महापरिनिर्वाणसूत्र · अध्याय 40
(तेन खलु समयेन कुशिनगर्यां सु)भद्रः परिव्राजक(ः) प्रतिवसति जीर्णो वृद्धो महल्लकः ॥
स वि(ंशतिशतवयस्कः कौशिनागराणां मल्लानां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन् संमतः ॥)
(अश्र्)औषीत् स्(उ)भद्रः परिव्राजकः ॥ अद्य श्रमणस्य गौतमस्य (रात्र्या मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति ॥)
(अस्ति च मे धर्मेषु काङ्क्षितत्)व्(अम् आ)शा च मे सन्तिष्ठते प्रतिबलश् च (मे) स भवाङ् गौतमस् त्(अत् काङ्क्षितत्वं प्रतिविनोदयितुम् ॥)
(सचेद् येन भगवाङ् गौतमस् तेनोपसङ्क्रमेयम् उपसङ्क्रम्य पृच्छेयं) कञ्चिद् एव प्रदेशम् ॥ सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणा(य ॥)
(श्रुत्वा च पुनः कुशिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपसङ्क्रान्तः ॥)
(तेन खलु समये)नायुष्मान् आनन्द आरामद्वारे ऽभ्यवकाश्(ए) च्(अङ्क्)र्(अमे चङ्क्रम्यते ॥)
(अद्राक्षीत्) सुभद्रः प्(अ)र्(इव्राजक आयुष्मन्तम् आनन्दं दूराद् एव ॥ दृष्ट्वा च पुनर् येनायुष्मान् आनन्द)स् त्(ए)नोपजगाम्(अ ॥ उपेत्यायुष्मन्त)म् आनन्दम् इदम् अवोचत् ॥
श्रुतं मे भो आनन्दाद्य श्रमण्(अस्य गौतमस्य रात्र्या मध्यमे यामे ऽनुपधिशेषे निर्वाणधातौ परिनिर्वाणं भविष्यति ॥)
(अस्ति) च मे धर्मेषु काङ्क्षितत्वम् आशा च मे सन्तिष्(ठत्)ए प्रतिबलश् च मे स भ्(अवाङ् गौतमस् तत् काङ्क्षितत्वं प्रतिविनोदयितुम् ॥)
(सचेद् येन भगवाङ् गौतम)स् तेनोपसङ्क्रमेयम् उपसङ्क्रम्य पृच्छेयं कञ्चिद् एव प्रदेशं सच्(एद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय ॥)
(आनन्दाह ॥ अलं सुभद्र मा भगवन्तं विहेठय श्रान्तकायो भगवाङ् क्लान्तकायः सुगतः ॥)
(द्विर् अपि त्रिर् अपि सुभ)द्(र)ः परिव्रा(जक आयुष्मन्तम् आ)नन्दम् इदम् अवोचत् ॥
श्रुतं (भो आनन्द पुराणानां परिव्राजकानाम् अन्तिकाज् जीर्णानां वृद्धानां महतां चरणाचार्याणां क)दाचित् कर्ह्(इचित् तथागता अर्)हन्तः सम्यक्संबुद्धा लो(क उत्पद्यन्ते तद्यथोदुम्बरं पुष्पं ॥)
(तस्य चाद्य भगवतो गौतमस्य रात्र्या मध्यमे यामे ऽनु)पधिशे(षे निर्वाणधातौ परिनि)र्वाणं भविष्यति ॥
(अस्ति च मे धर्मेषु काङ्क्षितत्वम् आशा च मे सन्तिष्ठते प्रतिबलश् च मे स भवाङ् गौतमस् तत् काङ्क्षितत्वं प्रतिविनोदयितुम् ॥)
(सचेद् येन भगवाङ् गौतमस् तेनोपसङ्क्रमेयम् उपसङ्क्रम्य पृच्छेयं कञ्चिद् एव प्रदेशम् ॥ सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय ॥)
(पुनर् अ)प्य् (आ)युष्मान् आन्(अन्दः सुभद्रं परिव्राज)क्(अ)म् (इ)दम् अवोचत् ॥
(अलं सुभद्र मा तथागतं विहेठय श्रान्तकायो भगवाङ् क्लान्तकायः सुगतः ॥)
(इमं च पुनर् आयुष्मत आनन्दस्य सुभद्रेण) पर्(इव्)र्(आजकेन) स्(आ)र्धम् अन्तराक्(अथां विप्रकृताम् अश्रौषीद् भगवान् दिव्येन) श्रोत्र्(ए)ण वि(शुद्धे)नातिक्रान्त(मा)नुषेण ॥ श्रुत्व्(आ च पुनर् आयुष्मन्तम् आनन्द)म् आमन्त्रयते ॥
अल्(अम् आनन्द) मा सुभद्(र्)अं परिव्(राजकं वारय प्रवि)शतु पृच्छतु यद् यद् एवाकाङ्क्षते ॥ तत् कस्माद् धेतोः ॥ अयं (मे पश्चि)मो ऽन्यती(र्)थिक्(अ)प्(अरिव्राजकैः सार्धम् अ)न्तराकथ्(आ)समु(दाहारः ॥ अयं च म्)ए पश्चिमो भव्(इष्यति साक्षाच्छ्रा)वकाणाम् एहिभिक्षुकप्रव्र्(अजितानां यद् उत सुभद्रः परिव्राजकः ॥)
(अथ सुभ)द्र(ः) परिव्राजको भग्(अवता कृतावकाशो हृष्टतुष्टप्रमुदित) उदग्रः प्रीतिसौमनस्यजा(तो येन भगवांस्) त्(ए)नोप(संक्रान्तः ॥)
(उपसंक्रम्य भगवत्)आ सार्धं संमुखं संमोदनी(ं) संरञ्जन्(ईं) कथा(ं) विविधाम् उपस(ं)हृत्यैकान्ते न्यषीदत् ॥
एकान्तनिषण्ण्(अः सुभद्रः परिव्राजको भगवन्त)म् (इ)दम् अवो(चत् ॥)
पृच्छेयम् अहं भो गौतम कञ्चिद् एव प्रदेशम् ॥ सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकर्(अणाय ॥)
<नुर् तिब्. उन्द् छिन्.>
(यानीमानि भो गौत)म पृथग् लोके तीर्थ्यायतन्(आ)न्(इ) तद्यथा पूरणः काश्यपो मस्करी गोशालीपुत्रः संजयी (वै)रु(टी)प्(उत्)र्(ओ ऽजितः केशकम्बलः ककुदः कात्यायनो निर्)ग्रन्थो ज्ञातिपुत्रः प्रत्यज्ञासिषुर् इमे स्(वां) स्वा(ं) प्रतिज्ञाम् ॥
अथ भगवांस् तस्यां वेल्(आया)ं गा(थ्)ए बभाषे ॥
(एकोनत्रिंशो वयसा सुभद्र
यत् प्राव्रजं किं कु)श्(अ)लं गवेषी ॥
पञ्चाशद् (वर्षा)णि समाधिका(नि
य)तश् चाह(ं) प्रव्रजित(ः) सुभद्र । 1
शीलं समा(धिश् चरणं च विद्या
चैकाग्रता चेतसो भाविता मे ॥
आर्य)स्य धर्मस्य प्रदेशवक्ता
इतो बहिर्ध्(आ) श्(र)मणो हि नास्ति । 2
यस्मिन् सुभद्र धर्मविनय आर्याष्टाङ्गो मार्गो नोपलभ्य्(अते प्रथमः श्रमण)स् तत्र नोपलभ्(यते) द्व्(इ)त्(ई)यस् तृतीय्(अश् चतु)र्(थः) श्(र)म्(अणस् त)त्र नोपल(भ्)यते ॥
यस्मिंस् तु सुभद्र धर्मविनय आर्याष्टाङ्गो मा(र्)ग उपल्(अभ्यते प्रथमः) श्(र)मणस् तत्रोपलभ्यते (द्वितीयस् तृतीयश् चतुर्थ)ः श्रमणस् त्(अत्रोप)लभ्यते ॥
अस्मिन् सुभद्रार्ये धर्मविनये आ(र्याष्टाङ्गो मार्ग उपलभ्यते तद्य)था सम्यग्द्(ऋ)ष्(टिः सम्यक्सङ्कल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः) सम्यग्व्यायामः सम्यक्स्मृत्(इ)ः सम्यक्सम्(आ)ध्(इः ॥ इह) प्रथ्(अमः श्रमण उपलभ्यत इह द्वितीय इह तृतीय इह चतुर्थो न सन्तीतो बहिः) श्(र)मणा वा ब्राह्मणा वा ॥
शून्याः परप्रव्(अच)न्(आ)ः श्रमणैर् वा ब्राह्मणैर् वा ॥ एवम् (अत्र पर्षदि सम्यक्सिंहनादं नदा)मि ॥
अस्मिन् ख(लु धर्मप)र्याये (भा)ष्यमाणे सुभद्रस्य परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्प्(अन्नम् ॥)
(अथ सुभद्रः परिव्राजको दृष्टधर्मा प्राप्तधर्)म्(आ) पर्यव(गा)ढधर्मा तीर्णकाङ्क्ष्(अस् ती)र्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यन्(ए)य्(अः शास्तुः शासने धर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उ)त्तरासङ्गं कृत्वा येनायुष्मान् आनन्दस् त्(ए)नाञ्जलिं प्रणम्यायुष्मन्तम् आ(न)न्द्(अम् इद)म् अवोच्(अत् ॥)
(लाभा भदन्तानन्देन सुलब्धा यद् भगवतानन्द्)ओ महाचार्येण महा(चा)र्यान्तेवास्यभिषेकेणाभिषिक्तः ॥ अस्माकम् अपि स्युर् लाभाः सुल्(अ)ब्ध्(आ यद् व)यं (लभेमहि स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम् ॥)
(अ)थायुष्(मा)न् आनन्दो भगवन्तम् इदम् अवोचत् ॥
अय(ं) भदन्त सुभद्रः परि(व्)र्(आजक आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम् ॥)
(तत्र भगवान्) सुभ्(अद्रं) परिव्राजकम् आमन्त्रयते ॥
एहि भिक्षो चर ब्रह्मचर्(य)म् ॥
सैव (त)स्य्(आयुष्)म्(अतः) प्रव्र्(अज्)य्(आ)भूत् सैवोपसंपत् स एव भ्(इ)क्षुभाव(ः ॥)
एवं प्रव्रजितः (स) आयुष्म्(आन् एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्यहार्षीत् ॥ एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्)
यस्य्(आर्)थ्(अं) कुलपुत्राः क्(ए)श्(अश्म)श्(रू)ण्य् अवत्(आ)र्य क्(आषायाणि वस्त्राण्य् आच्छाद्य) सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञाय साक्ष्(आत्कृत्योपसंपद्य प्रवे)दयति ॥
क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामि ॥
आज्ञातवान् स आयुष्मान् (अर्)ह्(अन्) बभू(व सुविमुक्तः ॥)
(पुन)र् अथायुष्मतः सुभद्रस्यैतद् अभवत् ॥
न मम प्रतिरूपं स्याद् यद् अहं शास्तारं परिनिर्वायन्तं पश्येयं यन्न्व् अहं प्रथमतर्(अं परिनिर्वायेयम् इति ॥)
तत्रायुष्मान् सुभद्रः प्रथमतरः परिनिर्वृत(ः) ॥
तत्र भगवान् भिक्षून् आमन्त्रयते ॥
तस्मात् तर्हि भिक्षवो ऽद्याग्रेणा(न्य)त्(ईर्थि)का न प्रव्राजयितव्या नोपसंपादयितव्याः स्थापयित्वा ज्ञातिशाक्यं वाग्नेयं वा जटिलम् ॥
ज्ञातिशाक्य आगच्छेत् तीर्थिकध्वजेन यद्य् (आ)क्(आ)ङ्(क्षेत) धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं तम् ए(वाकाङ्क्ष)म्(आ)णं भिक्षवः प्रव्राजयेयुर् उपसंपादयेयुः ॥
तत् कस्माद् धेतोः ॥ ददाम्य् अहं ज्ञातीनां (ज्ञात्यभ्यनुज्ञान)म् ॥
अन्यतीर्थिकपरिव्राजका आगच्छेयुर् यद्य् आकाङ्क्षेय्(उः स्वाख्याते धर्म)विनये प्रव्रज्याम् उपसंपदं भिक्षुभावं तत एनां भिक्षवश् चतुरो मासा(न् उपाध्यायेनाका)लकैश् चीवरैः परिवासयितव्यं मन्येयुः ॥
(चतुर्णां मासा)नाम् अत्ययात् परिवासिनः पर्युपास्य भिक्षुसंघस्याराधितचित्तास् तत एन्(आन् आकाङ्क्षमाणान् प्रव्राज)य्(ए)युर् उपस(ं)प्(आ)दय्(ए)युः ॥
प्रव्राज्(अ)य्(अ)त्(अ भिक्)ष्(अव) आग्नेयाञ् जटिलान् ॥ उपसंपादयत भिक्षव आग्नेयाञ् जटिलान् ॥ तत् कस्माद् धेतोः ॥
कर्मवादि(नो हि भिक्षव) आग्नेया जटिलाः क्रियावादिनो हेतुवादिनो वीर्य(वादिनः ॥)
(त)स्मात् तर्हि भिक्षव एवं शिक्षितव्यम् ॥
यत् कर्मवादिनश् च भविष्यामः क्रियावादि(नश् च हेतुव्)आदिनश् च वीर्यवादिनश् च ॥ एवं वो भिक्षवः शिक्षितव्यम् ॥
(तस्मात् त)र्हि भिक्षवो ये ते धर्मा दृष्टधर्महिताय स्(अं)वर्तन्ते दृष्टधर्मसुखाय सांप्(अरायहिताय) सांपरायसुखाय ते भिक्षुभिर् उद्गृह्य पर्यवाप्य त(था तथा धा)रयितव्या ग्राहयितव्या वाचयितव्या यथेदं ब्रह्मचर्यं चिर(स्थितिकं भ)विष्यति बहुजनहिताय बहुजनसुखाय (लोकानु)कंपायार्थाय हिताय सुखाय देवमनुष्याणाम् ॥
कतमे ते धर्मा दृष्टद्(हर्म)ह्(इ)ताय संवर्तन्ते पूर्ववद् यावद् देवमनुष्याणाम् ॥
तद्यथा सूत्रं गेयं (व्या)करणं गाथोदाननिदानावदानेतिवृत्तकजातकवैपुल्याद्भुतधर्मोपदेशाः ॥ इमे ते धर्मा दृष्टधर्महिताय संवर्तन्ते पूर्ववद् यावद् देवमनुष्याणाम् ॥
मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0