महापरिनिर्वाणसूत्र · अध्याय 50
(अश्रौषुः पापीयका मल्लाः ॥ परिनिर्वृतः कुशिनगर्यां बुद्धो भगवान् ॥ अद्य गते सप्ताहे वर्तते शरीरे शरीरपूजा ॥)
(श्रुत्वा च चतुरङ्गं बलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं येन कौशिनागरा मल्लास् तेनोपजग्मुः ॥)
(उपेत्य कौशिनागरान् मल्लान् इदम् अवोचन् ॥)
(शृण्वन्तु भदन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा वा परिषदो वा ॥ दीर्घरात्रं स भगवान् अस्माकं प्रियश् चाभू)न् म्(अनापश् च ॥) भवतां ग्रामक्षे(त्रे परिनिर्वृतः ॥)
(अर्हामो वयं तस्य भगवतः शरीरेषु शरीरभागं येन पापायां भवतः) शरीरस्त्(ऊपं) प्र्(अतिष्ठाप)यिष्यामश् छत्रध्वजपता(कांश् चारोपयिष्यामो महांश् च प्रस्थापयिष्यामो गन्धैर् माल्यैः पुष्पैर् धूपैर् वाद्यैः) स्(अत्)करि(ष्)यामो गुरुकरिष्यामो मानय्(इष्या)म(ः) पूजयिष्या(मः ॥)
(यत् खलु वासिष्ठा जानीयात ॥ अस्माकम् अपि स भगवान् प्रियश् चाभून् म)नापश् च ॥ अस्माकं ग्र्(आ)मक्षेत्रे परि(नि)र्वृतः ॥ नार्हामो वयं (प्)र्(अदातुं भगवतः शरीरेषु भागम् ॥)
(सचेद् दत्तम् एवं साधु ॥ यदि वा न दास्यथ सेनयापहरिष्यामः ॥)
(त)थ्(आ भवतु) कौशिनाग्(अरा मल्लाः प्रत्यश्रौषुः ॥)
(अश्रौषुश् च चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः क्रौड्या वैशालका लिच्छवयः कापिलवास्तव्याः शाक्याः ॥)
(अश्रौषीच् च राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः ॥ परिनिर्वृतः कुशिनगर्यां बुद्धो भगवान् ॥ पापीयका मल्लाश् चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्र्)आमीयकाः क्रौड्या वै(शालका लिच्छवयः कापिलवास्तव्याः शाक्याः कुशिनगरीम् उपसंक्रान्ता येन शरीरपूजा शरीरभागस्याहरणाय ॥)
(श्रु)त्वा च पुनर् वर्षाकारं (ब्राह्मण)मगधमहाम्(आत्)र्(अम् इदं अवोचत् ॥)
(जानीषे त्वं वर्षाकार ॥ अश्रौषम् अहं ॥ परिनिर्वृतः कुशिनगर्यां बुद्धो भगवान् ॥ पापीयका मल्लाश् चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः क्रौड्या वैशालका लिच्छवयः कापिलवास्तव्याः शाक्याश् चतुरङ्गं बलकायं सन्नाह्य कुशिनगरीम् उपसंक्रान्ता येन शरीरपूजा शरीरभागस्याहरणाय ॥ तस्माद् वयम् अपि चतुरङ्गं बलकायं सन्नाह्य भगवतः शरीरभागम् आहरिष्यामः ॥)
(सन्नाहयामि देवेति वर्षाकारः प्रतिश्रुत्य चतुरङ्गं बलकायं सन्नाहयति ॥)
(राजाजातशत्रुर् हस्त्यारूढो भगवतो गुणम् अनुस्मरन् मूर्छितः ॥ हस्तिनो ऽवरोप्याश्वम् आरोप्य तत्रापि मूर्छितः ॥ स इदम् अवोचत् ॥)
(अहं गन्तुम् असमर्थः ॥ गच्छ त्वं वर्षाकार चतुरङ्गं बलकायं सन्नाह्य) येन कौशिनागरा (मल्ला)स् तेनोपसंक्रम्(अ ॥) उ(पेत्यास्माकं वचनेन कौशिनागरान् मल्लान् अल्पाबाधतां च पृच्छाल्पातङ्कतां च लघूत्थानतां च) यात्राञ् च बलं च सुख्(अ)ं (चानव)द्यतां च स्पर्श(विहारतां च ॥ एवं च वद ॥)
(दीर्घरात्रं स भगवान् अस्माकं प्रियश् चाभून् मनापश् च ॥ भवतां ग्रामक्षेत्रे परिनिर्वृतः ॥ अर्)हामो वयं तस्य भगवतः शरीरेषु शरीरभागं ये(न राजगृहे भगवतः शरीरस्तूपं प्रतिष्ठापयिष्यामश् छत्रध्वजपताकांश् चारोपयिष्यामो महांश् च प्रस्थापयि)ष्यामो गन्धैर् माल्यैः पुष्पैर् (धूप्)ऐर् (व्)आ(द्य्)ऐ(ः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः ॥)
(एवं देवेति वर्षाकारो ब्राह्मणमगधमहामात्रो राज्ञो मागधस्या)ज्(आ)तशत्रोर् वैद्(ए)ह्(ईपुत्रस्य प्रतिश्रुत्य चतुरङ्गं बलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं प)त्त्(इ)कायं येन कौशिन्(आ)गरा मल्लास् तेनोपजागम ॥
उ(पे)त्य कौशिनागरान् म्(अल्लान् इदम् अवोचत् ॥)
(शृण्वन्तु भदन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा वा परिषदो वा ॥ राजा मागधो ऽजातशत्रुर् वैदेहीपु)त्रो भव्(अ)तां अ(ल्पाबाधतां च पृच्छत्य् अल्पातङ्कतां च लघूत्थानतां च यात्राञ् च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च ॥ एवं च वदति ॥)
दीर्घरात्रं स भगवा(न् अस्माकं) प्रियश् चाभ्(ऊन् मनापश् च ॥ भवतां ग्रामक्षेत्रे परिनिर्वृतः ॥ अर्हामो वयं तस्य भगवतः शरीरेषु शरीरभागं येन राजगृहे भ)गवतः शरीरस्तूपं प्रतिष्ठा(पयिष्)य्(आ)म(श् छ)त्रध्वजपता(कांश् चारोपयिष्यामो महांश् च प्रस्थापयिष्यामो गन्धैर् माल्यैः पुष्पैर् धूपैर् वाद्यैः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्या)मः ॥
यत् खलु भवा(न् वर्षाकारो जानीयात् ॥ अस्माकम् अपि स भगवान् प्रियश् चाभून् मनापश् च ॥) अस्माकं (ग्रामक्षेत्रे परिनिर्वृतः ॥ नार्हामो वयं प्रदातुं भगवतः शरीरेषु शरीरभागम् ॥)
(अथ वर्षाकारो ब्राह्मणमगधमहामात्रः कौशिनागरान् मल्लान् इदम् अवोचत् ॥)
(सचेद् दत्तम् एवं साधु ॥ य)दि वा न (द्)आस्य(थ सेनयापहरिष्यामः ॥)
(तथा भवतु कौशिनागरा मल्लाः प्रतिश्रुत्य राज्ञां संघं गणं परिषदम् अवलोक्य मल्लिका मल्लकुमारांश् च धनुर्विद्याम् उपदिशन्ति ॥)
(यावत् पापीयका मल्लाश् चलकल्पका बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः क्रौड्या वैशालका लिच्छवयः कापिलवास्तव्याः शाक्या वर्षाकारश् च मगधमहामात्रश् चतुरङ्गं बलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं कौशिनागराणां मल्लानां पुरस्तात् संग्रामाय व्यूढास्)
(तावत् कौशिनागरा मल्ला मल्ल्लिका मल्लकुमाराश् च चतुरङ्गं बलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं बहिर् नगर्याः शत्रोः सप्तकबलकायस्य पुरस्तात् संग्रामायापि व्यूढाः ॥)
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0