भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 47

47.1

अथ्(आ)न्यतरः कौशिनाग(रो मल्ल आयु)ष्मन्तम् आनन्दम् इदम् अवोचत् ॥

47.2

य्(अथा खलु व)यं भदन्तानन्दस्य (भा)ष्(इ)तस्यार्थम् आजानीमस् तद् इदम् (अ)ह्(आन्त)रम् अ(थवा द्वित्र्यहान्तरं न समुदानयामः ॥ सप्ताहान्तरं) समुदानयित्(वा सिंहशय्यायां व)यं भगवतः श्(अरी)रपूजां करिष्यामः ॥

47.3

ए(वम् एवेत्य् आयुष्मत आनन्दाच् छ्रुत्वा)

47.4

(तस्मिन् सप्ताहे भगवतः सिंहशय्यायां कौशि)नागरा मल्ला या(वत् कुशिन)गरी यावन् नदी हिरण्यवती यावद् यम(कशा)लवनं यावन् मल्लानां मकुटबन्धनं (चैत्यम् अत्रान्तरा द्वादश योजनानि साम)न्तकेन यद् ग(न्)ध्(अं माल्यं पुष्पं) धूपं वाद्यं तत् सर्वं स्(अमुदानयन्ति ॥ विहतानि कर्पासान्य् अयोद्रोणीं सर्वगन्धकाष्ठं सौवर्णकुंभं सौवर्णशिविकां त)च् च समुदानयन्त्(इ ॥ भग)वतः शरीरं सत्कुर्वन्ति गुरुकु(र्वन्ति मानयन्ति पूजयन्ति ॥)

47.5

(अथान्यत)रः कौशिनागरो म्(अल्लः कौशिनागरान् मल्लान् इदम् अ)वोचत् ॥

47.6

शृण्वन्(तु) भवन्तः कौश्(इनागरा मल्ला गणा) वा पूगा वा परिष्(अदो वा ॥ मल्लि)क्(आश् च म)ल्ल्(अकु)म्(आ)र्(इ)क्(आ)श् च भगवत(श् चैलवितानं वित)न्वन्त्(उ ॥) मल्लाश् (च म)ल्लकुमारा(श् च भगवतः शिविकां प्रगृह्णन्तु ॥) गन्धैर् माल्यै(ः) पुष्पैर् धूपै(र् वाद्यैर् भगवतः शरीरं सत्कुर्वन्त्)ओ गुरुकुर्वन्तो मानयन्तः पूजयन्तः प्(अश्चिमेन नग)रद्वारेण कुशि(नगरीं प्रवेशयित्वा मध्यमध्येनान्वाहिण्डयित्वा पूर्वेण नगरद्वारेण निष्कासयि)त्वा मल्लानां मकुटबन्ध्(अने) चैत्ये ध्याप्(अयन्त्व् इति ॥)

47.7

तथा भवतु कौशिनागरा मल्लाः प्रत्यश्रौषुः ॥

47.8

अथ मल्ल्(इ)क्(आश् च मल्लकुमारिकाश् च भगवतश् चैलवितानं वित)न्व्(अन्)ति ॥ मल्लाश् च मल्लकुमा(राश् च शिवि)कां प्रग्रहीतुकामा न शक्नुवन्ति प्रग्रहीतुम् ॥

47.9

अथायुष्म्(आन् अनिरुद्ध आयुष्मन्तम् आनन्दम् इदम् अवो)चत् ॥

47.10

न शक्ष्यन्त्य् आयुष्मन्(न् आनन्द कौशिनागरा म)ल्ला भगवतः शिविकां प्रग्रहीतुम् ॥ तत् कस्माद् धेतोः ॥ देवतान्(आम् अभिप्रायः ॥)

47.11

(कश् च भदन्तानिरुद्ध दे)वतानाम् अभि(प्रायः ॥)

47.12

(देवतानाम् अभिप्रायः ॥) मल्लिकाश् च मल्लकुमारिकाश् च भगवतश् चैलवितानं वितन्वन्त्(उ ॥ मल्लाश् च मल्लकुमाराश् च भगवतः शिविकां प्रगृह्णन्)तु ॥ ते (वयं गन्धैर् माल्यैः पुष्पैर् धूपैर् वाद्यैर् भगवतः शरीरं सत्कु)र्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तः पश्चिमेन नगरद्वार्(एण कुशिनगरीं प्रवेशयित्वा मध्यमध्येनान्वाहिण्डयित्वा पूर्वेण नगरद्वारेण) निष्कासयित्वा मल्लानां मकुटबन्धने चैत्ये ध्यापयिष्यामः ॥

47.13

(तथा भवतु भदन्तानिरुद्ध यथा देवतानाम् अभिप्रायः ॥)

47.14

अथायुष्म्(आन् आनन्दः कौशिनागरान् मल्लान् इदम् अवोचत् ॥)

47.15

(न शक्ष्यथ वासिष्ठा भगवत्)अः शिविकां प्रतिग्रहीतुम् ॥ तत् कस्माद् धेत्(ओ)ः ॥ द्(ए)वतानाम् अभिप्रायः ॥

47.16

कश् च भदन्तानन्द देवताना(म् अभिप्रायः ॥)

47.17

(देवतानाम् अभिप्रायः ॥ मल्लिकाश् च मल्लकुमारिका)श् च भगवत(श् च्)ऐ(ल)वि(तानं वितन्व)न्तु मल्लाश् च मल्लकुमाराश् च भगवतः शिविकां प्रगृह्णन्तु ॥ ते (वयं गन्धैर् माल्यैः पुष्पैर् धूपैर् वाद्यैर् भगवतः शरी)रं सत्कु(र्)व्(अन्तो) गुरुकुर्व्(अन्)तो (मानयन्तः पूजय)न्तः पश्चिमेन नगरद्वारेण कुशिनगरीं प्रवेशयित्वा मध्य(मध्येनान्वाहिण्डयित्वा पूर्वेण न)गरद्वारेण निष्कासयित्वा मल्लानां मकुटबन्धने चैत्ये ध्यापयिष्यामः ॥

47.18

तथा भवतु भदन्तानन्द यथा (देवतानाम् अभिप्रायः ॥)

47.19

(अथ मल्लिकाश् च मल्लकुमारि)काश् च भगवतश् चैलवितानं वि(तन्वन्ति ॥ मल्लाश् च) मल्लकुमाराश् च भगवतः शिविकां प्रगृह्णन्ति ॥

47.20

समन(न्)त्(अरप्रगृहीतायां शिविकायां देवता अन्तर्)ई(क्षाद्) द्(इ)व्यान्य् उत्पलानि पद्मानि (कुमुदानि पुण्डरीकान्य् अ)गरुचूर्णानि तगरचूर्ण्(आ)नि चन्दनचूर्णानि दिव्यान्(इ) म्(अन्दारकप्)उष्पाणि क्षिपन्ति दिव्यानि च वाद्यानि स(ं)प्रवादयन्ति चैलव्(इ)क्ष्(ए)पं चाकार्षुः ॥

47.21

अथ्(आ)न्य्(अतरः कौशिनागरो मल्ल)ः कौशिनागरा(न्) मल्लान् (इ)दम् अवोचत् ॥

47.22

प्र्(अतिक्)ष्(इपामो) वयं मानुष्यकाणि वाद्यानि दिव्य्(ऐ)र् व्(आद्य्)ऐर् (भ)गवतः शरीरपूजां करिष्यामः ॥

47.23

प्रतिक्षिपन्ति (कौशि)नागरा म्(अल्ला मानु)ष्यकाणि वाद्यानि दिव्यैर् गन्धैर् माल्यै(ः) पुष्पैर् धूपैर् वाद्यैर् भगवतः शरीरं सत्कुर्वन्तो गुरुकुर्वन्तो मानयन्तः पूजयन्तः पश्चि(मे)न नगरद्व्(आरेण कुशि)नगरीं प्रवेश्(अ)यित्वा मध्यमध्येनान्वाहिण्डयित्वा पूर्वेण नगरद्वारेण निष्कासयित्वा मल्लानां मकुटबन्धने चैत्ये उपनिक्षिपन्ति ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc