महापरिनिर्वाणसूत्र · अध्याय 51
(तेन खलु समयेन धूम्रसगोत्रो ब्राह्मणस् तस्यां च परिषदि सन्निषण्णो ऽभूत् सन्नि)पतितः ॥ अथ धूम्रसगोत्रो ब्राह्मण उभयतो व्यूहग्(ए)षु स्(अं)ग्रामानीक्(ए)ष्व् (अचिरम् अन्योन्यविप्रघातिकां करिष्यन्तीति वि)द्(इ)त्वाज्(इ)न्(अं दण्ड)क्(ए रोप)यमाणो येन कौशिना(ग)रा मल्लास् तेनोपजगाम ॥ उपे(त्य क्)औ(शिना)गरान् मल्ल्(आन् इदम् अवोचत् ॥)
(शृण्वन्तु) भवन्तः कौशिनागरा मल्लाः स्(अ)ं(घा वा ग)णा वा पूगा वा परिषदो (वा ॥)
(दीर्)घ्(अ)रात्(र्)अं स भगवान् वीत(रा)गः क्षेमश् चा(भूत् क्षान्तिप्रशंसी क्षान्तिवादी ॥ यद् वीतरागस्य क्षेमस्य क्षान्तिप्रशंसिनः क्षान्तिवादिनो वाचं विकुर्वन्तो भवन्तस् त)स्य्(अ) भवतो गौतमस्य शरीरकारण्(आद् अन्योन्यविप्रघातिकां कर्तुम् उद्युक्ता अप्रतिरूपम् ॥ अहं भवतो गौतमस्य शरीराण्य् अष्टधा विभक्तुम् औत्सुक्यम् आपत्स्ये ॥ यस्मिंस् तु कुंभे तान्य् अस्थीनि प्रक्षि)प्तानि भवन्ति स (कु)ंभो ऽस्माक(म् अनुप्रदातुं येन) वयं द्रो(णग्रामके भगवतः कुंभ)स्तूपं प्रतिष्ठापयिष्यामश् छत्रध्वजपता(कांश् चारोपयिष्यामो महांश् च प्रस्थापयिष्यामो गन्धैर्) माल्यै(ः) पुष्(प्)ऐ(र् धूमै)र् वाद्यैः सत्(करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः ॥)
त्(अथा) भवतु कौशिनागरा मल्ला (धूम्रसगोत्रस्य ब्राह्मणस्य) प्र्(अ)त्(यश्रौषुः ॥)
(अथ धूम्रसगोत्रो ब्राह्मणो येन पापीयका म)ल्लाश् (च)ल(कल्प)का (बुलका विष्णुद्वीपीयका ब्राह्मणा रामग्रामीयकाः) क्र्(औ)ड्य्(आ वै)शालका ल्(इ)च्छवयः कापिलव्(आस्तव्याः शाक्या वर्षाकारो ब्राह्मणमगधमहामात्रस् ते)नोपजगाम ॥
उपे(त्य वर्षाकारं ब्राह्मणमगधमहामात्रम् इदम् अवोचत् ॥)
यत् खलु वर्षाकार जानीया(ः ॥) दीर्घरात्रं स्(अ भगवान् वीतरागः क्षेमश् चाभूत् क्षान्तिप्रशंसी क्षान्तिवादी ॥ यद् वीतरागस्य क्षेमस्य क्षान्तिप्रशंसिनः क्षान्तिवादिनो वाचं विकुर्वन्)तो भवन्तस् तस्य भव्(अतो) गौतमस्य (श)र्(ईरकार)णाद् अन्योन्यविप्रघातिकां कर्तुम् उद्यु(क्त्)आ (अप्रतिरूपम् ॥ अहं भवतो गौतमस्य शरीराण्य् अष्टधा विभक्तुम् औत्सुक्यम् आपत्स्ये ॥ यस्मिं)स् तु कुंभे तान्य् अस्थीनि प्रक्षिप्तानि भवन्ति स कुंभो ऽस्मा(कम् अनुप्रदातुं ये)न्(अ) व्(अ)य्(अं) द्रोणग्रामके (भ)गवतः कुंभ्(अस्तूपं प्रतिष्ठाप)य्(इ)ष्याम(श् छत्रध्वजपताकांश् चारोपयिष्यामो महांश् च प्रस्थापयिष्यामो गन्धैर् माल्यैः पुष्पैर्(?) धूमैर् वाद्यैः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः प्)ऊ(ज)यिष्यामः ॥
तथा भवतु वर्षाकार्(ओ ब्राह्मणमगधमहामात्रो धूम्रसगोत्रस्य ब्राह्मणस्य प्रत्यश्रौषीत् ॥)
(अथ धूम्रसगोत्रो ब्राह्मणो भगवतः शरीराण्य् अष्टधा भेजे ॥)
अथ धूम्रसगोत्रो ब्राह्मण एकं भागं कौशिनागराणां मल्लानाम् अनुप्रयच्छ(ति येन कौशि)नागरा मल्ला कुशिनगर्यां भ(गवतः शरीरस्तूपं प्रतिष्ठा)पयन्ति च्छत्रध्वजपताकांश् चारोपयन्ति महांश् च प्रस्थापयन्ति गन्धैर् माल्यै(ः) पुष्पैर् धूपैर् (व्)आद्(य्)ऐ(ः सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पू)जयन्ति ॥
द्वितीयं भागं पापीयकानां मल्लानाम् अनुप्रयच्छति येन पापीयक्(आ) म्(अ)ल्लाः पापाया(ं) भगवतः शरीरस्तूपं प्रतिष्ठापयन्(ति) पूर्ववद् यावत् पूजयन्ति ॥
तृइतीयं भागं चलकल्पकाना(ं) बुलकानाम् अनुप्रयच्छति येन चलकल्पका बुलकाश् चलकल्पायां भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद् यावत् पूजयन्ति ॥
चतुर्थं भागं विष्णुद्वीपीयकानां ब्राह्मणानाम् अनुप्रयच्छति येन विष्णुद्वीपीयका ब्राह्मणा विष्णुद्वीपे भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद् यावत् पूजयन्ति ॥
पञ्चमं भागं रामग्रामीयकाणां क्रौड्यानाम् अनुप्रयच्छति येन रामग्रामीयकाः क्रौड्या रामग्रामके भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद् यावत् पूजयन्ति ॥
षष्ठं भागं वैशालकाना(ं) लिच्छवीनाम् अनुप्रयच्छति येन वैशालका लिच्छवयो वैशाल्यां भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद् यावत् पूजयन्ति ॥
सप्तमं भागं कापिलवास्तव्यानां शाक्यानाम् अनुप्रयच्छति येन कापिलवास्तव्याः शाक्याः कपिलवस्तुनि भगवतः शरीरस्तूपं प्रतिष्ठापयन्ति पूर्ववद् यावत् पूजयन्ति ॥
अष्टमं भागं वर्षाकारस्य ब्राह्मणमगधमहामात्रस्यानुप्रयच्छति येन राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रो राजगृहे भगवतः शरीरस्तूपं प्रतिष्ठापयति च्छत्रध्वजपताकांश् चारोपयति महांश् च प्रस्थापयति गन्धैर् माल्यैः पुष्पैर् धूपैर् वाद्यैः सत्करोति गुरुकरो(त्)इ मा(न)यति पूजयति ॥
यस्मिंस् तु कुंभे तान्य् अस्थीनि प्रक्षिप्तानि भवन्ति तं कुंभं धूम्रसगोत्राय ब्राह्मणायानुप्रयच्छन्ति येन धूम्रसगोत्रो ब्राह्म्(अणो द्रोणग्रामके कुं)भस्तूपं प्रतिष्ठापयति पूर्ववद् यावत् पूजयति ॥
तेन (खलु समयेन) प्(इ)प्पलायनो माणवस् तस्यां च परिषदि स्(अन्निषण्णो ऽहूत् सन्निपतितः ॥)
(अ)थ पिप्पलायनो माणवः कौशिनागरान् मल्लान् इदम् अवोच्(अत् ॥)
(शृण्वन्तु भवन्तः कौशिनागरा म)ल्लाः संघा वा गणा वा पूगा वा (परिषदो वा ॥ दीर्घरात्रं स भवाङ् ग्)औ(तमो ऽस्माकं प्र्)इ(य)श् (च्)आभ्(ऊ)न् मनापश् (च ॥) भवतां ग्(र्)आमक्षेत्रे परिनिर्वृतः ॥ अर्हामो व्(अयं तस्य भगवतः शरीरेषु शरीरभागम् ॥ इदानीं विभक्तेषु शरीरेषु ये ज्वलनस्याङ्गारास् ते) ऽस्माकम् अनुप्रदातुं यैर् अङ्गा(रस्तूपं भ)वत्(ओ) ग्(औ)तमस्य (पिप्पलवत्यां प्रतिष्ठापयिष्याम्)इ च्छ्(अत्र)ध्(व)जपताकां(श् चारोपयिष्यामि महांश् च प्रस्थापयिष्या)म्(इ) गन्धै(र्) माल्यैः पुष्पैर् धूपैर् वाद्यैः सत्करिष्यामि गुरुकरिष्या(मि मानयिष्यामि पूजयिष्यामि ॥)
(अनुप्रयच्छन्ति) कौशिनागरा (मल्)ल्(आः पिप्पलाय)नाय माणवाय्(अ शरीराणाम् अङ्गा)रान् यैः पिप्पलायनो माणव(ः प्)इप्पलवत्यां अङ्गरस्त्(ऊपं प्रतिष्ठाप)यति च्छत्रध्वजपताकांश् चारोपयति महांश् च प्रस्था(पयति गन्धैर् माल्यैः पुष्पैर् धूपै)र् वाद्यै(ः) सत्करोति गुरुकरो(ति मान)यति पूजयिष्यति ॥
तेन ख(लु समयेन जम्)ब्(उ)द्वीपे भगवतो ऽष्टौ शरीरस्तूपा अभूवन् न्(अवमश् च कुम्भस्तूपो दशमश् चा)ङ्गारस्तूपः ॥
इयं अत्र धर्मता ॥ तस्माद् इदम् उच्यते
चक्षुष्मतो ऽष्टौ द्रोण्(आः शरिराणां
जम्बुद्वी)पे सप्त पूजां लभन्ते ॥
द्रोणम् एकं (च) पुरुषोत्त्(अमस्य
रामग्रामे पूज्यते नागरा)ज्(ञ्)आ ।
दंष्ट्राचतुष्कं पुरुषोत्तमस्य
एका (दं)ष्ट्(र्)आ पूज्यते त्रिदशलोके ॥
द्(व्)इतीय्(आ गन्धारपुरे मनोर)मे
कलिङ्गराज्ञो वि(ज्)इ(ते तृत्)ईया ॥
दंष्(ट्र्)आ (चतुर्थी पुरुषोत्तमस्य
रामग्रामे पूज्यते नागराज्ञा ।)
नुर् तिब्. उन्द् छिन्.; पालि; च्f. दिव्य् 379.19f.
नुर् तिब्. उन्द् छिन्.; पालि
नुर् तिब्.
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0