भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 49

49.1

(अथ कौशिनागरा मल्ला भगवतः शरीरं विहतैः कर्पासैर् वेष्टयित्वा पञ्चभिर् युगशतैर् वेष्टयित्वा तैलपूर्णायाम् अयोद्रोण्यां प्रक्षिप्यान्ययायोद्रोण्या प्रच्छाद्य सर्वग)न्धकाष्ठैश् चितां चित्वा प्रज्वालयितुकामा न श्(अक्नुवन्ति प्रज्वालयितुम् ॥)

49.2

(अथायुष्मान् अनिरुद्ध आयुष्मन्तम् आनन्दम् इदम् अवोचत् ॥)

49.3

(न शक्ष्यन्ति कौशिन्)आगरा मल्ला भगवतश् चितां प्रज्वालयित्(उम् ॥ तत् कस्माद् धेतोः ॥ देवतानाम् अभिप्रायः ॥)

49.4

(कश् च भदन्तानिरुद्ध देवतानाम् अभिप्रायः ॥)

49.5

(देवतानाम् अभिप्रायः ॥) आय्(उ)ष्मान् महाकाश्यप(ः) पञ्चशतपरिवार्(ओ ऽन्तरा च पापाम् अन्तरा च कुशिनगरीम् अत्रान्तराध्वप्रतिपन्नो भगवतो शरीरम् अविगोपितं वन्दितुकामः ॥)

49.6

(तथा भवतु भदन्तानिरुद्ध यथा देवतानाम् अभिप्रायः ॥)

49.7

(अथायुष्मान् आ)नन्दः कौशिनागरान् मल्लान् इ(दम् अवोचत् ॥)

49.8

(न शक्ष्यथ वासिष्ठा भगवतश् चितां प्रज्वालयितुम् ॥ तद् कस्माद् धेतोः ॥ देवतानाम् अभिप्रायः ॥)

49.9

(कश् च भदन्तानन्द देवतानाम् अभि)प्(र्)आयः ॥

49.10

देव्(अ)त्(आनाम् अभिप्रायः ॥ आयुष्मान् महाकाश्यपः पञ्चशतपरिवारो ऽन्तरा च पापाम् अन्तरा च कुशिनगरीम् अत्रान्तराध्वप्रतिपन्नो भगवतो) श्(अ)र्(ईरम् अविगोपितं वन्दितुकामः ॥)

49.11

(तथा भवतु भदन्तानन्द यथा देवतानाम् अभिप्रायः ॥)

49.12

(अथायुष्मान् महाकाश्यपो ऽनुक्रमेण प्राप्य कुशिनग)र्(ईं) येन भगवतश् चिता त्(एनोपजगाम ॥)
(अद्राक्षीत्) परिषद् आयुष्म(न्)त(ं) महा(का)श्यप(ं) दूरत एव ॥

49.13

दृष्ट्वा च पुनर् य्(एनायुष्मान् महा)काश्यपस् तेन्(ओ)पस(ङ्)क्रान्ता ॥ उपेत्यायुष्मन्तं महाकाश्यप(ं) पृष्ठत(ः) पृष्ठतः समनुबद्धा ॥

49.14

अथायुष्मान् म(हा)काश्यपो येन भगवतश् चिता ते(नोपजगाम ॥)

49.15

(उ)प्(ए)त्य तैलपूर्णाम् अयोद्रोणिं विगोप(य)ति पञ्चयुगशतानि विगोपयति विहतानि कर्पासानि विगोपयति विहतानि कर्पासानि व्(इगोपयित्वा भ)गवतः शरीरम् अविगोपितं वन्दते ॥

49.16

तेन खलु समयेन पृथिव्य्(आं) चत्वारो महास्थविरा अभूवन् तद्यथायुष्मान् आज्ञातकौण्ड्(इण्य आयु)ष्मान् महाचुन्द आयुष्मान् दशबलकाश्यप आयुष्मान् महाकाश्य(पः ॥)

49.17

तेषाम् आयुष्मान् महाकाश्यपो ज्ञातो म(हा)पुण्यो लाभी चीवरपिण्डपातशयन्(आसन)ग्ल्(आ)नप्रत्ययभैषज्यपरिष्काराणाम् ॥

49.18

अथा(यु)ष्मतो (म)हाकाश्य(प)स्यैतद् अभवत् ॥

49.19

यन्न्व् अहं स्वयम् एव भगवतः शरीरपूजायाम् औत्सुक्यम् आपेद्येय्(अ ॥)

49.20

(अथायु)ष्मान् महाकाश्यपो ऽन्यानि विहतानि (क)र्पासा(न्य्) अन्यानि पञ्चयुगशतानि समुदानीय भगवतः शरीरं विहतैः कर्प्(आ)सैर् व्(ए)ष्ट(यित्वा पञ्च)भ्(इ)र् युग(शतैर् वेष्टयित्वा तैलपूर्णायाम् अयोद्रोण्यां प्रक्षिप्यान्य)यायोद्रोण्या प्रच्छाद्य सर्वगन्धकाष्ठैश् चितां चित्वैकान्ते ऽपक्रान्तः ॥

49.21

अथ सा चि(ता स्वय)म् एव प्रज्वलिता (य)थापि (तद् बुद्धस्य बुद्धानुभावेन दे)वतानां (च) द्(ए)व्(अ)तानुभावेन ॥

49.22

अथायुष्मान् आनन्दस् तस्यां वेलायां चिताम् अनु(क्रमङ्) गा(थे) बभाषे ॥

49.23

येन कायरत्न्(ए)न्(अ ना)यको
ब्रह्मलोकम् अगमन् महर्द्धिकः ॥
दीप्यते स्वतनुजेन तेजसा
पञ्चभिर् युगशतैः स वेष्(ट्)इ(तः ।)

49.24

(सहस्र)मात्रेण हि चीवराणां
बुद्धस्य क्(आ)यः परिवेष्टितो ऽभूत् ॥
द्वे चीवरे तत्र तु नैव दग्धे
अभ्यन्तरं बाह्यम् अथ द्व्(इ)त्(ई)यम् ।

49.25

अथ कौशिनागरा म(ल्ला गोवता क्षी)र्(ए)ण निर्वापयन्ति ॥ तत्र चत्वार्(ओ) व्(ऋ)क्षा(ः) प्रादुर्भूता(ः) काञ्चनः कपि(त्थो ऽश्वत्थ) उदुम्बरः ॥

49.26

अथ कौशिना(ग)रा मल्लास् तान्य् अस्थीनि सौवर्णे कुं(भे) प्रक्षिप्य सौवर्ण्यां शिविकायाम् आरोप्य गन्धै(र्) म्(आ)ल्य्(ऐ)ः (प्)उष्(प्)ऐर् ध्(ऊ)पैर् वाद्यैः सत्कुर्वन्तो (गुरुकुर्वन्तो मानयन्तो पूजयन्तो नगरं प्रवेश्य त)स्म्(इ)न् (अ)ग्रागा(र्)ए (महाम)ण्डल उपनिक्(ष्)इप्(य गन्ध्)ऐ(र् माल्यैः पुष्पैर् धूपैर् वाद्यैः सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc