प्राविशत् ।]
महायानसूत्राद्रत्नकेतु-मारजिह्मीकरणः परिवर्तो नाम प्रथमः ॥ 1 ॥
स्तर्त् र्क्प् 2
द्वितीयः परिवर्तः
अथ ता मारकन्या मारपुत्राश्च सगनपारिषद्या भगवन्तं [तत्क्षणं प्रार्थयामासुः । अ]र्थिका वयं भगवन्ननेनैवंरूपेण यानेन च ज्ञानेन च ऋद्धया कृपयोपायेन प्रतिभानेन च । आश्चर्यं भगवन् यावदुपाय[ज्ञान]समन्वागतस्तथागतः । [कतमैर्भ]गवन् धर्मैः समन्वागतः पुरुषपुद्गलो न च पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते । भगवानाह । चतुर्भिर्धर्मैः समन्वागतः [कुलपुत्र]इहैकत्यपुरुषपुद्गलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते । कतमैश्चतुर्भिः । इह भद्रमुखाः कुलपुत्रः सर्वधर्मान्न परामार्ष्टि न च क्वचिद् धर्ममुद्गृण्हाति नोपैति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यदुत दानपारमितायां चरन् न दानफलं परिचरति नोद्गृण्हाति नोपादत्ते नाधितिष्ठति न कल्पयति न विकल्पयति यावत् प्रज्ञापारमितायामपि चरन् यावन्न कल्पयति न विकल्पयति ।
पुनरपरं भद्रमुखाः स कुलपुत्रो न सत्त्ववादी भवति न जीववादी न पोषवादी न पुरुषवादी न पुद्गलवादी न सत्त्वधातुं मनसा परामार्ष्टि यावन्न कल्पयति न विकल्पयति ।
पुनरपरं भद्रमुखाः स कुलपुत्रो न रूपशब्दगन्धरसस्प्रष्टव्यानि परामार्ष्टि यावन्न कल्पयति न विकल्पयति ।
पुनरपरं भद्रमुखाः स कुलपुत्रः सर्वत्र्यध्वत्रैधातुकस्कन्धधात्वायतनानां हेतुप्रत्ययालम्बनफलविपाकसमुत्थानाश्रयोत्पादान्न परामार्ष्टि यावन्न कल्पयति न विकल्पयति ।
तत् कुतः । सर्व[ज्ञताज्ञान]चर्याधिष्ठानं [सर्वविषयकल्पनाविकल्पनाविरहेण अनालम्बनयोगचर्यया] च कर्तव्यम् । अभावा भद्रमुखाः सर्वधर्माः सर्वज्ञता च यावदघोषानिमित्तानक्षराप्रणिहितानुत्पादानिरोधालक्षणासंगा अनालम्बनादर्शना विविक्ता निरात्मा अलक्षणीया क्षणव्यूपशान्ता अतमानालोकास्थानाविषया[वशा]पक्ष्याप्रतिपक्ष्या अचिन्त्याहेयामत्सराप्रपञ्चा[रजोविरजो]निरवयवा अकिंचनाकारकावेदकानाश्रयाग्राह्याविज्ञप्तिकाप्रतिभासाक्षणिका भद्रमुखाः [स]र्वज्ञता गगनसमा शून्यानुपलम्भयोगेनानधिष्ठानयोगेनापरामर्शयोगेन ( दुत्त् 29 ) अकल्पविकल्पयोगेन कर्तव्यम् ।
एभिर्भद्रमुखाश्चतुर्भिर्धर्मैः समन्वागतः [पुरुषपु]ग्दलो न पापमित्रहस्तं गच्छति क्षिप्रं चानुत्तरां सम्यक् संबोधिमभिसंबुध्यते । यः कश्चिद् भद्रमुखाः सर्वविषयसंगसमुच्छ्रय[ल]क्षणाधिष्ठान[परिचर्यया सर्वज्ञतां प्रार्थयते] स द्वयसक्तो भवति । द्वय [सक्त]मनःसंकल्पो विसंवादयति सर्वज्ञताम् । तत्र कतमद् द्वयम् । यत् स्कन्धधात्वायतनानि लक्षणव्यवचारेणाधितिष्ठति [उद्गृण्हाति । द्वय]मेतद् विसंवादयति सर्वज्ञताम् । चर्याधिष्ठानफलकल्पना द्वयमेतत् । जाटिभवोपादानसत्त्वाधिष्ठानकल्पना द्वयमेतत् । देशनाप्रकाशनप्रज्ञापन-वाक्पथरुतव्या[हारा]धिष्ठानकल्पना द्वयमेतत् । उच्छेद-शाश्वतव्यवलोकन-ज्ञान-ज्ञेयाधिष्ठानकल्पना द्वयमेतत् । सत्त्वजीवपोषपुरुषपुद्गल-कारककारापकसंज्ञाधिष्ठानकल्पना द्वयमेतत् । यः पारापारोहापोहानधितिष्ठति कल्पयति द्वयमेतत् । यः कश्चिद् भद्रमुखाः सर्वज्ञज्ञानं पर्येषते पुरुषपुद्गलः स त्र्यध्वाहंकारममकारसमुदयनिरोधव्यवचारानधितिष्ठति संकल्पयति [उद्गृण्हाति] तस्य द्वयमेतत् सर्वज्ञज्ञाने । तद् यथा कश्चित् पुरुषः अग्नयर्थिको भूतलं परामृशेत् पानार्थिको ऽग्निं भोजनार्थिकः [पाषाणं] ( दुत्त् 30 ) पुष्पार्थिकः चीवरं गन्धार्थिको मनुष्यकुणपं चीवरार्थिकः श्मशानं वस्त्रार्थिको ऽश्मानं विलेपनार्थिकः आकाशं परामृशेत् एवमेव भद्रमुखाः यश्चर्याधिष्ठानसंगव्यवचारसमुच्छ्रय-द्वयाधिष्ठानेन सर्वज्ञज्ञानं पर्येषते निष्फलस्तस्य व्यायामः ।
अथ खलु तस्यामेव परिषदि धारणमतिर्नाम बोधिसत्त्वः सन्निपतितो ऽभूत् सन्निषण्णः । स येन भगवांस्तेनाञ्जलिं प्रणमैयवमाह । यद् भगवन् अनभिलाप्यधर्मः शक्यमभिसम्बोद्धुम् । भगवानाह । एष एवाभिसंबोधो यदनभिलाप्यं जानीते । तेन हि कुलपुत्र त्वामेव प्रवक्ष्यामि । यदि ते क्षमं तथा व्याकुरु ।
अस्ति द्वयलक्षणभावो यः सर्वज्ञता नाम लभते । आह । यद्यस्तीति वक्ष्यामि शाश्वतो भविष्यति । अथ नास्ति चेद वक्ष्याम्युच्छेदो भविष्यति । मध्यमा च प्रतिपन्नोपलभ्यते । नासावस्ति नापि नास्तीति । यदेष्वसंगानुत्पादाव्ययाप्रमाणासंख्यो ऽतमानालोकेषु ज्ञानम् एष एवाभिसंबोधः ।
विद्युन्मतिर्बोधिसत्त्व आह । यत्र भगवन् नागतिर्न गतिरित्येव ज्ञानावतारकौशलम् एष एवाभिसंबोधः ।
वैरोचनो बोधिसत्त्व आह । यत्र भगवन् न प्राप्तिलक्षणं नाभिसमयो न साक्षात्क्रिया न शमो न प्रशमो न त्रयध्वं न त्रियानं न प्रणिधिसामीचीमन्यना एष एवाभिसंबोधः ।
धारणमतिर्बोधिसत्त्व आह । यो भगवन् न त्रधातुकं न त्रीणी संयोजनानि न त्रैविद्यतां न त्रियानतां न स्कन्धधात्वायतनानि न कल्पयति न विकल्पयति न हानिं न वृद्धिं न सामीचीं करोति एष एवाभिसंबोधः ।
वज्रमतिर्बोधिसत्त्व आह । यः पृथग्जनधर्मः वार्यधर्मो वा शैक्षधर्मः वाशैक्षधर्मः वा श्रावकधर्मः वा प्रत्येकबुद्धधर्मः न कल्पयति न विकल्पयति न सामीचीं करोति एष एवाभिसंबोधः ।
दृढमतिर्बोधिसत्त्व आह । [यो विवेकनयेन] तथतां व्यवचारयति एष एवाभिसंबोधः ।
रत्नपाणिर्बोधिसत्त्व आह । यो ऽनुत्पादलक्षणं सर्वधर्माणां न प्राप्तये नाभिसमयाय न [कल्पयति एष एवाभिसंबोधः] ।
अचिन्त्यमतिर्बोधिसत्त्व आह । यस्त्रैधातुकव्यवचारचित्तमेव चित्ते प्रवेशयति उभे चित्ते न व्यवचार्येणोपलभते एष एवाभिसंबोधः ।
अरिविजयो बोधिसत्त्व आह । [यः] सर्वधर्मेषु न सज्यते नानुनीयते नोपेक्षते न प्रतिमन्यते न स्पृहयते न मुह्यते न गृण्हाति न मुच्यते एष एवाभिसंबोधः ।
पद्मगर्भो बोधिसत्त्व आह । यः पुण्यपापयोः न सज्जते गम्भीरक्षान्तिनयावताराहङ्कारममकारान्न कल्पयति एष एवाभिसंबोधः ।
चन्द्रप्रभः कुमारभूत आह । यो भगवान् प्रशमात् सर्वधर्मान्न प्रजानीते न च धर्माणां स्वभावमाचयं वोपचयं वा पश्यति एष एवाभिसंबोधः ।
खगमतिः कुमारभूत आह । यस्य सर्व तम-आलोकोत्पादव्ययः [वृद्धिहानिः] चित्तचैतसिकेषु न प्रवर्तन्ते एष एवाभिसंबोधः ।
अक्षयमतिर्बोधिसत्त्व आह । यस्त्रिपरिशुद्धः पारमितासु अभ्यासं करोति अनुपलम्भयोगेन न रज्यते न विरज्यते एष एवाभिसंबोधः ।

मञ्जुश्रीः कुमारभूत आह । यो भगवन् [सर्व]धर्मेषु न रज्यते न विरज्यते गम्भिरधर्मनयं च प्रजानाति । यश्च प्रजानाति तन्नायूहति[न]निर्यूहति नाकर्षति न व्याकर्षति न च कस्यचिद्धर्मस्यापचयं वाविद्यां [वा]विमुक्तिं चोत्पादयति व्ययं वा हानीं वा वृद्धिं वा वस्तुषु न संकल्पनतो [न] विकल्पनतः एष एवाभिसंबोधः । अनेनैव नयेन सर्वाभिसंबोधः ।
अथ कौतूहलिको बोधिसत्त्व आह । किं मञ्जुश्रीरायोगप्रयोगेन प्रयोजनम् । यदनेनैकनयतथताप्रवेशेनैव गम्भीरभावनानयेन सर्वज्ञज्ञानपरिज्ञानम् ।
मञ्जुश्रीराह । विषमदृष्टिरहितः सम्यग्दृष्टि[र]समारोपः । अशाठ्य-ऋजुकतासमारोपः । पापरहितो गुरुगौरवासमारोपः । सुवचनास 0 सम्यगाजीवास 0 सर्वसंयोजनरहितास 0 समाक्रोश-सर्वसत्त्वकृपास 0 ( दुत्त् 33 ) त्रिसंवरास 0 अविसंवादनकुशलधर्मास 0 अव्युपशान्तास 0 सद्धर्मारक्षास 0 सर्वसत्त्वापरित्यागास 0 सर्ववस्तुपरित्यागास 0 दुर्बलसत्त्व-बलप्रतिष्ठापनास 0 भीतशरणाभयास 0 । कुमार्गसंप्रस्थितानां प्रतिपत्तिनियोजनास 0 क्षान्तिसौरत्यास 0 सर्वग्राहसं[ग]लक्षणास 0 सर्वरजस्तमस्कन्धवर्जनास 0 सर्वपरिणामना-फलविपाकवर्जनासमारोपः 0 । इमे कुलपुत्र विंशतिः प्रयोगाः सर्वज्ञज्ञानस्य । सर्वाक्षररुतघो[षवचनव्याहारवाक्य-] प्रभेद तथताज्ञानप्रवेशेन सर्वज्ञज्ञानस्य प्रयोगः । सर्वतथागतवचनानि अन्यतीर्थिकवचनतथताप्रवेशेन सर्वचर्यातथताप्रवेशेन सर्वपुण्यो[पेत]प्रज्ञापारमिताप्रयोगतथताप्रवेशेन सर्वोपादानोत्पादव्ययतथताप्रवेशेन सर्वत्रिविमोक्षाश्रयहेतुकर्मधर्म[तथता]प्रवेशेन व ज्ञात्वा सर्वज्ञज्ञानस्य प्रयोगावबोधो भवति ।
कौतूहलिको बोधिसत्त्व आह । यावदेतत् मञ्जुश्रीर्यदा इमं गम्भीरं धर्मनयमवबुध्यते तदा न कश्चिद्धर्म समनुपश्यति यो धर्मो देश्येत यस्मै देश्येत यैर्वार्थपदव्यञ्जनैर्देश्येत प्रकाश्येत । यं वा पुनः प्रजह्याद् यं वा भावयेद् यं वा परिजानीयात् सर्वधर्मानभिलाप्ययोगेन तथतां प्रविशति सः सर्वज्ञज्ञानमवबुध्यते ।
भगवानाह । साधु साधु कुलपुत्र सुभाषितस्ते ऽयमेकनयेन ( दुत्त् 34 ) सर्वज्ञज्ञानप्रतिलाभः । तत् कुतः सर्वधर्मा ह्यसमारोपः । अनुत्पादाविनाशकोटीकः अविद्यानिर्वाणानुत्पादभूतकोटीकः आकाशनिर्वाणा[नुत्पादभूत] कोटीकः अनभिलाप्यकोटीकः सर्वधर्माः । एवं सर्वसत्त्वाः । सर्वधर्मा न द्रव्यकोटीकः सर्वासंगवस्तुतः परिकीर्तितः । सर्वत्र्यध्वत्रैधातुकस्कन्धनिष्किञ्चनकोटीकः त्रिसंस्कारशून्यताकोटीकः धर्मस्कन्धविपाकस्कन्धादयः अपचयस्कन्धा न द्रव्यकोटीकः [परिकीर्तितः] । शून्यताभूतकोट्यनभिलाप्यार्थसर्वधर्मसमन्वागतो बोधिसत्त्वो महासत्त्वः सर्वज्ञज्ञानमवतरति ।
तस्मिन् खलु पुनः सर्वज्ञज्ञानप्रतिलाभव्याकरणे भाष्यमाणे विंशतिभिर्मारकन्यामारपुत्रगणपार्षद्यसहस्रैरनुत्पत्तिकेषु धर्मेषु क्षान्तिः प्रतिलब्धा । औदारिकं च कायं विजह्य मनोमयं कायं प्रतिलेभिरे । अपरेषामप्येषां विंशतीनामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ( दुत्त् 35 ) ऽभूत् । द्विनवतीनां च देवमनुष्यबिम्बराणां विचित्रविचित्राणां च बोधिसत्त्वक्षान्तिध्यानधारणीनां प्रतिलाभो ऽभूत् ।
अथ तानि विंशतिसहस्राणि अनुत्पत्तिकधर्मक्षान्तिप्रतिलब्धानां बोधिसत्त्वानां महासत्त्वानां भगवन्तं दिव्यैः पुष्पैरभिकिरन्ति अभिप्रकिरन्ति स्म । भगवतश्च पादौ शिरोभिरभिवन्द्यैवमाहुः । पश्य भगवन् कल्याणमित्रसंसर्गवशेन सत्त्वानां सर्वपुण्योपायकुशलमूलानि मनसिकाराणि भवन्ति । भगवानाह । कर्मप्रत्यय एष द्रष्टव्यः कौतूहलप्राप्तानां च सत्त्वानां भगवान् संशयछित्त्यर्थमिमं पूर्वयोगमुदाजहार ।
भूतपूर्वं कुलपुत्रा अतीते ऽध्वनि अपरिमाणेषु महाकल्पेषु अतिक्रान्तेसु अस्यामेव चातुर्द्वीपिकायां यदासीत् तेन कालेन तेन समयेन द्युतिन्धरे महाकल्पे वर्तमाने अष्टषष्टिवर्षसहस्रायुष्कायां प्रजायां तेन च कालेन तेन समयेन ज्योतिसोम्यगन्धावभासश्रीर्नाम तथागतो ऽभूत् विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां बुद्धो भगवान् । क्लिष्टे पञ्चकषाये लोके वर्तमाने च चतुर्णां पर्षदां त्रियानप्रतिसंयुक्तां सन्देशयति स्म । तेन खलु पुनः समयेन राजाभूत् उत्पलवक्त्रो नाम चतुर्द्वीपेश्वरश्चक्रवर्ती । अथ राजा उत्पलवक्त्रो ऽपरेण कालसमयेन सान्तःपुरपरिवारः सबलकायो येन ( दुत्त् 36 ) ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपसंक्रामत् । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं नानपुष्पैरभ्यवाकिरत् नानागन्धैर्नानाधूपैश्च पूजां कृत्वा भगवतो भिक्षुसंघस्य पादौ शिरसाभिवन्द्याभ्यां गाथाभ्याम् अभ्यष्टावीत् ।
भुजंगामरादिभिरतीव गुणैः समभिष्टुतः प्रचुरदोषहरः ।
धनसप्तकेन च हितो जगतो वद केन सूक्ष्ममतिमान् भवति

2.2

जगतस्तमोघ्नः शमदीपकर च्युतिजन्मजरोभ्दवनशोकदमः ।
जगतस्त्वपायपथवारयता वद केन मुच्यति ह मारपथा

2.3

अथ खलु मारपुत्राः स ज्योतिसोम्यगन्धवभासश्रीस्तथागतो राजानमुत्पलवक्त्रमेतदवोचत् । त्रिभिः सत्पुरुषधर्मैः समन्वागतो बोधिसत्त्वः सूक्ष्ममतिर्भवति । कतमैस्त्रिभिः । अध्याशयेन सर्वसत्त्वेषु करुणायते । सर्वसत्त्वानां दुःखप्रशमाय उद्यतो भवति ( दुत्त् 37 ) मातृवत् । सर्वधर्मादीन् निर्जीवनिष्पोषनिष्पुद्गलानानाकरण-समान् व्युपपरीक्षते । एभिस्त्रिभिर्धर्मैः समन्वागतः सत्पुरुषो बोधिसत्त्वः सूक्ष्ममतिर्भवति । अपरैस्त्रिभिः महाराज धर्मैः समन्वागतः सत्पुरुषो मारपाशेषु न सज्जते । कतमैस्त्रिभिः । यदुत सर्वसत्त्वेष्वक्रोधनो भवति अनवतारप्रेक्षी सर्वसत्त्वसमदक्षिणीयः समसंज्ञामयो भवति । सर्वधर्मानेकनयेन व्युपपरीक्षते यदुत आकाशसमान् निःसंस्काराननानात्वानजाताननुत्पन्नाननिरुद्धान् । सर्वानाकाशवद् द्रव्यलक्षणविगताननुपलम्भयोगेन प्रत्यवेक्षते । एभिर्महाराज त्रिभिर्धर्मैः समन्वागतः पुरुषो मारपाशेषु न सज्जते मारपथाच्च निर्मुच्यते ।
अथ राज्ञः उत्पलवक्त्रस्याग्रमहिषी सुरसुन्दरी नाम सा चतुरशीतिभिः स्त्रीसहस्रैः परिवृता पुरस्कृता येन ज्योतिसोम्यगन्धावभासश्रीस्तथागतस्तेनोपजगाम । उपेत्य तं भगवन्तं ज्योतिसोम्यगन्धावभासश्रियं तथागतं नानापुष्पैरभ्यवकीर्य आभिर्गाथाभिरध्यभाषत ।
असदृगुणधर वितिमिरकरण च्युतिहर वद कथमिहा युवति ।
भवतिह पुरुषो व्यपगतकुगति ( दुत्त् 38 ) श्रियु विनयमन द्रुतहितकर

2.4

परमगतिगत सुगत प्रशमरतिकर भगवन् त्यजति युवति तां कथमिह पुरुषः ।
वद मम लघु सुविनय परहितकर शमयातितिमिरा मम नयगगनात्

2.5

असमसम जगति श्रमण परम प्रथित गुणगण स्मृतिविनयधर ।
मम यदि पुरिषेह भवति हि धरता लघु वद वितिमिर सुगतपथामृतम्

मूल पाठ: Mahāsaṃnipātaratnaketudhāraṇīsūtra, 1-6, 10-11 · Edition: Nalinaksa Dutt: Gilgit Manuscripts Vol IV, Calcutta 1959 (reprint: Delhi : Sri Satguru Publications, 1984), pp. 1-138 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc