भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 38

38.1

(एवम् इति कौशिनागरा मल्ला आयुष्मन्तम् आनन्दं प्रतिश्रुत्य सपुत्रदाराः सदासीदासकर्मकरपौरुषेयाः समित्रामात्यज्ञातिसालोहिताः) कु(शिनगर्या निष्क्रम्य येन यमकशालवनं तेनोपजग्मुः ॥ उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन् ॥)

38.2

(एकान्तनिषण्णान्) कौशिनागरान् मल्लान् (भगवान् धार्म्या कथया सन्दर्शयति समादपयति समुत्तेजयति संप्रहर्षयति ॥)

38.3

(अथ कौशिनागरा मल्ला उत्थायासनाद् एकांस)म् (उ)त्तर्(आस)ङ्ग्(अं) कृत्वा (येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचन् ॥)

38.4

(एते वयं भदन्त कौशिनागरा मल्ला बुद्धं शरणं गच्छामो धर्मं च भिक्षुसंघं च ॥) अद्य्(आग्रेण यावज्जीवं शिक्षापदानि प्रतिग्रहीष्यामः ॥)

38.5

(अथायुष्मत आनन्दस्यैतद् अभवत् ॥)

38.6

(सचेद् अहं कौशिनागरान् मल्लान् एकैकं भगवतो ऽन्तिके उपासकशिक्षापदानि प्रतिग्राहयिष्याम्य् अर्धरात्र्य् अगृहीतशिक्षापदा प्रसरिष्यति ॥ यन्न्व् अहं कौशिनागरान् मल्लान् भगवतो ऽन्तिक उपासकशिक्षापदानि युगपत् प्रतिग्राहयेयम् ॥ एवंनामा कौशिनागरो मल्लः सपुत्रदारः सदासीदासकर्मकरपौरुषे)यः स(मि)त्रामात्यज्ञातिसालोहितो बुद्धं शरणं गच्छति धर्मं संघञ् (च ॥)

38.7

(अथायुष्मान् आनन्दो भगवन्तम् इदम् अवोचत् ॥)

38.8

(एवंनामा भदन्त कौशिनागरो मल्लः सपुत्रदारः) सदासीदासकर्मकरपौरुषेयः स(मि)त्रामात्यज्ञातिसालो(हितो बुद्धं शरणं गच्छति धर्मं च संघं च ॥ शिक्षापदानि प्रतिग्रहीतुम् इच्छति ॥ एवम्) एव रात्र्याः प्रथमो यामः ॥
अथ च पुनर् आयुष्म्(आन् आनन्दो ऽनतिक्रान्ते मध्यमे यामे तांस् ताङ् कौशिनागरान् मल्लान् भगवतो ऽन्तिके शिक्षापदानि प्रत्यजिग्रहत् ॥)

38.9

(अथ कौशिनाग)रा मल्ला भगवतो भाषितम् अभिनन्द्यानुमोद्य्(अ भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ताः ॥)
39. तिबेतिस्छ्-छिनेसिस्छेर् सोन्देर्तेxत्

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc