भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 41

41.1

स्या(त् ख)ल्(उ यु)ष्(म्)आकं भिक्षवो ममात्ययात् ॥ परिनिर्वृतो ऽस्माकं शास्त्(आ ॥) न्(आ)स्त्य् एतर्ह्य् अस्माकं (शास्ता) निःसरण(ं) वा ॥

41.2

न खल्व् एवं द्रष्टव्यम् ॥ यो वो मयान्वर्धमासं प्(र्)आ(त्)इ(मोक्ष उद्देशितः स वो ऽद्याग्र्)एण शास्(त्)आ स च व्(ओ निःसरणम् ॥)
(यानि भिक्षवः क्षुद्रानुक्षुद्राण्)इ (शि)क्षापदा(नि तानि कालेन संघः समग्रीभूतः समुद्धरतु तत् सुखस्पर्शविहाराय) संवर्तते ॥

41.3

तस्मा(त् तर्हि) चाद्याग्रे(ण) नवतर(केण) भिक्षुणा वृद्धतरको (भिक्)षु(र् न नामवादेन न गोत्रवा)दे(न समुदाच)रितव्यो ऽन्यत्र भदन्त्(एति) वायुष्मद् वा ॥

41.4

तेन च वृद्धतरकेण भिक्षुणा नवतरको भिक्षुर् उपस्थापयितव्य उपलाडयितव्यः प्(आ)त्र्(ए)ण चीवरेण शिक्येन (सरके)ण कायबन्धनेन (प्)र्(अकर)णिकया परिपृच्छनिकयोद्द्(ए)श्(एन योगेन) मनसिकारेण ॥

41.5

चत्वार इमे भि(क्)ष्(अवः) पृ(थिवीप्)र्(अदेशाः श्राद्धस्य कुलपुत्रस्य कुलदुहितुर् वा यावज्जीवम् अनुस्मरणीया भवन्ति ॥)

41.6

(कतमे चत्वा)रः ॥ इह भगवाञ् जातः ॥ इह भ(गवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः ॥ इह भगवता त्रिपरिवर्तं द्वादशाकारं धार्म्यं धर्मचक्रं) प्रवर्तितम् ॥ इह भगवान् अनुपधिशेषे निर्वा(णधातौ परिनिर्वृतः ॥)

41.7

(आगमिष्यन्ति भिक्षवो ममात्ययाच् चैत्यपरिचारकाश् चैत्यवन्दकास् त एवं व)क्ष्(य)न्ति ॥

41.8

इह भगव्(आ)ञ् (जातः ॥ इह भगवान् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः ॥ इह भगवता त्रिपरिवर्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तितम् ॥ इह भगवान् अनुपधिशेषे निर्वाणधातौ परिनिर्वृ)तः ॥

41.9

अत्रान्तरा ये केचित् प्रसन्नचित्ता ममान्तिके कालं करिष्यन्ति ते सर्वे स्वर्गोपगा ये (केचित् सोपधिशेषाः ॥)

41.10

अपर्(अं) चत्वारः पृथिवीप्रदेशा(ः) श्राद्धस्य कुलपुत्रस्य्(अ कु)लदुहितुर् वा यावज्जीवम् अभिगमनीया भवन्ति ॥

41.11

कतमे चत्वार(ः) ॥ इह भगवाञ् जा(तः ॥ इह भगवान् अ)नुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः ॥ इह भगवता त्रिपर्(इव)र्तं द्वादशाकारं धार्म्यं धर्मचक्रं प्रवर्तितम् ॥ इह भगवान् अनुप(ध्)इ(शेषे निर्वाणधातौ प)रिनिर्वृतः ॥

41.12

आगमिष्यन्ति भिक्षवो (ममात्ययाच् चैत्यपरिचारका)श् चैत्यवन्दक्(आ)स् त्(अ एवं वक्ष्यन्ति ॥)

41.13

इह भग(वाञ्) जातः ॥ इ(ह भगवान् अनुत्तरां सम्यक्संबोधिम् अ)भिसं(बुद्धः ॥ इह भगवता त्रिपरिवर्तं द्वाद)शाकारं धार्म्यं ध(र्)मचक्र्(अं) प्रवर्तितम् ॥ इह भगवान् अन्(उपधिशेषे निर्वाणधातौ) परिनिर्वृतः ॥

41.14

अत्रान्तरा ये केचित् प्रसन्नचित्ता ममान्तिके कालं करिष्यन्ति सर्वे ते स्वर्गोपगा ये केचित् सोपधिशेषाः ॥

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc