भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 48

48.1

तेन (खलु सम)येन कुशिनगरी दिव्यैर् मन्दारकैः पुष्पैर् जानुमात्रेणौघेन स्फुटा बभूव ॥

48.2

अथान्यतर आजीविकस् ततो दिव्यानि मन्दारकाणि पुष्पाण्य् आदाय पापां (प्)र(क्रान्तः केनचि)द् एव करणीयेन ॥

48.3

तेन खलु समयेनायुष्मान् महाकाश्(यपः) पञ्चशतपरिवारो ऽन्तरा च पापाम् अन्तरा च कुशिनगरीम् अत्रान्तराध्वप्रतिपन्(नो भगवतो शरी)रम् अविगोपितं वन्दितुकामः ॥

48.4

अद्राक्(ष्)ईद् आयुष्मा(न्) महाकाश्य्(अप)स् तम् (आ)जीविक(ं) प्रतिमार्ग(म्) ॥ दृष्ट्वा च पुनर् (ए)वम् आह ॥

48.5

कुतस् त्वम् आजीविकैतर्ह्य् (आ)गच्छसि ॥ कु(त्र त्वं गमिष्यसि ॥)

48.6

(कु)श्(इ)नगर्या अहम् एतर्ह्य् आगच्छामि ॥ प्(आ)पां गमिष्यामि ॥

48.7

जानीषे त्वम् आजीविक मम शास्तारम् ॥

48.8

जाने ॥ श्रमणो गौतमः ॥ परिनिर्वृतस् ते आयुष्मञ् छास्ता ॥ अद्य (गते सप्ताहे व)र्तते शरीरे शरीरपूजा ॥ इमानि च मे तस्मान् मन्दारकपुष्पाण्य् आनीतानि ॥

48.9

अथान्यतरो महल्लकस् तस्यां वेलायाम् इदम् एवंरूपम् अक्(आलभाष्यं) उत्सृष्टवान् ॥

48.10

मुक्ताः स्मस् ततः कौकृतिकान् महल्लात् ॥ य एवम् आह ॥ इदं वो भिक्षवः करणीयम् इदम् अकरणीयम् ॥ इदानीं वयं यद् एषि(ष्यामस् तत् क)र्(इ)ष्याम(ः) ॥ यन् नैषिष्यामस् तन् न करिष्यामः ॥

48.11

तत् खल्व् अकालभाष्यं देवता अन्तर्धापयन्ति यथा तस्यां परिषद्य् एकभिक्षुर् अपि नाश्रौषीत् स्(था)पयित्वा(युष्मन्तं म)हाकाश्यपम् ॥

48.12

तत्रैकत्या भिक्षवः पृथिव्याम् आ(व)र्त्(अ)न्ते परिवर्तन्ते ॥ एकत्या ब्(आ)हून् प्रगृह्य प्रक्रोशन्ति ॥ एवम् चाह्(उ)ः ॥ अतिक्षिप्रं भगवान् (परिनि)र्व्(ऋतः ॥ अतिक्षिप्रं) सुगतः परिनिर्वृतः ॥ अतिक्षिप्(र्)अं चक्(षु)र् लोकस्(य्)आ(न्तर्हितः ॥)

48.13

(अथायुष्मा)न् म्(अ)ह्(आ)क्(आ)श्य्(अपस्) त्(अ)स्य्(आ) वा(चाया एवमसंयताया विनोदनाय मार्गाद् अवक्रम्य भिक्षुसंघस्य मध्ये प्रज्ञप्त एवासने न्यषीदत् ॥ निषद्यायुष्मान् महाकाश्यपो भिक्षून् आमन्)त्र्(अ)य्(अते ॥)

48.14

(अन्)इत्या आयुष्मन्तः सर्वसंस्कारा अ(ध्रु)वा अन्(आश्वसिका विपरिणामधर्माणः सर्वसंस्कारा यावद् अलम् एव सर्वसंस्कारेभ्यो निर्वेत्तुम् अलं विरक्)तुम् अलं विमोक्तुम् ॥

48.15

त्वरित्(अं) त्वरितम् आयुष्मन्तो भिक्षवः पर्(आक्रमन्तु ॥ भगवतः शरीरम् अविगोपितं द्रष्टुं गच्छामः ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc