महापरिनिर्वाणसूत्र · अध्याय 44
(समनन्तरपरिनिर्वृते बुद्धे भगवत्य् उभौ यमकशालवनस्य द्रुमोत्तमौ तथागतस्य सिंहशय्यां शालपुष्पैर् अवाकि)रताम् ॥
अथान्यतरो भिक्षुस् त्(अस्यां वेलायां गाथां बभाषे ॥)
(सुन्दरौ खल्व् इमौ
शालवनस्यास्य) द्रुम्(ओत्तमौ ॥
यद् अवाकिरतां पुष्पैः
शा)स्(त्)आरं परिनिर्वृतम् ।
स्(अमनन्तरपरिनिर्वृते बुद्धे भगवति श)क्रो देवेन्द्रस् त्(अस्यां वेलायां गाथां बभाषे ॥)
(अनित्या वत संस्कारा
उत्पादव्ययधर्मिणः ॥
उत्पद्य हि निरुध्यन्ते
तेषां व्युपशमस्) सुखम् ।
(स)मनन्तरपर्(इनिर्वृते बुद्धे भगवति ब्रह्मा सहांपतिर् गाथां बभाषे ॥)
(सर्वभूतानि लोके ऽस्मिन्
निक्षेप्स्यन्ति स)म्(उ)च्(छ्)रयम् ॥
(ए)वंविधो यत्र शा(स्ता
लोकेष्व् अप्रतिपुद्गलः ॥
तथागतबलप्राप्तः
चक्षुष्मान् परिनिर्वृतः ।)
(समनन्तरपरिनिर्वृते बुद्धे भगवत्य् आयुष्मान् अ)निर्(उ)द्धस् त्(अस्य्)आं (वेलायां) गाथा बभ्(आषे ॥)
(स्थिता आश्वासप्रश्वासा
स्थिरचित्तस्य तायिनः ॥
आनिञ्ज्यं शान्तिम् आगम्य
चक्षुष्मान्) परिनि(र्वृतः ॥)
(तदाभवद् भीषणकं
तदाभूद् रोमहर्षणम् ॥
सर्वाकारबलोपेतः
शास्ता कालं यदाकरोत् ।)
(असंलीनेन चित्तेन
वेदना अधिवासयन् ॥
प्रद्योतस्येव निर्वाणं
विमोक्षस् तस्य चेतसः ।)
(तत्रैकत्या भिक्षवः पृथिव्याम् आवर्तन्ते परिवर्तन्ते ॥ एकत्या बाहून् प्रगृह्य प्रक्रोशन्ति ॥ एवं चाहुः ॥ अतिक्षिप्रं भगवान् परिनिर्वृतः ॥ अतिक्षिप्रं सुगतः परिनिर्वृतः ॥ अतिक्षिप्रं चक्षुर् लोकस्यान्तर्हितः ॥)
(एकत्याश् चेतोदुःखसमर्पितास् तिष्ठन्ति ॥ एकत्या धर्मताम् एव प्रतिस्मरन्ति ॥ प्राग् एवास्माकं भगवताख्यातं सर्वैर् इष्टैः कान्तैः प्रियैर् मनापैर् नानाभावो भविष्यति विनाभावो विप्रयोगो विसंयोगः ॥ कुत एतल् लभ्यं यत् तज् जातं भूतं कृतं संस्कृतं वेदयितं प्रतीत्यसमुत्पन्नं क्षयधर्मं व्ययधर्मं विभवधर्मं विरागधर्मं निरोधधर्मं प्रलोकधर्मं न प्ररुज्यते नेदं स्थानं विद्यते ॥)
(अथायुष्मान् अनिरुद्ध आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥)
(मन्दं मन्दं) तावद् आयुष्मन्न् आनन्द भिक्षवः पराक्रमन्तु ॥
तथा ह्य् अनेककल्पशतायुषो द्(ए)वता अवध्यायन्ति क्षिपन्ति विवाचयन्ति ॥
कथम् इदानीं भिक्षवः स्व्याख्याते धर्मविनये प्रव्रजिता अप्रतिसङ्ख्यानबहुला विहरन्ति ॥
कियत आयुष्मान् अनिरुद्धो देवताः संजानाति ॥
यावद् आयुष्मन्न् आनन्द कुशिनगरी यावन् नदी हिरण्यवती यावद् यमकशालवनं यावन् मल्लानां मकुटबन्धनं चैत्यम् अत्रान्तरा द्वादश योजनानि सामन्तकेन नास्ति किञ्चिन् महाशक्यमहाशक्याभि(र्) देवताभिर् अस्फुटं स्फरणीयम् अन्ततो दण्डकोटिविष्टम्भनमात्रम् अपि ॥
तत एकत्या देवता(ः) पृथिव्याम् आवर्तन्ते परिवर्तन्ते ॥ एकत्या बाहून् प्(रगृ)ह्य प्रक्रोशन्ति पूर्ववद् यावन् नेदं स्थानं विद्यते ॥
तां खलु रात्रिम् आयुष्मान् अनिरुद्ध आयुष्मांश् चानन्दो यद्भूयसा धार्म्या विनिश्चयकथयातिनामि(तवन्तौ ॥)
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0