भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 45

45.1

(अ)थायुष्मान् अनिरुद्ध आयुष्मन्तम् आनन्दम् आमन्त्रयते ॥

45.2

गच्छानन्द कौशिनागराणां मल्लानाम् आरोचय ॥ परिनिर्वृतो वो वासिष्ठाः शास्ता यद् (व)ः क्(ऋत्य)ं (वा करणी)य(ं) वा तत् कुरुध्वं ॥ मा वः पश्चाद् विप्रतिसारो भविष्यति ॥ कथम् इदानीम् अस्माकं ग्रामक्षेत्रे शास्ता पर्(इ)न्(इर्)वृ(तो) यस्य वय(ं) पूज्(आ)धिकारिकाम् औ(त्)सुक्य्(अं) न स्(अमापन्नाः ॥)
45.3. (एवम् इत्य् आयुष्मा)न् आनन्द आयुष्मतो ऽनिरुद्धस्य प्रतिश्रुत्य संघाटिम् आदायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कौशिनागराणां मल्लानां संस्थागारस् त्(ए)न्(ओ)पजगाम ॥

45.4

तेन खलु समयेन कौशिनागरा मल्लाः संस्थागारे सन्निषण्णाः सन्निपतिता यद्भूयसा तेनैव करणीयेन ॥

45.5

अथायुष्मान् आनन्दः कौशिनागरान् मल्लान् इदम् अवोचत् ॥

45.6

शृण्वन्तु भवन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा वा परिषदो वा ॥ परिनिर्वृतो वो वासिष्ठाः शास्ता यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वम् ॥ मा वः पश्चाद् विप्रतिसारो भविष्यति ॥ कथम् इदानीम् अस्माकं ग्रामक्षेत्रे शास्ता परिनिर्वृतो यस्य वयं पू(ज्)आधिकारिकाम् औत्सुक्यं न समापन्नाः ॥

45.7

श्रुत्वा च पुनस् तत एकत्याः कौशिनागरा मल्लाः पृथिव्याम् आवर्तन्ते परिवर्तन्ते ॥ एक्(अत्या बाहून् प्रगृह्य प्रक्रोशन्ति ॥ ए)वम् आहुः ॥ अतिक्षिप्रं भगवान् परिनिर्वृतः ॥ अतिक्षिप्रं सुगत(ः पर्)इ(निर्वृतः ॥ अतिक्षिप्रं चक्षुर् लो)कस्यान्तर्हितः ॥

45.8

ए(कत्याश् चेतोदुःखसमर्पितास् ति)ष्ठन्ति ॥ एकत्या धर्मताम् एव प्रतिसरन्ति ॥ प्राग् एवास्माक(ं) भगवताख्यातं स(र्)वै(र् इष्टैः कान्तैः प्रियैर् मनापैर् नानाभावो) भविष्यति विन्(आभावो विप्रयोगो विसंयोगः ॥) कुत एतल् लभ्यं यत् तज् जातं भूतं कृतं संस्कृतं वेदयितं प्रतीत्यसमुत्पन्नं (क्षयधर्मं व्ययधर्मं विभवधर्मं विरागधर्मं नि)रोधधर्मं (प्)र्(अ)लो(कधर्मं न प्ररुज्यते) नेदं स्थानं विद्यते ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc