महापरिनिर्वाणसूत्र · अध्याय 42
तत्र भगवान् भिक्षून् आमन्(त्)रयते ॥
पृच्छत भिक्षवो मा विधारयत ॥ यस्य स्यात् काङ्क्षा वा विमतिर् वा बुद्धे वा धर्मे वा सङ्घे वा दुःखे वा समुदये वा निरोधे वा मार्गे वा स प्रश्नेनाहं व्याकरणेन ॥
स्यात् खलु युष्माकम् एवम् ॥ कथं वयं शास्तारम् आसाद्यासाद्य प्रतिमन्त्रयिष्यामः ॥ न खल्व् एवं द्रष्टव्यम् ॥ भिक्(षु)र् (भ्)इक्षो(र् आरोच)यता(ं) सहायकः सहायकस्य स प्रश्नेनाहं व्याकरणेन ॥
अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् ॥
यथा खल्व् अहं भदन्त भ्(अगवतो भाषितस्यार्थ)म् (आ)ज्(आन्)आमि नास्ति कश्चिद् अस्यां परिषद्य् एकभिक्षुर् अपि यस्य स्यात् काङ्क्षा वा विमतिर् वा पूर्ववद् यावन् मार्गे वा ॥
साधु साध्व् आनन्द प्रसादेन त्वम् एवं वदसि ॥ त(थागतस्य त्व् अन्)उत्तरे ज्ञानदर्शनं प्रवर्तते ॥
यावन्तः खलु भिक्षवो ऽस्यां परिषदि सन्निषण्णाः सन्निपतिता नास्ति कश्चिद् अत्र एकभिक्षुर् अपि य्(अस्य) स्यात् काङ्क्षा वा विमतिर् वा पूर्ववद् यावन् मार्गे वा ॥
अपि तु करणीयम् एतत् तथागतेन यथापि तत् पश्चिमां जनताम् अनुकंपमानः ॥
अथ भगव्(आन् स्वकायाद् उत्तरासङ्गम् एकान्)ते विवृत्य भिक्षून् आमन्त्रयते ॥
अवलोकयत भिक्षवस् तथागतस्य कायम् ॥ व्यवलोकयत भिक्षवस् तथागतस्य कायम् ॥ तत् कस्माद् धेतोः ॥ दुर्लभदर्शना य्(अस्मात् तथागता) अर्हन्तः सम्यक्संबुद्धास् तद्यथोदुंबरे पुष्पम् ॥
अङ्ग भिक्षवस् तूष्णीं भवत व्ययधर्माः सर्वसंस्काराः ॥
इयं तत्र तथागतस्य पश्चिमा (वाचा ॥)
(तद्) उक्त्वा भगवान् प्रथमं ध्यानं समापन्नः ॥ प्रथमाद् ध्यानाद् व्युत्थ्(आय द्वितीयं ध्यानं समापन्नः ॥ द्वितीयाद् ध्यानाद् व्युत्थाय तृतीयं ध्यानं समापन्नः ॥ तृतीयाद् ध्यानाद् व्युत्थाय चतुर्थं ध्यानं समापन्नः ॥ चतुर्थाद् ध्यानाद् व्युत्थायाकाशानन्त्यायतनं सम्)आपन्नः ॥ आ(काशानन्त्यायतनाद् व्युत्थाय विज्ञानानन्त्यायतनं समापन्नः ॥ विज्ञानानन्त्यायतनाद् व्युत्थायाकिञ्चन्यायतनं) समापन्न्(अः ॥ आ)क्(इ)ञ्चन्यायतन्(आद् व्युत्थाय नैवसञ्)ज्ञ्(आ)नास(ञ्)ज्ञ्(आयतनं समापन्नः ॥ नैवसञ्ज्ञानासञ्ज्ञायतनाद् व्युत्थाय सञ्ज्ञावे)दयितनिरोध(ं) स्(अमापन्नः ॥)
(अ)थायुष्मान् (आनन्द आ)युष्मन्त्(अम् अनिरुद्धम् इदम् अवोचत् ॥)
(परिनिर्वृत आयुष्मन्न् अनिरुद्ध भगवान् ॥)
(नैवम् आयुष्मन्न् आनन्द ॥ सञ्ज्ञावेदयितनिरोधं स)मापन्(नो बुद्धो भगवान् ॥)
(संमुखं म आयुष्मन्न् अनिरुद्ध भगवतो ऽन्तिकाच् छ्रुतं संमुखम् उद्गृहीतम् ॥ चतुर्थं ध्यानं समाप्य चक्षुष्मन्त आनिञ्ज्यं शान्तिं समापन्ना बुद्धा भगवन्तः प)र्(इ)न्(इ)र्वान्ति ॥
अथ भगव्(आन् सञ्ज्ञावेदयितनिरोधाद् व्युत्थाय नैवसञ्ज्ञानासञ्ज्ञायतनं समापन्नः ॥ नैव)स(ञ्)ज्ञान्(असञ्ज्)ञ्(आयतनाद् व्युत्थायाकिञ्चन्यायतनं समापन्नः ॥ आकिञ्चन्यायतनाड् व्युत्थाय विज्ञानानन्त्यायतनं समापन्नः ॥ विज्ञानानन्त्य्)आयतनाद् व्युत्थ्(आयाकाशानन्त्यायतनं समापन्नः ॥ आकाशानन्त्यायतनाद् व्युत्थाय चतुर्थं ध्यानं समापन्नः ॥ चतुर्थाद् ध्यानाद् व्युत्थाय तृतीयं ध्या)नं समा(पन्नः ॥ तृतीयाद् ध्यानाद् व्युत्थाय द्वितीयं ध्यानं समापन्नः ॥ द्वितीयाद् ध्यानाद् व्युत्थाय प्रथमं ध्यानं समापन्नः ॥ प्रथमाद् ध्यानाद् व्युत्थाय द्वितीयं ध्यानं समापन्नः ॥) (द्)व्(इ)त्(ई)या(द्) ध्य्(आ)न्(आद् व्युत्थाय तृतीयं ध्यानं समापन्नः ॥ तृतीयाद् ध्यानाद् व्युत्थाय चतुर्थं ध्यानं समापन्नः ॥ चतुर्थं ध्यानं समाप्य चक्षुष्मान् आनिञ्ज्यं शान्तिं) समापन्नो बुद्(ध्)ओ( भगवान् परिनिर्वृतः
॥)
(समनन्तरपरिनिर्वृते बुद्धे भगवत्य् अत्यर्थं तस्मिन् समये महापृथिवीचालो ऽभूद् उल्कापाता दिशोदाहा अन्तरीक्षे देवदुन्दुभयो नदन्ति ॥)
43 वोर्ग्. 43 इस्त् एइन् इन् देर् सन्स्क्रित्वेर्सिओन् निछ्त् üएबेर्लिएfएर्तेर् तिबेतिस्छ्-छिनेसिस्छेर् सोन्देर्तेxत् (न्र्. वि), इन् देम् बेरिछ्तेत् wइर्द्, wइए क्öनिग् अजातशत्रु वोन् मगध मित् हिल्fए एइनेस् गेम्äल्देस् वोम् तोदे देस् बुद्ध इन् केन्न्त्निस् गेसेत्zत् wइर्द्. सिएहे उन्तेन् स्. 490-494.
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0