भाषा

ENहिગુ
ग्रंथ पाठ

महापरिनिर्वाणसूत्र · अध्याय 37

37.1

गच्छानन्द कौशिनागराणां मल्लानाम् आरोचय ॥

37.2

अद्य वो वासिष्ठाः शास्तू (रात्र्या मध्यमे यामे ऽनुपधिशेषे निर्)वाणधातौ परिनिर्वाणं भविष्यति ॥

37.3

यद् वः कृत्यं वा करणीयं वा तत् क्(उ)रुध्वं मा वः पश्चाद् विप्रतिसारो भविष्यति क्(अ)थ्(अ)म् (इदानीम् अस्माकं ग्रामक्षेत्रे शास्ता परिनिर्वृतो यस्य वयं दर्शनाय पूजाधिकारिकायै नोपसं)क्रान्ताः ॥

37.4

ए(वं भ)दन्तेत्य् आयु(ष्मान् आनन्दो भगवतो प्रतिश्रुत्य संघाटिम् आदायान्यतमेन भिक्षुणा पश्चाच्छ्रमणेन येन कौशिनागराणां मल्लानां संस्थागारस् तेनोप)जगाम ॥

37.5

(तेन) खलु सम(येन कौशिनागरा मल्लाः संस्थागारे सन्निषण्णाः सन्निपतिता यद्भूयसा तेनैव करणीयेन ॥)

37.6

(अथायुष्मा)न् आनन्द्(अः कौशि)नागर्(आन् मल्लान् इदम् अवोचत् ॥)

37.7

(शृण्वन्तु भवन्तः कौशिनागरा मल्लाः संघा वा गणा वा पूगा व परिषदो वा ॥ अद्य वो वासिष्ठाः शास्तू रात्र्या मध्यमे यामे ऽनु)पधिशेषे (निर्वा)णधातौ परि(निर्वाणं भविष्यति ॥)

37.8

(यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वं मा वः पश्चाद् विप्रतिसारो भविष्यति कथम् इदानीम् अस्माकं ग्रामक्षेत्रे शास्ता परिनिर्वृतो यस्य वयं दर्शनाय पूजाधिकारिकायै न समुपक्रान्ताः ॥)

मूल पाठ: Mahāparinirvāṇasūtra · Edition: Ernst Waldschmidt, Das Mahaparinirvanasutra, Teil 1_3, Berlin 1950_1951 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse für Sprachen, Literatur und Kunst [bis Jahrgang 1949: Phil.-Hist. Kl.] 1949.1, 1950.2,3). · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc