भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 46

46.1

अथ कौशिनागरा मल्ला यावत् क्(उ)शिनगर्यां गन्धं माल्यं पुष्पं धूपं वाद्य(ं) तत् सर्व्(अं समुदानीय सपुत्रदाराः सदासीदासपौरुषेयाः समित्रामात्यज्ञातिसालोहिताः कुशिन)गर्या निष्क्रम्य य्(ए)न यमकशालवनं तेन्(ओ)पजग्म्(उः ॥)

46.2

उ(पे)त्य भ्(अ)गवतः सिंहशय्यां गन्(ध्)ऐर् (मा)ल्(य्)ऐः (पुष्पैर् धूपैर् वाद्यैः सत्कुर्वन्ति गुरु)कुर्वन्ति मान(यन्)त्(इ) पूजयन्ति ॥

46.3

अथान्यत्र उत्सदः कौशिनागरो मल्ल आयुष्(म)न्तम् आनन्दम् इदम् (अवोचत् ॥)

46.4

(कथं भदन्तानन्द पुन)र् भगवतः शर्(ई)रपूजायाम् औ(त्सुक्यम् आपद्येमहि ॥)

46.5

तद्यथा वासिष्ठा राज्ञश् चक्रवर्तिनो यथा ॥

46.6

कथं भदन्तानन्द (राज्ञश् चक्रवर्तिनः ॥)

46.7

(वासिष्ठा राज्ञ)श् चक्रवर्तिनः कायो विहतैः (कर्पासैर् वेष्ट्यते ॥ विहतैः) कर्पासैर् वेष्टयित्वा पञ्चभिर् युगशतैर् वेष्ट्यते ॥ पञ्चभिर् युगशतै(र् वेष्टयित्वा तैलपूर्णायाम् अयो)द्रो(ण्)य्(आं) न्(इ)क्षिप्(यान्ययायोद्रोण्या प्रच्छाद्य) गन्धकाष्ठैश् चिता(ं) चित्वा ध्याप्यते गोवता क्षीरेण निर्वाप्यते ॥ तान्य् अस्थीनि स्(औवर्णे कुंभे प्रक्षिप्य सौवर्ण्)य्(आं शि)विकायाम् आरो(प्य चतुर्महापथे शरीरस्तू)पः प्रतिष्ठाप्यते च्छत्रध्वजपताकाश् च्(आ)र्(ओ)प्य्(अन्)ते महश् च प्रस्थाप्यत्(ए) गन्धैर् माल्यैः पुष्पैर् (धूपैर् वाद्यैः सत्क्रि)यते गुरुक्रिय्(अ)ते मान्यते पूज्यते ॥

46.8

(एवम् एव वासिष्ठा) राज्ञश् चक्रवर्तिनः ॥ अत उत्तरे तथागतस्यार्हतः सम्यक्संबुद्धस्य ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc